पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २०९
← अध्यायः २०८ | पद्मपुराणम् अध्यायः २०९ वेदव्यासः |
अध्यायः २१० → |
युधिष्ठिर उवाच-
सौभरे कस्य तीर्थस्य माहात्म्यं नारदो मुनिः ।
वर्णयामास शिबये शक्रतीर्थगतस्य च १।
अतस्तु मम शुश्रूषा जायते मुनिपुंगवः ।
शिविनारदसंवादं ब्रूहि पुण्यं नताय मे २।
सौभरिरुवाच-
धर्मराज शिबीराजा श्रुत्वा नारदवर्णितम् ।
द्वारकायास्तु माहात्म्यं तमेवापृच्छदादरात् ३।
शिबिरुवाच-
ब्रह्मांगज सुरश्रेष्ठ श्रुतं माहात्म्यमुत्तमम् ।
इंद्रप्रस्थतटस्थाया द्वारकाया मयाद्भुतम् ४।
अयोध्यायां यदि मुने किंचिदस्ति पवित्रकम् ।
चरितं मम तद्ब्रूहि पिपासोस्त्वद्वचोऽमृतम् ५।
नारद उवाच-
अस्त्यत्र चरितं पुण्यं महापातकनाशनम् ।
नापितस्याद्ययुक्तस्य मुकुंदस्य द्विजस्य च ६।
ब्रह्महा नापितो राजन्नपमृत्युं गतो द्विजः ।
प्रसादात्कोशलायास्तु द्वावपि स्वर्गतिं गतौ ७।
चंद्रभागा नदी तीरे पुरी सा च निवेशिता ।
तत्रास्ति नापितः पापश्चंडकोनाम गर्हितः ८।
चौर्येण परवित्तानामपहर्ता स पापकृत् ।
घातकः शस्त्रपाशाद्यैः पांथानामवलुंठकः ९।
द्यूतमद्यरतो नित्यं परस्त्रीलंपटेंद्रियः ।
भित्वा देवालयं भित्तिमिष्टिका ग्राव विक्रयी १०।
स तस्योद्वसिताभ्यासे ब्राह्मणो वसति श्रिया ।
संयुक्तो ब्रह्मकर्मज्ञो मुकुंदो नामतो नृप ११।
स एकदा समालिंग्य तरुणीमात्मयोषितम् ।
सुष्वाप सुरतायास श्लथांगो निशि निर्भयम् १२।
स चंडको निशीथेऽथ प्रविवेश तदालयम् ।
मुकुंदस्य समाहर्तुं हर्म्ये भूषादि वस्तु यत् १३।
उपकार्या बहिस्थं यत्तद्गृहीत्वोऽगमद्गृहम् ।
स्वकीयं च पुनस्तस्य ब्राह्मणस्याविशद्गृहम् १४।
कपाटोत्पाटनार्थी तु यत्नेन महताऽभवत् ।
लोहयंत्रावरुद्धश्च स नोद्धाटयितुं क्षमः १५।
आरुरोह तदा तस्य ब्राह्मणस्याविशद्गृहम् ।
प्रविश्य तद्गृहं क्रूरः कृपणं पाणिनादधत् १६।
अट्टालिकां स पापिष्ठो नापितस्तस्करक्रियः ।
तत्रापश्यत्प्रसुप्तौ तौ दंपतीरतिविह्वलौ १७।
जगाम च तयोः पार्श्वे हेमभूषाजिघृक्षया ।
शय्याया एकदेशस्थं गृहीत्वा भूषणं बहु १८।
हर्तुं तदंगतो हस्तं प्रससार स नापितः ।
तस्करस्पर्शतो विप्रो जजागार भयातुरः १९।
न किंचिदूचे संमील्य नेत्रे तत्रैव संस्थितः ।
यदा स तस्करः पापो गृहीत्वा देहभूषणम् २०।
चलितः स तदा तेन दोर्भ्यामात्तो द्विजेन हि ।
पश्चादागत्य वित्तस्यासहमानेन संक्षयम् २१।
तेनापि नृप चौरेण कृपाणेन हतो द्विजः ।
विदीर्णोदरमध्यस्तु तातमातरितीरयन् २२।
वदंतः किंकिमेत्येतत्पार्श्वं तस्या ययुर्जनाः ।
ददृशुस्तं निःसृतांत्रं रुधिरालिप्तविग्रहम् २३।
पप्रच्छुश्च मुकुंदेदं कर्म केनेदृशं कृतम् ।
सोऽपि कृच्छ्रेण महता प्रोवाचेदं स्वबांधवान् २४।
मुकुंद उवाच-।
ममैव परिपाकोऽयं पूर्वोपार्जितकर्मणाम् ।
न कश्चित्सुखदुःखस्य दाता कस्यापि देहिनः २५।
धर्मोऽधर्मश्च तावेव तेषां मूलं पुराकृतौ ।
नारद उवाच-
इत्युक्त्वा स तु भूयस्यापीडया गाढपीडितः २६।
तत्याज भूपते प्राणान्पश्यतां सुहृदां तदा ।
विललाप तदा तस्य माता द्विजसती नृप २७।
निधाय तच्छिरः स्वांके कुंडलाभ्यामलंकृतम् ।
मातोवाच-
हा हतास्मि त्वया वत्स दशामंत्यां च गच्छता २८।
दिनश्रीरिव सूर्येण पश्चिमाचललंबिना ।
यदंगं चंदनालेपयोग्यं तव महामते २९।
मां मज्जयार्तिशोकाब्धौ तदिदं धूलिधूसरम् ३०।
तांबूलचर्वणेभ्यासो यस्त्वया विहितस्त्वसौ ।
स एव रुधिरोद्गार मिश्रेण क्रियते ध्रुवम् ।
तव ये लोचने पूर्वं जिग्यतुः कमलश्रियम् ३१।
त एव सांप्रतं जाते तिमिरौघा वृते इव ।
उत्तिष्ठोत्तिष्ठ वत्स त्वं शिष्यानध्यापयात्मनः ३२।
यथावद्वैश्वदेवांते पूजयातिथिमागतम् ।
द्वारि स्थिता वयस्यास्ते त्वाह्वयंति प्रयाहि तान् ३३।
दातव्यं यद्ददस्वैभ्यो गृहीतव्यं गृहाण तत् ।
हाहा देहि प्रतिवचः पतामि तव पादयोः ३४।
नोचेदहं विमोक्ष्यामि प्राणांस्तव समीपतः ।
नारद उवाच-
इत्युक्त्वा मूर्छिता तस्य मुकुंदस्य प्रसूस्तदा ३५।
भार्या तस्य शिरः स्वांके विधाय व्यलपच्च सा ।
भार्योवाच-
नाममार्गेण पाथोधे मदीयं वचनं शृणु ३६।
रुष्टोऽसि चेत्समं मात्रा कुतो वद ममाग्रतः ।
न कदाचित्त्वया साधो मौनमीदृक्कृतं पुरा ।
केनापि लघुना भ्रात्रा ह्यपमानः कृतस्तव ३७।
शुकोऽयं पंजरस्थस्ते नान्नमत्ति त्वया विना ।
भोजयैनं सुसिद्धान्नं कलवाचं च सारिकाम् ३८।
रामराम हरेकृष्ण विष्णो नामावलीमिति ।
पाठयोत्तिष्ठ निपुणौ द्वावेतौ सारिकाशुकौ ३९।
अपराद्धं मया किं ते यत्वं मां नाभिभाषसे ।
यत्त्वया मे धनं दत्तं तन्मया साधुरक्षिणम् ४०।
अर्पितं यत्त्वया नाथ निजतेजो ममोदरे ।
सूतिकालमहं तस्य नोपेक्षे त्वामनुव्रजे ४१।
नारद उवाच-
एवं विलप्य सा तस्य मुकुंदस्य प्रिया तदा ।
न रुरोद स्वभर्तारमनुगंतुमना सती ४२।
अथ तस्य मुकुंदस्य गुरुर्वेदायनाभिधः ।
संन्यासी पर्यटन्पृथ्वीं तस्य वेश्म ययौ नृप ४३।
मुकुंदः क्व गतो माता भार्या तस्य च धीमतः ।
न दृश्यते तदा तेन पृष्टेत्याचष्ट चेटिका ४४।
चेटिकोवाच ।
स्वामिन्केनापि चौरेण मम स्वामी हतो निशि ।
स्नुषाया भूषणं नीतं दुकूलानि च सर्वशः ४५।
स मृतः पतितो भूमौ हर्म्यस्योपरि तिष्ठति ।
तस्य माता वधूश्चैव भ्रातरश्च तदंतिके ४६।
विलपंति महाशोकसागरे पतिता गुरो ।
नारद उवाच-
इत्याकर्ण्य परिव्राट्स वचनं चेटिकोदितम् ४७।
आरुह्य हर्म्यमद्राक्षीदात्मांते वासिनं मृतम् ।
तदंतिके समालोक्य बंधूनां क्रंदतो भृशम् ४८।
उद्धरिष्यन्निदं धीरः शोकाब्धेस्तानुवाच ह ।
वेदायन उवाच-
देहमुद्दिश्य वात्मानं शोकोऽयं क्रियते त्वया ४९।
मातः कथय सत्यं मे नोभयोर्युज्यते हि सः ।
देहोऽयं भूतसंघातः प्रारब्धेः समुपार्जितः ५०।
तेषु क्षीणेषु भूतानां पृथक्त्वमुपजायते ।
यदेकीभवनं तेषां कर्मभिर्जन्म तन्नृणाम् ५१।
तन्नाशे तत्पृथक्त्वं च तदेव मरणं स्मृतम् ।
एक्यं पृथक्त्वं भूतानां कर्मार्धा नेयतो? बुधैः ५२।
अतो देहे न कर्तव्यः शोकः परवशे जडे ।
अनाद्यविद्यया जीवे दृष्टे मरणजन्मनी ५३।
देहस्यात्मन्यहं बुद्ध्या मन्यते नहि तत्र ते ।
तन्निवृत्तौ स तद्ब्रह्म यच्छुद्धं रूपवर्जितम् ५४।
स्वप्रकाशं जगद्धेतु हेत्वतीतं गुणोर्जितम् ।
नित्यं विज्ञानमानंद स्वभासा भासयज्जगत् ५५।
न जिह्वा लेढि तच्चक्षुर्न पश्यति शृणोति न ।
श्रुतिर्जिघ्रति न घ्राणं न त्वक्स्पृशति कर्हिचित् ५६।
अतीतमिंद्रियेभ्यस्तत्स्वप्रकाशकमात्मदृक् ।
अविषयं मनोदूरं बुद्धेरपि न गोचरम् ५७।
तस्यावताररूपाणि शुद्धसत्वानि देवताः ।
सेवंते तन्न जानंति रूपं यत्सदसत्परम् ५८।
एवं स्वरूपमात्मा यस्तं समुद्दिश्य कः कुधीः ।
क्रोधं कुर्याद्यतस्तस्य नोत्पत्तिर्नैव संक्षयः ५९।
इति श्रीपाद्मेमहापुराणे पचंपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये नवाधिकद्विशततमोऽध्यायः २०९ ।