पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २१०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः २०९ पद्मपुराणम्
अध्यायः २१०
वेदव्यासः
अध्यायः २११ →

नारद उवाच-
एवं प्रबोध्य तान्सर्वान्वचोभिः पारमार्थिकैः ।
स हंसः कारयामास क्रियास्तस्यात्मसंभवाः १।
अंतर्वत्नी मुकुंदस्य निर्बंधं कुर्वती वधूः ।
अनुगंतुं स्वभर्तारं विदुषा तेन वारिता २।
तस्यास्थीनि समादाय तेन सन्यासिना समम् ।
तद्भ्राता प्रययौ गंगाजले पातयितुं नृप ३।
विप्रसन्यासिनौ तौ हि कतिभिर्वासरैर्नृप ।
सार्थलोकवशात्प्राप्तौ इंद्रप्रस्थेऽत्र सत्पदे ४।
इंद्रप्रस्थांतरावर्तिन्येषा या कोशला नृप ।
अत्र सुप्तौ निशायां तौ यमुनातीरभूतले ५।
आत्मनोरुभयोर्मध्ये न्यस्यास्थिपटसंपुटम् ।
मार्गखेदपरिक्रांतौ दशां सौषुप्तिकीं गतौ ६।
निशीथेऽथ प्रसुप्तेषु सार्थलोकेषु कश्चन ।
एकः श्वा तत्र संप्राप्तः पक्वान्नादि जिहीर्षया ७।
बभ्राम सर्वशिविरे जिघ्रन्पाकस्थलीं मुहुः ।
भाजनानि लिहन्मूर्ध्नि क्व च दंडाहतिं सहन् ८।
केनचित्ताडितो मूर्ध्नि निशब्दं विद्रुतस्ततः ।
प्रतिचक्रुमशक्तस्तु स्त्रीजितः स्वस्त्रिया यथा ९।
यत्रावकंडितः स श्वा दंडग्रावेष्टकादिभिः ।
पुनर्विवेश तत्रैव सान्नपात्रलिलिप्सया १०।
भोगेच्छया यथा वेश्या स्नेहवान्निर्द्धनो जनः ।
भ्रमन्नेवं स चात्रापि यत्र सुप्तौ हि तावुभौ ११।
सारमेयस्तयोर्मध्याज्जह्रे स पटसंपुटम् ।
नीत्वा स कियतीं भूमिं दंतैस्तत्पटसंपुटम् १२।
विदार्यास्थीनि तत्स्थानि निर्मांसान्यवलोक्य सः ।
एतस्याः कोशलायास्तु जलमध्ये समाक्षिपत् १३।
क्षिप्तमात्रेषु तेनास्थिष्वेतदंबुनि भूपते ।
दिव्यं विमानमास्थाय मुकुंदोऽत्र समागतः १४।
दृष्ट्वा गुर्वनुजौ सुप्तौ शनैः प्राबोधयत्तदा ।
उवाच च नमस्कृत्य गुंरुं दिव्याकृतिर्नृप १५।
मुकुंद उवाच।
वेदायन गुरो तुभ्यं नम आशीस्तवानुज ।
प्रासादाद्वां ममास्थीनि तीर्थेऽत्र पतितानि वै १६।
अयं मृत्युमहं गत्वा निरयं प्राप्य तत्फलम् ।
एतत्तीर्थप्रसादेन दैवी लब्धा मया गतिः १७।
त्वां गुरुं तीर्थभूतं तु नमस्कर्तुमिहागतः ।
अहं गच्छन्विमानेन दिव्येन त्रिदशालयम् १८।
नमस्कृतो भवानेतत्तीर्थ चायं सहोदरः ।
दृष्टो मामनुजानीहि यामि स्वर्गं सुखोदयम् १९।
नारद उवाच-
श्रुत्वैवं वचनं तस्य मुकुंदस्य गुरुस्तदा ।
वेदायनो विमानस्थं तमूचे गतविस्मयः २०।
देवायन उवाच-
मुकुंदाख्याहि मे सत्यं लब्ध्वा यन्मरणं भवान् ।
कस्मिंल्लोके गतस्तात यतो यात्यधुना दिवम् २१।
किं वृत्तं तत्र ते तात तस्यलोकस्य कोऽधिपः ।
कीदृशी च प्रजा कीदृक्धर्मस्तत्राखिलं वद २२।
मुकुंद उवाच-
कथयामि गुरो तुभ्यं यद्वृत्तं मरणादनु ।
तीर्थस्यास्य प्रसादेन स्मृतिर्मे जायतेऽधुना २३।
यदाहं तेन निहतश्चंडकेन दुरात्मना ।
नापितेन तदा जग्मुर्यमभृत्याः सुदारुणाः २४।
पिंगाक्षा रक्तकेशाश्च श्यामदेह नखाधराः ।
वामना दीर्घचरणा ह्रस्वनासाश्च दंतुराः २५।
नीयतां नीयतामेष धर्मराजस्य शासनात् ।
पुरीं संयमनीमेवमूचिरे ते परस्परम् २६।
इत्युक्त्वा यातना देहे मां निवेश्य महारुषा ।
निबध्य दारुणैः पाशैर्जघ्नुर्लोहस्य मुद्गरैः २७।
तैरहं नीयमानस्तु मार्गे ह्युत्तप्तवालुके ।
अरुदं भृशदुःखार्तस्ताडितोऽहं पुनश्च तैः २८।
प्रोचुश्च ते ध्रुवं कृत्वा निर्भर्त्स्येति च मां बहु ।
यमदूता ऊचुः ।
त्वया लुप्तो गुरुर्यस्माद्वदता ब्रह्म निश्चलम् २९।
किं करोषि यमस्याग्रे द्रष्टव्यं दारुणं मुखम् ।
तस्य पापस्य भोक्तव्यं दारुणस्य फलं त्वया ३०।
तेनैव पाप्मना पापिन्नपमृत्युं गतो भवान् ।
इत्युक्त्वा मां मुहूर्तेन बहुयोजनसंस्थिताम् ३१।
पुरीं संयमनीं निन्युर्यत्र राजा स्वयं यमः ।
प्रणम्य धर्मराजानं स्थापयित्वा तु मां पुरः ३२।
आनीतोऽयं द्विजः पाप इति मां ते न्यवेदयन् ।
दृष्ट्वा मां धर्मराजोऽथ प्रोवाच स्वसभासदः ३३।
यम उवाच-
भो सभ्या मामकीं वाचं शृण्वंतु सुसमाहिताः ।
यदाहं ब्रह्मणा ह्यस्मिन्नधिकारे निवेशितः ३४।
तदा मामित्युवाचासौ ब्रह्मा लोकपितामहः ।
ब्रह्मोवाच-
अधर्मिणां नराणां त्वं शास्ता संयमनीपतिः ३५।
यथापराधमाधत्स्व दंडं चंडकरात्मज ।
पित्रोरपोषको यस्तु समर्थो गुरुध्रुक्तु यः ।
एतौ महापातकिनौ निपात्यौ निरयेषु ते ३६।
सर्वेषु यावद्वर्षाणां प्रत्येकमयुतं भवेत् ।
एतयोर्न त्वया कार्या दया जातु ककुप्पते ३७।
यम उवाच-
इत्यहं ब्रह्मणो वाक्यात्स्वगुरुद्रुहि मानवे ।
न करोमि क्रियां सभ्यास्तथा पित्रोरपोषके ३८।
ब्राह्मणोऽयं गुरुद्रोही तद्द्रोहादपमृत्युताम् ।
प्राप्तो मच्छासनाद्भृत्यैरानीतो दर्शनाक्षमः ३९।
भो भृत्याः प्रथमं घोरे रौरवे वत्सरायुते ।
पात्यतां च पुनस्तस्मान्निःसार्य्यान्यत्र पात्यताम् ४०।
तावंतमेव कालं वै पापोऽयं गुरुलोपकः ।
नरकेष्विति सर्वेषु यथाकालं स्थितं द्रुतम् ४१।
मुकुंद उवाच-
वेदायन गुरो स्वामिन्भृत्यास्ते यमशासनात् ।
नीत्वा मां रौरवे घोरे पाशैर्बध्वा न्यपातयन् ४२।
तत्राहं तां व्यथां गुर्वी लब्धवानतिदारुणाम् ।
यथाकोऽपि क्षणस्तात नीतो मे युगवत्तदा ४३।
त्रिंशद्दिनानि तन्नीतं दुःखं मे तत्र तिष्ठता ।
एकत्रिंशतमे ह्यस्मिन्दिनेऽहं निर्गतस्तदा ४४।
पतितेष्वस्थिखंडेषु तीर्थेऽस्मिन्नुतमोत्तमे ।
गुरुलोपोद्भवं पापं सद्यो नष्टं ममाभवत ४५।
तीर्थस्यास्य प्रसादेन लब्धा च स्वर्गतिर्मया ।
सुखं स्वर्गे निवत्स्यामि यावदिंद्राश्चतुर्दश ४६।
यमस्य नगरे तस्मिन्याः प्रजा निवसंति वै ।
पापिनां भयदायिन्यो धर्मिणां ता मनोहराः ४७।
सिंहास्या गजकोलास्या महादंष्ट्रोन्नतोदरीः ।
बिडालास्याः पिंगकेश्यो भामिन्यो दीर्घपत्कराः ४८ ।
तीर्थस्यास्य प्रसादेन निःपापोहं यदाभवम् ।
तदा मया प्रजा दृष्टा दिव्यरूपा यमालये ४९।
सर्वास्ताः सत्यवादिन्यो विनयाचारसंचिताः ।
दिव्याभरणधारिण्यो दिव्यांबरविभूषिताः ५०।
इत्येतत्कथितं तात यत्पृष्टोऽहं त्वयानघ ।
अनुजानीहि मां गंतुममरेशपुरीं प्रति ५१।
नारद उवाच-
इत्याकर्ण्य स सन्यासी स्वशिष्योक्तं वचस्तदा ।
भूयः पप्रच्छ धर्मात्मा मुकुंदं तं द्विजं नृप ५२।
वेदायन उवाच-
बाल्यावधि गुरुस्नेहं मत्तोऽधीतं त्वयाखिलम् ।
शब्दशास्त्रसमेतश्च वेदस्तु सपदक्रमः ५३।
विहिता मम शुश्रूषा भावेन भवतोत्तमा ।
त्वयि संति सतां साधो गुणाः शमदमादयः ५४।
गुरुलोपकृतं पापं कथं ते समजायत ।
एतदाख्याहि मे तात यथा जानामि तत्वतः ५५।
मुकुंद उवाच-
जन्मोपवीतकन्यानां धातारो निगमस्य च ।
यज्ञोपवीतदातुश्च नाज्ञाभंगः कृतो मया ५६।
श्वश्रुश्वशुरयोः सेवा भृत्येनेव कृता मया ।
तवापि शास्त्रदातुश्च नाज्ञाभंगः कृतो मया ५७।
पुरोधा यः कुलाचार्यो वेदवेदांतपारगः।
तस्यापराद्धं केचिन्मे तत्र त्वं श्रोतुमर्हसि ५८।
यद्यस्माकं कुले पुत्रो जायते धर्मकोविद ।
तदा पुरोधसे धेनुमेकां वा तस्य दक्षिणाम् ५९।
दत्त्वा संच्छिद्यते नालमिति वंशस्य नः स्थितिः ।
पुरा ममैव पुत्रे तु जातमात्रे शुभेऽहनि ६०।
कुलक्रिया मया तात न कृता मूढबुद्धिना ।
तस्याश्चाकरणेनैव गुरुलोपकरोऽभवम् ६१।
निवेदितमिदं सर्वं गुरुलोपाद्यथा मम ।
पापमासीदनुज्ञा मे देहि यामि सुरालयम् ६२।
वेदायन उवाच-
इंद्रप्रस्थांतरावर्तिन्येषा या कोशला शुभा ।
स्मृतिरस्याः प्रसादेन दृश्यते पूर्वजन्मनः ६३।
केन पुण्येन तीर्थेऽस्मिन्नस्थीनि पतितानि ते ।
मुकुंदाख्याहि चैतस्य स्मृतिरस्ति तवानघ ६४।
मुकंद उवाच-
एकस्तु ब्राह्मणः कश्चित्सायं मद्गृहमागतः ।
तस्मै स्थानं मया दत्तं भोजनं च यथाविधि ६५।
सोऽपि भुक्त्वा यथाकामं सुष्वाप शयने शुभे ।
निशीथे तस्य सर्वांगे ज्वरोऽभूदति दारुणः ६६।
तेन पीडितसर्वांगो निद्रां लेभे न स द्विजः ।
प्रभात एव तत्याज प्राणान्मृत्यावुपस्थिते ६७।
तस्य दाहादि कर्माणि विहितानि मया गुरो ।
तदस्थीनि च गंगायां पातितानि विधानतः ६८।
तेन पुण्येन मेस्थीनि पतितानि शिवप्रदे ।
तीर्थेऽस्मिन्कोशले नाम्नि ब्रह्मदेवविनिर्मिते ६९।
नारद उवाच-
स्वचरितमितिराजन्स द्विजः प्रोच्य सद्यः सुरसुभगशरीरो द्यां ययौ यानगत्या ।
इदमकथित मया तं तस्करात्प्राप्य मृत्युं व्यलभत दिवमेतत्तीर्थराजप्रसादात् ७०।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये मुकुंदोपाख्याने दशाधिकद्विशततमोऽध्यायः २१० ।