पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २११

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः २१० पद्मपुराणम्
अध्यायः २११
वेदव्यासः
अध्यायः २१२ →

नारद उवाच-
शिवे तवपुरः सर्वं मुकंदाख्यानमुत्तमम् ।
कथितं चंडकस्यापि नापितस्य शृणुष्व मे १।
यस्मिन्दिने मुकुंदस्तु ब्राह्मणस्तेन घातितः ।
चंडकेन तदा राजंस्तद्वृत्तं नागरैः श्रुतम् २।
श्रुत्वा तैस्तन्नृपस्याग्रे निवेदितमिति स्फुटम् ।
नागरा ऊचुः ।
चंडकेन हतो राजन्मुकुंदो ब्राह्मणोत्तमः ३।
नीतं च तद्धनं भूरि यद्युक्तं तद्विधीयताम् ।
त्वमस्माकं प्रजानां हि रक्षकः शासकोऽसताम् ४।
नारद उवाच-
इत्याकर्ण्य स भूपालो मंत्रिणं पार्श्ववर्तिनम् ।
उवाच कोपरक्ताक्षः किमेभिः कथ्यते शृणु ५।
शीघ्रमानयतं पापं नोचेत्त्वां घातयाम्यहम् ।
उत्तिष्ठोत्तिष्ठ पापिष्ठ साधूनां शं विधीयताम् ६।
पीड्यंते विषये यस्य प्रजा दस्युभिरुल्बणैः ।
स नृपो नरकं याति तेभ्यस्ताश्चेन्न रक्षति ७।
नारद उवाच-
निशम्येति वचो राज्ञः सचिवः स शिवे नृपः ।
वेगेन हयमारुह्य पदातिशतसंयुतः ८।
ययौ गृहे मुकुंदस्य तस्य बंधूनपृच्छत ।
मुकुंदः केन निहतः सत्यं ब्रूत ममाग्रतः ९।
तं पापं निहनिष्यामि शासनाद्भूपतेरहम् ।
नारद उवाच-
श्रुत्वेति मंत्रिणो वाक्यं प्रत्यूचुर्विप्रबांधवाः १०।
विप्रबांधवा ऊचुः -
चंडकेन हतो मंत्रिन्मुकुंदो नापितेन हि ।
इदं पलायमानस्य तस्योष्णीषं पपात वै ११।
दृष्टः स्वचक्षुषा वध्वा मुकुंदस्यैव सोघकृत् ।
किं कुर्मस्तेन पापेन मज्जिताः शोकसागरे १२ ।
नारद उवाच -
इत्याकर्ण्य वचस्तेषां बंधूनां ब्राह्मणस्य हि ।
स मंत्री तस्य पापस्य नापितस्य गृहं ययौ १३।
अश्वादुत्तीर्य तरसा तद्गृहं स्वयमाविशत् ।
कतिभिः पत्तिभिः सार्द्धं शयानं च ददर्श ह १४।
पत्तयस्तु तदाज्ञप्ताः केशेष्वाकृष्य तत्क्षणात् ।
तल्पादुत्थापयामासुस्तं पापं नापिताधमम् १५।
किं किमित्येव संजल्पन्नेत्रे उन्मीलयत्यसौ ।
यावत्स नापितः पापस्तावत्तं ददृशे पुरः १६।
संस्मरंतं निजं कर्म रात्रौ यत्कृतवानघम् ।
अधोमुखः क्षणं तस्थौ पश्यन्मूर्ध्नि स्थितं यमम् १७।
ग्राहयित्वा च सचिवस्तं पापं च स्वपत्तिभिः ।
निनाय नृपतेः पार्श्वमिति चोवाच भूपतिम् १८।
आनीतो ब्रह्महा राजन्नयं चंडक नापितः ।
यदाज्ञापयसि स्वामिंस्तरसा तत्करोम्यहम् १९।
राजोवाच-
धर्मज्ञ सचिवश्रेष्ठ शृणु त्वं वचनं मम ।
इयं सरिद्वरा युष्मंश्चंद्रभागात्र निर्मलाः २०।
त्यजंति येऽत्र वै प्राणाल्लँभंते ते सुरास्पदम् ।
अत एष न हंतव्यः पापात्मा ह्यत्र नापितः २१।
पंचकोशांतरे ह्यस्या मर्यादाया बहिर्यदि ।
नरकान्दारुणान्ह्येष ब्रह्महा यातु मा चिरम् २२।
नारदोवाच-
इत्युक्तस्तेन वै राज्ञा स राजन्मंत्रिसत्तमः ।
श्वपचान्प्रेरयामास हंतुं तं भूपशासनात् २३।
श्वपचास्ते तमुन्नीय चंद्रभागापरे तटे ।
योजनद्वयभूभागं चिच्छिदुस्तस्य मस्तकम् २४।
स पापो मारवे देशे सर्पोऽभूत्कालविग्रहः ।
धवकोटरमध्यस्थो विषज्वालाकराननः २५।
स शुष्को धववृक्षस्तु तस्य फूत्कारवह्निना ।
तथा तपनतापेन सरसोऽपि यथा ह्रदः २६।
गमनात्तस्य पापस्य सर्वतो वृक्षमूषरम् ।
उच्छिद्य तृणजातादि जातं पश्वहितं तदा २७।
तत्र जातु समायातः सार्थो दक्षिणदेशतः ।
नारायणाश्रमं गच्छन्बदर्याख्यं शिवे नृप २८।
तत्रैको ब्राह्मणः कश्चित्सार्थेसंमीलितः पथि ।
निश्छिद्रां काष्ठमंजूषां पितृमात्रस्थिसंयुताम् २९।
स्कंधेन धारयन्याति तानि पातयितुं नृप ।
गंगांभसि महाभाग पापिनामपि कामदे ३०।
सोऽप्यागतस्तत्र वने यत्रास्ति स भुजंगमः ।
विविक्ते क्षिप्य मंजूषां शलाकालोहनिर्मिताम् ३१।
अथागत्य भुजंगोऽसौ शलाकां फणयाघटत् ।
किंचिदुद्धाटितायां स मंजूषायां समाविशत् ३२।
पुनः शलाका स्वंस्थानमागताथ स कुंडली ।
तत्रैव तस्थौ निश्चेष्टो मंजूषायां विषोल्बणः ३३।
अथ प्रभाते सर्वे ते चेलुः स्थानात्ततो नृप ।
ब्राह्मणः सोऽपि मंजूषां कंबलेन समावृताम् ३४।
कृत्वा शिरसि राजेंद्र चचाल प्रति जाह्नवीम् ।
कतिभिर्वासरैः सार्थः संप्राप्तस्तीर्थगामिनाम् ३५।
इहैव कोशलायां वै पुनीतायां महीपते ।
अथ शीतातुरो विप्रः कंबलं चोदघाटयत् ३६।
मंजूषावरणं राजन्तत्रायोध्यातटे शुभे ।
सोऽपि सर्पो निराहारो लब्ध्वा मारुतभोजनम् ३७।
निश्चक्राम बहिस्तस्मादुत्क्षेप्य सुशलाकिकाम् ।
तं निःसृतं समालोक्य सर्प्प सर्प इति क्रुधा३८।
व्याहरंतो जनाः सर्वे लोष्टहस्ताः समभ्ययुः ।
यावत्पलायते सर्पस्तावदेकेन घातितः ३९।
तत्याज स तदा प्राणान्पश्यतां तीर्थगामिनाम् ।
त्यक्त्वा भुजंगदेहं स देवत्वं प्राप दुर्लभम् ४०।
दिव्यं विमानमारुह्य प्रोवाचेदं जनानि ह ।
सर्प उवाच-
भो दाक्षिणात्याः शृणुत ब्राह्मणा वचनं मम ४१।
पुरा चंडकनामाहं नापितो ब्रह्महाधमः ।
ब्रह्महत्याप्रदोषेण सर्पआसं मरुस्थले ४२।
भुक्त्वा नरकदुःखानि वर्षाणां लक्षपंचकम् ।
अतीतं सर्पयोनौ मे वर्षाणामयुतद्वयम् ४३।
तीर्थस्यास्य प्रसादेन प्राप्तं देवत्वमुत्तमम् ।
तस्मादिदं न वै त्याज्यं तीर्थं वै कोशलाभिधम् ।
सर्वार्थदं यतो नाकः प्राप्तः पापीयसा मया ४४।
नारद उवाच-
एवं स नापितः पापो योनिं प्राप्य विनिंदिताम् ।
जगाम द्यां विमानस्थस्तीर्थस्यास्य प्रसादतः ४५।
ते दाक्षिणात्या यतयो भूत्वा तत्रैव तीर्थके ।
ऊषुर्गोविंदपादाब्ज मानसा दृष्टवैभवे ४६।
माहात्म्यमस्य तीर्थस्य दृष्ट्वा स ब्राह्मणोत्तमः ।
तीर्थेऽत्रजातविश्रद्धः पित्रोरस्थीनि सोऽक्षिपत् ४७।
पतितेष्वस्थिखंडेषु पितरौ तस्य तत्क्षणात् ।
विमानवरमारूढौ दिव्यौ तत्र समागतौ ४८।
ऊचतुश्च स्वतनयं शृण्वानेषु जनेषु वै ।
वत्स जीव चिरं लोके धनधान्यसुखी भव ४९।
आवयोर्मुक्तिदानाच्च मुक्तिं यास्यसि नो मृषा ।
गंगायां पिंडदानेन यत्फलं स्यात्सुतस्य वै ।
पितॄणां या गतिश्चात्र द्वयं स्यादस्थिपाततः ५०।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे।
कालिंदीमाहात्म्ये मुकुंदोपाख्यानं नामैकादशाधिकद्विशतमोध्यायः २११।