पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २००

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← अध्यायः १९९ पद्मपुराणम्
अध्यायः २००
वेदव्यासः
अध्यायः २०१ →

श्रीभगवानुवाच-
नैतच्चित्रं सुराधीश मुनयो ज्ञानवत्तराः
मदीयां पदवीं भक्तिं गुर्वीं कुर्वंति सत्कृताम् १
एते ज्ञानोपदेष्टारस्त्रिलोकतलवासिनाम्
प्रवर्तयंत्यमी नष्टं वेदमार्गं यतः सदा २
भक्त्या भवानपि स्वर्गभोगासक्तोऽपि मां यतः
प्रपन्नोऽसि किमाश्चर्यं यतस्तव गुरुर्गुरुः ३
यजस्व सुरशार्दूल मखैर्मां बहुदक्षिणैः
निष्क्रामस्त्वं समीपस्थं तूर्णं प्राप्स्यसि मत्पदम् ४
प्रतियागं प्रयच्छ त्वं रत्नप्रस्थान्यनेकशः
आख्ययास्थानमेतत्ते इंद्रप्रस्थं भविष्यति ५
विधे त्वमत्र रचय प्रयागं तीर्थपुंगवम्
सरस्वतीं समानीय गंगां च जनपाविनीम् ६
काशीं च शिवकांचीं च त्वमत्र स्थापयेश्वर
गोकर्णं च समं गौर्या निवासं कुरु सर्वदा ७
भो भो ब्रह्मसुता यूयं ज्ञानविज्ञानकोविदाः
निजयोगबलेनात्र कुरुध्वं तीर्थसप्तकम् ८
निगमोद्बोधकं तीर्थं त्वं गुरो प्रतिपादय
विनाध्ययनमप्यत्र स्नानाद्बोधोस्तु छंदसाम् ९
स्मृतिश्च जायतां पूर्वजन्मनस्तु परात्मनोः
अहमारोपयाम्यत्र द्वारकां सुमनोहराम् १०
समुद्रेणसमं यत्र गोमत्यासंगमोऽभवत्
कोशलां च करोम्यत्र मध्वरण्यं च वासव ११
ययोरवतरिष्यामि वपुर्भ्यां रामकृष्णयोः
बदर्याश्रममप्यत्र नरनारायणास्पदम् १२
विदधामि सदा यत्र वसामि सुरनायक
हरिद्वारं पुष्करं च तीर्थद्वयमनुत्तमम् १३
तदपि स्थापयाम्यत्र तवैव हितकाम्यया
नैमिषेयानि तीर्थानि यानि कालंजरे गिरौ १४
सरस्वतीतटे यानि स्थापयाम्यहमत्र वै
नारद उवाच-
शिवे शिवतरं वाक्यं हरेः श्रुत्वा कृतं च तत् १५
दृष्ट्वा तदुक्तमपि ते चक्रुर्ब्रह्मशिवादयः
सर्वतीर्थमयेऽमुष्मिन्स्थाने स त्रिदशाधिपः १६
स्वर्णयूपैर्बहुमखैरीजे भूयो रमापतिम्
रत्नप्रस्थानि विप्रेभ्यः कृष्णस्य पुरतो ददौ १७
नारायणः समस्तात्मा ममायमिति तुष्यतु
इंद्रप्रस्थमिदं तीर्थं ततःप्रभृति कथ्यते १८
सर्वतीर्थमये यत्र मृतो भूयो न जायते
इंद्रदत्तानि ते लब्ध्वा रत्नप्रस्थानि भूसुराः १९
तस्मै ददुरवितथामाशिषं तत्र संसदि
इंद्राय तव गोविंदो दानेनानेन तुष्यतु २०
तावकी भक्तिरप्यस्मिन्भूयादव्यभिचारिणी
कर्मभूमाविह विभो पुरा यज्ञशतं कृतम् २१
तेन पुण्येन लब्धं ते सकामेन सुरास्पदम्
अधुना पूजितो विष्णुर्निःकामेन त्वया मखैः २२
स्वपदाद्विच्युतो भूमौ भविष्यति द्विजाग्रणीः
तत्रापि निजधर्मेण विष्णुमाराधयन्भवान् २३
स्मरिष्यति निजं कर्म कृतमत्र मखादिकम्
तत्स्मृतेगृर्हमुत्सृज्य भवान्तीर्थानि पर्यटन् २४
जनकेन समं शक्र तीर्थेऽस्मिन्संप्रपत्स्यते
चतुर्थाश्रममादाय त्यक्षत्यत्र कलेवरम् २५
ततो विमानमारुह्य गणा नीतं रविप्रभम्
भवान्दिव्यांगवान्भूत्वा प्राप्स्यति श्रीहरेः पदम् २६
नारद उवाच-
एवमाकर्ण्य विप्राणामाशिषं त्रिदशाधिपः
भविष्यपिशुनां चोक्तिं शिवे मुदमगात्तराम् २७
समाप्य विधिवद्यज्ञान्नात्र सौवर्णयष्टिकान्
माधवप्रमुखान्देवान्पूजितान्स व्यसर्जयत् २८
ऋत्विजो ब्रह्मणः पुत्रानभ्यर्च्य च धनादिभिः
बृहस्पतिं पुरस्कृत्य ययौ शक्रस्त्रिविष्टपम् २९
तत्र राज्यं विधायेंद्रो हरिभक्तियुतः शिवे
अवातरद्भुवि क्षीणपुण्ये हास्तिनपत्तने ३०
शिवशर्मा द्विजः कश्चिद्वेदवेदांगपारगः
तस्य भार्या गुणवती नाम्नान्वर्थवती भृशम् ३१
तस्यां जातः सुवेलायामिंद्रः श्रीपतिसेवकः
ज्योतिर्विदः समाहूता लग्नं दृष्ट्वा बभाषिरे ३२
ज्योतिर्विद ऊचुः-
शिवशर्मन्नयं बालः तव भावी हरिप्रियः
उद्धरिष्यति ते वंशं ब्रूमः सत्यं न वै मृषा ३३
त्रयोदशाब्ददेहो यः सांगं वेदचतुष्टयम्
अधीतज्ञानसंपन्नो विवाहं तु करिष्यति ३४
पुनरुत्पाद्य सत्पुत्रं वानप्रस्थो भविष्यति
तीर्थेषु पर्यटन्धीरः संन्यासं धारयिष्यति ३५
इंद्रस्य खांडववने यमुनास्ति सरिद्वरा
तत्तीरेस्ति हरिप्रस्थं मरणं तत्र यास्यति ३६
नारद उवाच-
गणकोदितमाकर्ण्य शिवशर्मा शिवं वचः
चकार विष्णुशर्माणं नाम्ना निजसुतं तदा ३७
तान्विसृज्य च वित्तेन चिंतयामास बुद्धिमान्
धन्योऽहं यस्य मे पुत्रो विष्णुभक्तो भविष्यति ३८
साधयिष्यति पुत्रोऽयमाश्रमांश्चतुरो मम
मरिष्यति च सत्तीर्थे मदन्यः कोऽस्ति भाग्यवान् ३९
एवं विचिंत्य मनसा जातकर्माद्यकारयत्
शिशोर्द्विजातिप्रवरैः शिवशर्मा शुभेऽहनि ४०
अथ सप्तस्वतीतेषु वर्षेषु द्विजसत्तमः
सुतोपनयनं चक्रे चैत्रमास्यष्टमेऽब्दके ४१
आद्वादशाब्दादध्याप्य वेदानन्वगतः सुतम्
शिवशर्मा शिवे राजन्युयोज सह भार्यया ४२
विष्णुशर्मा स्वभार्यायां पुत्रमुत्पाद्य बुद्धिमान्
चकार तीर्थयात्रायां मनो निर्विषयं स्वकम् ४३
अभ्येत्य पितरं प्राह नत्वा तच्चरणद्वयम्
विष्णुशर्मा महाप्राज्ञो मुनिवाक्यमनुस्मरन् ४४
विष्णुशर्मोवाच -
अनुजानीहि मां तात विष्णुमाराधयाम्यहम्
तृतीयाश्रममासाद्य सत्संगतिविधायकम् ४५
दारागारधनापत्यसुहृदः क्षणभंगुराः
बुद्बुदा इव तोयेषु सुधीस्तेषु न सज्जते ४६
स्वाध्यायेन च संतत्या मया तीर्णमृणद्वयम्
तीर्थेषु कामरहितो यष्टुमिच्छामि केशवम् ४७
सन्यस्तगुणरागोऽहं पश्चात्तीर्थोत्तमे क्वचित्
स्थातुमिच्छाम्यहं तावद्यावत्प्रारब्धमस्ति मे ४८
इत्युक्तस्तेन पुत्रेण स पिता बुद्धिमत्तरः
स्मृत्वा ज्योतिर्विदां वाक्यमाह संसारनिस्पृहः ४९
शिवशर्मोवाच-
चतुर्थाश्रमकालोऽयं ममापि निरहंकृतेः
विषयान्विषवत्त्यक्त्वा सेविष्ये केशवामृतम् 6.200.५०
गृहे मम मनः पुत्र रमते नाद्य वार्द्धके
आनीतस्य वनाद्बद्ध्वा गजस्येव नृपालये ५१
तवानुजं सुशर्मायं कुटुंबं धारयिष्यति
आवाभ्यामुज्झितं विद्याश्रीकुलाभ्यां यथा नरम् ५२
प्रव्रजंतं तु मामेव तव माता पतिव्रता
अनुयास्यति मार्तंडं यथा कांतिर्दिनात्यये ५३
तस्मादावामविज्ञातो तया तात तवांबया
गच्छावश्चिंतयंतौ श्रीहरेः पादसरोरुहम् ५४
नारद उवाच-
इत्यालोच्य मुमुक्षू तौ निशीथे तमसावृते
सुप्तं कुटुंबमुत्सृज्य गृहान्निर्याय जग्मतुः ५५
सहैव पर्यटंतौ तौ सुतीर्थे निरहंकृती
शिवेऽत्रशिवदे तीर्थे शक्रप्रस्थे समीयतुः ५६
अत्रागतः स्वविहितान्पूर्वजन्मनि यूपकान्
विष्णुशर्मा शमालोक्य सस्मार हरिसंगमम् ५७
ऊचे च पितरं धीमान्शक्र आसमहं पुरा
मयात्र विहिता यज्ञा माधवप्रीणनेच्छया ५८
अत्रैव मे प्रसन्नोऽभूत्केशवो भक्तवत्सलः
संतोषिता मणिप्रस्थैः द्विजाः सप्तर्षयश्च मे ५९
तैरेव वैष्णवी भक्तिर्दत्ता मोक्षोभवेऽत्र च
विष्ण्वादिभिः समस्तैस्तु तीर्थान्यत्र कृतानि वै ६०
सर्वतीर्थमयं तीर्थमिन्द्रप्रस्थमिदं कृतम्
अत्रैव मे मृतिश्चोक्ता तैरेव मुनिपुंगवैः ६१
ततो हरिपदप्राप्तिरेतत्सर्वं स्मराम्यहम्
इमे गंगासरस्वत्यौ निजलोकाद्विरिंचिना ६२
समानीते ययोर्योगे प्रयागोऽयं निगद्यते
एषा काशी शिवपुरी प्रयागात्पूर्वदेशके ६३
द्विपंचाशद्धनुर्मात्रे मृतो यस्यां न जायते
काश्याः पश्चिमके भागे धनुषामेकविंशतिः ६४
शिवकांची शिवेनैषा स्थापिता मृतमुक्तिदा
गोकर्णाख्यमिदं क्षेत्रं शंभोः परमवल्लभम् ६५
धनुर्द्वयप्रमाणे तु भूमिभागे व्यवस्थितम्
इयं द्वारवती पुण्या तीर्थराजस्य पश्चिमे ६६
धनुषां सप्ततिर्यत्र मृतो भावी चतुर्भुजः
अतोऽसौ पूर्वदिग्भागे कोशलाजनवत्सला ६७
अष्टादशधनुर्मात्रे दृश्यते पुण्यदर्शना
एतन्मधुवनं तात स्थापितं विष्णुना स्वयम् ६८
कोशला पश्चिमे भागे दशचापप्रमाणतः
अत उत्तरतस्तात नरनारायणास्पदम् ६९
एतदेकादशधनुर्भूमिदेशे च तिष्ठति
एतत्तीर्थं हरिद्वारमतो दक्षिणतः स्थितम् ७०
त्रिंशद्धनुर्महीदेशे दृश्यते देवदुर्ल्लभम्
एतत्तु पुष्करं नाम तीर्थं तीर्थशिरोमणिम् ७१
द्वादशेष्वासमात्रे भूभागे भो तात तिष्ठति
प्रयागादिक गव्यूतिः सप्तर्षीणां महात्मनाम् ७२
पूर्वस्यां दिशि तीर्थानि सप्ततत्तीर्थसप्तकम्
तीर्थसप्तककाशोस्तु संति तीर्थान्यनेकशः ७३
पदेपदे येषु मृतो जायते स चतुर्भुजः
प्रयागादेकगव्यूतिमात्रे पश्चिमभूतले ७४
निगमोद्बोधकं नाम तीर्थं गुरुकृतं पुरा
तीर्थसप्तकनिगमोद्बोधयोरंतरं महत् ७५
इंद्रप्रस्थमिदं क्षेत्रं स्थापितं दैवतैः पुरा
पूर्वपश्चिमयोस्तात एकयोजनविस्तृतम् ७६
कालिंद्यावदक्षिणेवयावद्योजनानांवचतुष्टयम्
इंद्रप्रस्थस्यमर्यादा कथितैषा महर्षिभिः ७७
देवत्रय्यां च योह्यत्र त्यजत्यंगं भवत्यजः
नारद उवाच-
पुत्रस्यैतद्वचः श्रुत्वा शिवशर्मा शिवे द्विजः ७८
प्रत्याहलसंदिहानस्तं स्वपुत्रं सत्यवादिनम्
शिवशर्मोवाच-
कथमेतद्विजानीयां त्वं पुरासीः सुरेश्वरः ७९
त्वमत्र कृतवान्यज्ञान्मणिभिस्तोषिता द्विजाः
त्वदुक्तज्ञानवान्पुत्र यथाऽहं स्यां तथा कुरु ८०
इंद्रप्रस्थस्य मर्यादा कुत एषा त्वया श्रुता
यतः प्रभृति ते जाता मतिस्त्वं नात्यजो गृहम् ८१
मत्त एव त्वयाधीतं सांगं वेदचतुष्टयम्
पूर्वजन्मकृते कृत्ये ज्ञानमासीत्कुतस्तव ८२
विष्णुशर्मोवाच -
ऋषिभिर्मे वरो दत्तः पूर्वजन्मस्मृतिप्रदः
तेभ्य एवास्य तीर्थस्य श्रुता ह्येषा स्मृतिर्मया ८३
निगमोद्बोधके तीर्थे स्नानमत्र पितः कुरु
दुर्लभं प्राप्स्यसे ज्ञानं पूर्वजन्मस्मृतिप्रदम् ८४
ममापि पूर्वजनुषः प्रवृत्तिं त्वं स्मरिष्यसि
एतत्तीर्थजलस्पर्शात्तात सत्यं वदामि ते ८५
नारद उवाच-
शिवशर्मणि विप्रेंद्रे श्रुत्वैतत्स्नातुमुद्यते
निगमोद्बोधके तीर्थे स्मृतये पूर्वजन्मनः ८६
सिंहेनानुगतः कश्चिद्भिल्लो धावन्समागतः
अतित्रासपरीतांगो निःश्वसन्श्रमविह्वलः ८७
हिंसात्मको वर्त्मघाती वणिजां लुंठकः सदा
कृष्णांगः पिंगकेशश्च खर्वो मार्जारलोचनः ८८
कुंतहस्तो भीममूर्ति देही पाप्मेव भूयते
सतः पश्चात्कियद्दूरे सिंहमालोक्य तावुभौ ८९
पितृपुत्रौ समीपस्थे द्रुममारुह्य तस्थतुः
वदंताविति हा कृष्ण मोचयातोऽपमृत्युतः ९०
स किरातस्तु राजेंद्र गृहीतुं वेगवत्तरम्
वीक्ष्य सिंहं द्रुमं भीतः समारोढुं प्रचक्रमे ९१
आरोहणं प्रकुर्वंतं सिंहो जग्राह वेगवान्
पादयोरथ भूपृष्ठे पातयित्वा रुरोह तम् ९२
अधःस्थितो किरातोऽपि कुंतेनोदरमस्य वै
ददार रुधिरौघाक्त निसृतांत्रकदंबकम् ९३
जातव्यथो विधायाथ नादं परमदारुणम्
सिंहः पिपेष भिल्लस्य शिरः सद्यो ममार च ९४
तयोः पंचत्वमापन्ने भूतसंघेऽत्र भूपते
विमानद्वयमुत्तीर्णं गणाभ्यां सह सत्पदात् ९५
नवीनघनवर्णाभ्यां स्फटिकोपलनिर्मितम्
चारुकुंडलकर्णाभ्यां मणिप्रकरमंडितम् ९६
शंखचक्रगदापद्महस्ताभ्यां चारुचित्रभृत्
दधद्भ्यां पीतवस्त्राणि हेमभित्तिविभूषितम् ९७
प्रफुल्लांबुजनेत्राभ्यां पद्मरागगवाक्षभृत्
धीरनिह्रादमंजीरपद्भ्यां रणितकिंकिणी ९८
प्रकोष्ठेवलयश्रेणीं बिभ्रद्भ्यां चारुवेदिकम्
मुक्ताहारैर्मनोहारि वक्षोभ्यां सवितानवत् ९९
कुटिलालकवक्त्राभ्यां मुन्नतध्वजिराजितम्
भ्रूयुगाक्षिप्तपंचेषु धनुर्भ्यामुच्चतोरणम् 6.200.१००
नासालज्जितकीराभ्यां निर्व्यूहशतशोभितम्
नवविद्रुमसच्छायतलाभ्यां दर्पणामलम् १०१
दिव्यांगौ भिल्लपंचास्यौ त्यक्त्वांगं प्राकृतं स्थितौ
पुरैव प्राणनिर्याणे तीर्थस्यास्य प्रभावतः १०२
तयोः समीपमानीय विमानौ तौ हरेर्गणौ
ऊचतुस्तावथारूपवेषाकृतिधरौ ततः १०३
भो किरात नरश्रेष्ठ भो पंचास्य मृगाधिप
आवां जानीतमायातौ वैकुंठात् श्रीहरेर्गणौ १०४
नेष्यामस्तत्पदं सत्यं युवां तत्र न चोर्मयः
स्वंस्वं विमानमारुह्य गम्यतामाशु मा चिरम् १०५
स्वंस्वं विमानमारूढौ तौ किरातमृगाधिपौ
ऊचतुर्विस्मयाविष्टौ लक्ष्मीपतिगणौ प्रति १०६
भोभो त्रिदशशार्दूलौ श्रूयतां वाक्यमावयोः
युवयोर्दर्शनाज्जातं ज्ञानं तौ पारमार्थिकम् १०७
अत्र जन्मनि नावाभ्यां कृतं सुकृतमल्पकम्
स्मृतिर्नो जायते पूर्वकर्मणां वां प्रसादतः १०८
मांसाहारौ प्राणिहिंसारतौ क्रूरांतरेंद्रियौ
पापाचारकुले जातौ दर्शनेन भयप्रदौ १०९
आवामेतादृशे लोके ह्यभूतामिति पापिनौ
केन पुण्येन युवयोर्जातं दर्शनमावयोः ११०
सारूप्यं च कुतः पुण्याद्यायावः श्रीहरेः पदम्
गणावूचतुः
तीर्थेत्र मरणान्नूनं सुराचार्यकृते पुरा १११
युवयोर्दर्शनं जातं नौ च सारूप्यमद्भुतम्
लक्ष्मीपतिपदपाप्तिर्भविष्यति च वां चिरम् ११२
तावत्पापानि गर्जंति ब्रह्महत्यादिकानि वै
जातं न दर्शनं यावत्तीर्थस्यास्य बृहस्पतेः ११३
यथा तमांसि नश्यंति भास्करस्योदयादिह
तथा पापानि निगमोद्बोधकस्याविलोकनात् ११४
इंद्रप्रस्थाख्यमेतद्वै क्षेत्रमिंद्रस्य पावनम्
तेनात्र पूजितो विष्णुः क्रतुभिर्बहुदक्षिणैः ११५
तुष्टेन विष्णुना तस्मै वरो दत्तो निशम्यताम्
भो शक्र तावके क्षेत्रे सर्वतीर्थमये जनाः ११६
तनुं त्यक्षंति ये ते वै मत्तुल्या हिंसका अपि ११७
नारद उवाच-
इत्युक्त्वा तौ गणःश्रेष्ठौ नीत्वा तौ जग्मतुः पदम्
हरेर्यत्रगतोभूयो विश्वाब्धौ न निमज्जति ११८
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदी
माहात्म्ये भिल्लसिंहवैकुंठारोहणं नाम द्विशततमोऽध्यायः २००