पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १९९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १९८ पद्मपुराणम्
अध्यायः १९९
वेदव्यासः
अध्यायः २०० →

ऋषय ऊचुः-
कालिंद्याश्चैव माहात्म्यं वद सूत सविस्तरम् ।
यस्मै प्रकाशितं येन तदाख्यानसमन्वितम् १।
सूत उवाच-
एकदा पांडुतनयः शुश्रूषुः सौभरेः शुभम् ।
ज्ञानं तत्स्थानमभ्येत्य नत्वा तमिति पृष्टवान् २।
युधिष्ठिर उवाच-
ब्रह्मन्मार्तंडतनया तीर तीर्थेषु यच्छुभम् ।
तीर्थं तद्वद वैकुंठ जन्मभूमिपरात्परम् ३।
सौभरिरुवाच-
एकदा तु मुनिश्रेष्ठौ दिवि नारदपर्वतौ ।
गच्छंतौ खांडवं पश्यन्पश्यतः सुमनोहरम् ४।
तत्रावतीर्णो नभस उपविष्टौ तटे शुभे ।
कालिंद्याः क्षणविश्रांतौ स्नातुं विविशतुर्जले ५।
शिबिरौशीनरो राजा मृगयांतौ चरन्वने ।
दृष्ट्वा तान्निर्गमापेक्षी निषसाद सरित्तटे ६।
तौ मुनी विधिवत्स्नात्वा परिधायांबराणि च ।
वंदितौ शिरसा राज्ञा तेनोपाविशतां तटे ७।
तत्रालोक्य सुवर्णस्य शिबिर्यूपान्सहस्रशः ।
नारदं गर्वरहितः पर्वतं च जगाद सः ८।
शिबिरुवाच-
कथ्यतां मुनिशार्दूलौ कस्येमा यागयष्टयः ।
केनात्र विहितो यज्ञः सुरेणाथ नरेण वा ९।
मुक्त्वा काश्यादितीर्थानि यज्ञैरीज्येऽत्र कः पुमान् ।
को विशेषोऽत्र तीर्थेभ्यस्तेभ्यो विज्ञानसन्निधिः १०।
नारद उवाच-
पुरा हिरण्यकशिपुर्जित्वा शक्रादिदेवताः ।
त्रैलोक्यराज्यमासाद्य सो खर्वं गर्वमाददे ११।
प्रह्लादस्तस्य तनयो नारायणपरायणः ।
तस्मै सो द्रुह्यताभीक्ष्णं पापात्मा नष्टमंगलः १२।
तद्द्रोहाद्विष्णुना सद्यो नृसिंहतनुधारिणा ।
हत्वा दैत्यपतिं स्वर्गराज्यं स्वःपतयेऽर्पितम् १३।
स्वपदं प्राप्य देवेशो बृहस्पतिमथावदत् ।
मूर्ध्नाभिवंद्य तत्पादौ नारायणगुणान्स्मरन् १४।
इंद्र उवाच-
गुरो नृसिंहरूपेण हरिणा लोकधारिणा ।
दत्तं मे देवताराज्यं यष्टुमिच्छामि तं मखैः १५।
स्थानं पवित्रं कथय ब्राह्मणांश्चैव मे गुरो ।
न विधेयो विलंबोऽत्र त्वया नो हितकारिणा १६।
बृहस्पतिरुवाच-
अस्ति ते खांडववनं रम्यं परमपावनम् ।
केतक्यशोकबकुलमधुमत्त मधुव्रतम् १७।
तत्रास्ति यमुना पुण्या धन्या त्रैलोक्यपावनी ।
ददाति स्मरणे स्वर्गं मरणे ब्रह्मणः पदम् १८।
तत्तीरे यज देवेश केशवं बहुभिर्मखैः ।
यदीच्छसि स्वकीयानां कल्याणं त्वं निरंतरम् १९।
नारद उवाच-
गुरोर्वचनमाकर्ण्य तूर्णमारुह्य वाहनम् ।
शिवप्रदमिमं शक्रः स्वकीयवनमागमत् २०।
गुरुणा सह देवैश्च यज्ञोपकरणैस्तथा ।
अत्रागत्य विलोक्यैतद्वनं लेभे मुदं पराम् २१।
गुरुणा नोदितः शक्रो सप्तर्षीन्ब्रह्मणः सुतान् ।
वसिष्ठादीन्द्विजान्वृत्वा यजति स्म जगत्पतिम् २२।
तस्य प्रसन्नो भगवान्ब्रह्मेशाभ्यां सहागतः ।
क्रतौ शतक्रतोर्यत्र महानभवदुत्सवः २३।
देवत्रयीं सतां वीक्ष्य शक्रो वक्रमतिस्तदा ।
उत्थायासनतस्तूर्णं ववंदे मुनिभिः सह २४।
वाहनेभ्योऽवरुह्याशु तदंतेषूपविश्य ते ।
आसनेषु सुहैमेषु बभुर्वेदीष्विवाग्नयः २५।
सितरक्तांगयोः शंभु ब्रह्मणोर्हरिराबभौ ।
नीलच्छविः पीतवासास्तडित्वानिव शृंगयोः २६।
शक्रः प्रक्षाल्य तत्पादान्मूर्ध्ना तज्जलमादधे ।
अब्रवीच्च मुदायुक्तो वचनं मधुराक्षरम् २७।
इंद्र उवाच-।
विहितोऽयं मया देव यज्ञोऽद्य सफलोऽभवत् २८।
यद्ययं दर्शनं प्राप्ता दुर्लक्ष्या अपि योगिभिः।
एकेनैव त्वया विष्णो कृता मूर्तिस्त्रयीमयी २९।
गुणैस्तथापि नानात्वं स्फटिकस्येव ते मृषा ।
यथा दारुषु गूढोऽग्निर्घर्षणेन विना विभो ३०।
नाविर्भवति भूतानां हृत्सु भक्त्या तथा भवान् ।
एकस्य त्वयि भक्तिः स्यात्सर्वभूतोपकारिणी ३१।
बभूवुः सुखिनो देवाः प्रह्लादकृतया तया।
वयं विषयिणो देव त्वन्मायावृतचेतसः ३२।
न जानीमः स्वरूपं ते यथावत्पादसेवकाः ।
भो ब्रह्मन्भो महादेव युवामपि जगद्गुरू ३३।
एतस्यैव गुरुत्वेन यतो नातः पृथक्युवाम् ।
यत्किंचिदुच्यते वाचा मनसा च विचिंत्यते ।
अस्यैव माया तत्सर्वे तद्द्वयीदूरवर्त्तिनः ३४।
प्रपंचजातं यदिदं विलोक्य तेन सत्यमित्येव विचिंतयेन्न सः ।
भजंति विष्णोश्चरणं तरंति ते यदंबुमूर्ध्ना हर धार्यते त्वया ३५।
विधेस्य भूयादनुजन्मपादयो रतिर्मदीया कमलाभयोर्भृशम् ।
यदीक्षण क्षोभितया तया जगत्समस्तमेतन्महदादि जायते ३६।
भवादृशो नास्ति कृपापरोपरो विपक्षपक्षे वितनोषि यत्सुखम् ।
स्वलोकशोकापनये कृपालुता यदुच्यते ते नृहरे तदज्ञता ३७।
नारद उवाच-
इत्यभिष्टूय देवेशं केशवं प्रणतोऽग्रतः ।
तस्थौ तद्वाक्यशुश्रुषा दत्तचित्तो महीयते ३८।
एवमाकर्ण्य मुनय स्तुतिं तस्य रमापतेः ।
कृतामिंद्रेण सदसि साधुसाध्विति चाब्रुवन् ३९।
शतमन्यो वर्षशतं ये कुर्वंति महत्तपः ।
न तेषामीदृशी भक्तिर्यादृशी तव माधवे ४०।
न योगः सुलभोष्टांगः ख्यातिर्येनाधिगम्यते ।
समत्वेन च तत्त्यागस्तद्भक्तिः शरणं नृणाम् ४१।
स्वधर्मार्जितवित्तैर्यद्यथा विधि विधीयते ।
कर्मतस्यार्पणं विष्णौ भक्तिरेषा शिवप्रदाः ४२।
न निंदेद्देवतामन्यां विष्णुबुद्ध्यां च यो नमेत् ।
न त्यजेद्वेदवाक्यानि स भक्तोऽस्य हरेः प्रियः ४३।
ये शृण्वंति हरेर्गुणानहरहः कुर्वंति ये कीर्तनं ये चास्य स्मरणं यदोश्च भजनं येऽमुं यजंते तथा ४४।
ये दास्येन नमंति चैनममुना कुर्वंति ये मित्रतां ये च स्वं च निवेदयंति नहि ते वांच्छंति मुक्त्यादिकम् ४५।
इंद्र भक्त्या त्वमप्येनमाराधय जगद्गुरुम् ।
न कामये किमप्यास्मत्कृतकृत्यो भविष्यति ४६।
नारद उवाच-
मुनिभिरिति शिक्षिते समस्तसेव्यां त्रिभुवनपारपदप्रदां निशम्य ।
हरिरनिशगुरुः कृतां स्वभक्तिं मधुरमुवाच वचो हरिं समाजे ४७।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे।
कालिंदीमाहात्म्ये इंद्रयागविधिनोनाम एकोनद्विशततमोऽध्यायः१९९।