पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २००
← अध्यायः १९९ | पद्मपुराणम् अध्यायः २०० वेदव्यासः |
अध्यायः २०१ → |
श्रीभगवानुवाच-
नैतच्चित्रं सुराधीश मुनयो ज्ञानवत्तराः ।
मदीयां पदवीं भक्तिं गुर्वीं कुर्वंति सत्कृताम् १।
एते ज्ञानोपदेष्टारस्त्रिलोकतलवासिनाम् ।
प्रवर्तयंत्यमी नष्टं वेदमार्गं यतः सदा २।
भक्त्या भवानपि स्वर्गभोगासक्तोऽपि मां यतः ।
प्रपन्नोऽसि किमाश्चर्यं यतस्तव गुरुर्गुरुः ३।
यजस्व सुरशार्दूल मखैर्मां बहुदक्षिणैः ।
निष्क्रामस्त्वं समीपस्थं तूर्णं प्राप्स्यसि मत्पदम् ४।
प्रतियागं प्रयच्छ त्वं रत्नप्रस्थान्यनेकशः ।
आख्ययास्थानमेतत्ते इंद्रप्रस्थं भविष्यति ५।
विधे त्वमत्र रचय प्रयागं तीर्थपुंगवम् ।
सरस्वतीं समानीय गंगां च जनपाविनीम् ६।
काशीं च शिवकांचीं च त्वमत्र स्थापयेश्वर ।
गोकर्णं च समं गौर्या निवासं कुरु सर्वदा ७।
भो भो ब्रह्मसुता यूयं ज्ञानविज्ञानकोविदाः ।
निजयोगबलेनात्र कुरुध्वं तीर्थसप्तकम् ८।
निगमोद्बोधकं तीर्थं त्वं गुरो प्रतिपादय ।
विनाध्ययनमप्यत्र स्नानाद्बोधोस्तु छंदसाम् ९।
स्मृतिश्च जायतां पूर्वजन्मनस्तु परात्मनोः ।
अहमारोपयाम्यत्र द्वारकां सुमनोहराम् १०।
समुद्रेणसमं यत्र गोमत्यासंगमोऽभवत् ।
कोशलां च करोम्यत्र मध्वरण्यं च वासव ११।
ययोरवतरिष्यामि वपुर्भ्यां रामकृष्णयोः ।
बदर्याश्रममप्यत्र नरनारायणास्पदम् १२।
विदधामि सदा यत्र वसामि सुरनायक ।
हरिद्वारं पुष्करं च तीर्थद्वयमनुत्तमम् १३।
तदपि स्थापयाम्यत्र तवैव हितकाम्यया ।
नैमिषेयानि तीर्थानि यानि कालंजरे गिरौ १४।
सरस्वतीतटे यानि स्थापयाम्यहमत्र वै ।
नारद उवाच-
शिवे शिवतरं वाक्यं हरेः श्रुत्वा कृतं च तत् १५।
दृष्ट्वा तदुक्तमपि ते चक्रुर्ब्रह्मशिवादयः ।
सर्वतीर्थमयेऽमुष्मिन्स्थाने स त्रिदशाधिपः १६।
स्वर्णयूपैर्बहुमखैरीजे भूयो रमापतिम् ।
रत्नप्रस्थानि विप्रेभ्यः कृष्णस्य पुरतो ददौ १७।
नारायणः समस्तात्मा ममायमिति तुष्यतु ।
इंद्रप्रस्थमिदं तीर्थं ततःप्रभृति कथ्यते १८।
सर्वतीर्थमये यत्र मृतो भूयो न जायते ।
इंद्रदत्तानि ते लब्ध्वा रत्नप्रस्थानि भूसुराः १९।
तस्मै ददुरवितथामाशिषं तत्र संसदि ।
इंद्राय तव गोविंदो दानेनानेन तुष्यतु २०।
तावकी भक्तिरप्यस्मिन्भूयादव्यभिचारिणी ।
कर्मभूमाविह विभो पुरा यज्ञशतं कृतम् २१।
तेन पुण्येन लब्धं ते सकामेन सुरास्पदम् ।
अधुना पूजितो विष्णुर्निःकामेन त्वया मखैः २२।
स्वपदाद्विच्युतो भूमौ भविष्यति द्विजाग्रणीः ।
तत्रापि निजधर्मेण विष्णुमाराधयन्भवान् २३।
स्मरिष्यति निजं कर्म कृतमत्र मखादिकम् ।
तत्स्मृतेगृर्हमुत्सृज्य भवान्तीर्थानि पर्यटन् २४।
जनकेन समं शक्र तीर्थेऽस्मिन्संप्रपत्स्यते ।
चतुर्थाश्रममादाय त्यक्षत्यत्र कलेवरम् २५।
ततो विमानमारुह्य गणा नीतं रविप्रभम् ।
भवान्दिव्यांगवान्भूत्वा प्राप्स्यति श्रीहरेः पदम् २६।
नारद उवाच-
एवमाकर्ण्य विप्राणामाशिषं त्रिदशाधिपः ।
भविष्यपिशुनां चोक्तिं शिवे मुदमगात्तराम् २७।
समाप्य विधिवद्यज्ञान्नात्र सौवर्णयष्टिकान् ।
माधवप्रमुखान्देवान्पूजितान्स व्यसर्जयत् २८।
ऋत्विजो ब्रह्मणः पुत्रानभ्यर्च्य च धनादिभिः ।
बृहस्पतिं पुरस्कृत्य ययौ शक्रस्त्रिविष्टपम् २९।
तत्र राज्यं विधायेंद्रो हरिभक्तियुतः शिवे ।
अवातरद्भुवि क्षीणपुण्ये हास्तिनपत्तने ३०।
शिवशर्मा द्विजः कश्चिद्वेदवेदांगपारगः ।
तस्य भार्या गुणवती नाम्नान्वर्थवती भृशम् ३१।
तस्यां जातः सुवेलायामिंद्रः श्रीपतिसेवकः ।
ज्योतिर्विदः समाहूता लग्नं दृष्ट्वा बभाषिरे ३२।
ज्योतिर्विद ऊचुः-
शिवशर्मन्नयं बालः तव भावी हरिप्रियः ।
उद्धरिष्यति ते वंशं ब्रूमः सत्यं न वै मृषा ३३।
त्रयोदशाब्ददेहो यः सांगं वेदचतुष्टयम् ।
अधीतज्ञानसंपन्नो विवाहं तु करिष्यति ३४।
पुनरुत्पाद्य सत्पुत्रं वानप्रस्थो भविष्यति ।
तीर्थेषु पर्यटन्धीरः संन्यासं धारयिष्यति ३५।
इंद्रस्य खांडववने यमुनास्ति सरिद्वरा ।
तत्तीरेस्ति हरिप्रस्थं मरणं तत्र यास्यति ३६।
नारद उवाच-
गणकोदितमाकर्ण्य शिवशर्मा शिवं वचः ।
चकार विष्णुशर्माणं नाम्ना निजसुतं तदा ३७।
तान्विसृज्य च वित्तेन चिंतयामास बुद्धिमान् ।
धन्योऽहं यस्य मे पुत्रो विष्णुभक्तो भविष्यति ३८।
साधयिष्यति पुत्रोऽयमाश्रमांश्चतुरो मम ।
मरिष्यति च सत्तीर्थे मदन्यः कोऽस्ति भाग्यवान् ३९।
एवं विचिंत्य मनसा जातकर्माद्यकारयत् ।
शिशोर्द्विजातिप्रवरैः शिवशर्मा शुभेऽहनि ४०।
अथ सप्तस्वतीतेषु वर्षेषु द्विजसत्तमः ।
सुतोपनयनं चक्रे चैत्रमास्यष्टमेऽब्दके ४१।
आद्वादशाब्दादध्याप्य वेदानन्वगतः सुतम् ।
शिवशर्मा शिवे राजन्युयोज सह भार्यया ४२।
विष्णुशर्मा स्वभार्यायां पुत्रमुत्पाद्य बुद्धिमान् ।
चकार तीर्थयात्रायां मनो निर्विषयं स्वकम् ४३।
अभ्येत्य पितरं प्राह नत्वा तच्चरणद्वयम् ।
विष्णुशर्मा महाप्राज्ञो मुनिवाक्यमनुस्मरन् ४४।
विष्णुशर्मोवाच -
अनुजानीहि मां तात विष्णुमाराधयाम्यहम् ।
तृतीयाश्रममासाद्य सत्संगतिविधायकम् ४५।
दारागारधनापत्यसुहृदः क्षणभंगुराः ।
बुद्बुदा इव तोयेषु सुधीस्तेषु न सज्जते ४६।
स्वाध्यायेन च संतत्या मया तीर्णमृणद्वयम् ।
तीर्थेषु कामरहितो यष्टुमिच्छामि केशवम् ४७।
सन्यस्तगुणरागोऽहं पश्चात्तीर्थोत्तमे क्वचित् ।
स्थातुमिच्छाम्यहं तावद्यावत्प्रारब्धमस्ति मे ४८।
इत्युक्तस्तेन पुत्रेण स पिता बुद्धिमत्तरः ।
स्मृत्वा ज्योतिर्विदां वाक्यमाह संसारनिस्पृहः ४९।
शिवशर्मोवाच-
चतुर्थाश्रमकालोऽयं ममापि निरहंकृतेः ।
विषयान्विषवत्त्यक्त्वा सेविष्ये केशवामृतम् 6.200.५०।
गृहे मम मनः पुत्र रमते नाद्य वार्द्धके ।
आनीतस्य वनाद्बद्ध्वा गजस्येव नृपालये ५१।
तवानुजं सुशर्मायं कुटुंबं धारयिष्यति ।
आवाभ्यामुज्झितं विद्याश्रीकुलाभ्यां यथा नरम् ५२।
प्रव्रजंतं तु मामेव तव माता पतिव्रता ।
अनुयास्यति मार्तंडं यथा कांतिर्दिनात्यये ५३।
तस्मादावामविज्ञातो तया तात तवांबया ।
गच्छावश्चिंतयंतौ श्रीहरेः पादसरोरुहम् ५४।
नारद उवाच-
इत्यालोच्य मुमुक्षू तौ निशीथे तमसावृते ।
सुप्तं कुटुंबमुत्सृज्य गृहान्निर्याय जग्मतुः ५५।
सहैव पर्यटंतौ तौ सुतीर्थे निरहंकृती ।
शिवेऽत्रशिवदे तीर्थे शक्रप्रस्थे समीयतुः ५६।
अत्रागतः स्वविहितान्पूर्वजन्मनि यूपकान् ।
विष्णुशर्मा शमालोक्य सस्मार हरिसंगमम् ५७।
ऊचे च पितरं धीमान्शक्र आसमहं पुरा ।
मयात्र विहिता यज्ञा माधवप्रीणनेच्छया ५८।
अत्रैव मे प्रसन्नोऽभूत्केशवो भक्तवत्सलः ।
संतोषिता मणिप्रस्थैः द्विजाः सप्तर्षयश्च मे ५९।
तैरेव वैष्णवी भक्तिर्दत्ता मोक्षोभवेऽत्र च ।
विष्ण्वादिभिः समस्तैस्तु तीर्थान्यत्र कृतानि वै ६०।
सर्वतीर्थमयं तीर्थमिन्द्रप्रस्थमिदं कृतम् ।
अत्रैव मे मृतिश्चोक्ता तैरेव मुनिपुंगवैः ६१।
ततो हरिपदप्राप्तिरेतत्सर्वं स्मराम्यहम् ।
इमे गंगासरस्वत्यौ निजलोकाद्विरिंचिना ६२।
समानीते ययोर्योगे प्रयागोऽयं निगद्यते ।
एषा काशी शिवपुरी प्रयागात्पूर्वदेशके ६३।
द्विपंचाशद्धनुर्मात्रे मृतो यस्यां न जायते ।
काश्याः पश्चिमके भागे धनुषामेकविंशतिः ६४।
शिवकांची शिवेनैषा स्थापिता मृतमुक्तिदा ।
गोकर्णाख्यमिदं क्षेत्रं शंभोः परमवल्लभम् ६५।
धनुर्द्वयप्रमाणे तु भूमिभागे व्यवस्थितम् ।
इयं द्वारवती पुण्या तीर्थराजस्य पश्चिमे ६६।
धनुषां सप्ततिर्यत्र मृतो भावी चतुर्भुजः ।
अतोऽसौ पूर्वदिग्भागे कोशलाजनवत्सला ६७।
अष्टादशधनुर्मात्रे दृश्यते पुण्यदर्शना ।
एतन्मधुवनं तात स्थापितं विष्णुना स्वयम् ६८।
कोशला पश्चिमे भागे दशचापप्रमाणतः ।
अत उत्तरतस्तात नरनारायणास्पदम् ६९।
एतदेकादशधनुर्भूमिदेशे च तिष्ठति ।
एतत्तीर्थं हरिद्वारमतो दक्षिणतः स्थितम् ७०।
त्रिंशद्धनुर्महीदेशे दृश्यते देवदुर्ल्लभम् ।
एतत्तु पुष्करं नाम तीर्थं तीर्थशिरोमणिम् ७१।
द्वादशेष्वासमात्रे भूभागे भो तात तिष्ठति ।
प्रयागादिक गव्यूतिः सप्तर्षीणां महात्मनाम् ७२।
पूर्वस्यां दिशि तीर्थानि सप्ततत्तीर्थसप्तकम् ।
तीर्थसप्तककाशोस्तु संति तीर्थान्यनेकशः ७३।
पदेपदे येषु मृतो जायते स चतुर्भुजः ।
प्रयागादेकगव्यूतिमात्रे पश्चिमभूतले ७४।
निगमोद्बोधकं नाम तीर्थं गुरुकृतं पुरा ।
तीर्थसप्तकनिगमोद्बोधयोरंतरं महत् ७५।
इंद्रप्रस्थमिदं क्षेत्रं स्थापितं दैवतैः पुरा ।
पूर्वपश्चिमयोस्तात एकयोजनविस्तृतम् ७६।
कालिंद्यावदक्षिणेवयावद्योजनानांवचतुष्टयम् ।
इंद्रप्रस्थस्यमर्यादा कथितैषा महर्षिभिः ७७।
देवत्रय्यां च योह्यत्र त्यजत्यंगं भवत्यजः ।
नारद उवाच-
पुत्रस्यैतद्वचः श्रुत्वा शिवशर्मा शिवे द्विजः ७८।
प्रत्याहलसंदिहानस्तं स्वपुत्रं सत्यवादिनम् ।
शिवशर्मोवाच-
कथमेतद्विजानीयां त्वं पुरासीः सुरेश्वरः ७९।
त्वमत्र कृतवान्यज्ञान्मणिभिस्तोषिता द्विजाः ।
त्वदुक्तज्ञानवान्पुत्र यथाऽहं स्यां तथा कुरु ८०।
इंद्रप्रस्थस्य मर्यादा कुत एषा त्वया श्रुता ।
यतः प्रभृति ते जाता मतिस्त्वं नात्यजो गृहम् ८१।
मत्त एव त्वयाधीतं सांगं वेदचतुष्टयम् ।
पूर्वजन्मकृते कृत्ये ज्ञानमासीत्कुतस्तव ८२।
विष्णुशर्मोवाच -
ऋषिभिर्मे वरो दत्तः पूर्वजन्मस्मृतिप्रदः ।
तेभ्य एवास्य तीर्थस्य श्रुता ह्येषा स्मृतिर्मया ८३।
निगमोद्बोधके तीर्थे स्नानमत्र पितः कुरु ।
दुर्लभं प्राप्स्यसे ज्ञानं पूर्वजन्मस्मृतिप्रदम् ८४।
ममापि पूर्वजनुषः प्रवृत्तिं त्वं स्मरिष्यसि ।
एतत्तीर्थजलस्पर्शात्तात सत्यं वदामि ते ८५।
नारद उवाच-
शिवशर्मणि विप्रेंद्रे श्रुत्वैतत्स्नातुमुद्यते ।
निगमोद्बोधके तीर्थे स्मृतये पूर्वजन्मनः ८६।
सिंहेनानुगतः कश्चिद्भिल्लो धावन्समागतः ।
अतित्रासपरीतांगो निःश्वसन्श्रमविह्वलः ८७।
हिंसात्मको वर्त्मघाती वणिजां लुंठकः सदा ।
कृष्णांगः पिंगकेशश्च खर्वो मार्जारलोचनः ८८।
कुंतहस्तो भीममूर्ति देही पाप्मेव भूयते ।
सतः पश्चात्कियद्दूरे सिंहमालोक्य तावुभौ ८९।
पितृपुत्रौ समीपस्थे द्रुममारुह्य तस्थतुः ।
वदंताविति हा कृष्ण मोचयातोऽपमृत्युतः ९०।
स किरातस्तु राजेंद्र गृहीतुं वेगवत्तरम् ।
वीक्ष्य सिंहं द्रुमं भीतः समारोढुं प्रचक्रमे ९१।
आरोहणं प्रकुर्वंतं सिंहो जग्राह वेगवान् ।
पादयोरथ भूपृष्ठे पातयित्वा रुरोह तम् ९२।
अधःस्थितो किरातोऽपि कुंतेनोदरमस्य वै ।
ददार रुधिरौघाक्त निसृतांत्रकदंबकम् ९३।
जातव्यथो विधायाथ नादं परमदारुणम् ।
सिंहः पिपेष भिल्लस्य शिरः सद्यो ममार च ९४।
तयोः पंचत्वमापन्ने भूतसंघेऽत्र भूपते ।
विमानद्वयमुत्तीर्णं गणाभ्यां सह सत्पदात् ९५।
नवीनघनवर्णाभ्यां स्फटिकोपलनिर्मितम् ।
चारुकुंडलकर्णाभ्यां मणिप्रकरमंडितम् ९६।
शंखचक्रगदापद्महस्ताभ्यां चारुचित्रभृत् ।
दधद्भ्यां पीतवस्त्राणि हेमभित्तिविभूषितम् ९७।
प्रफुल्लांबुजनेत्राभ्यां पद्मरागगवाक्षभृत् ।
धीरनिह्रादमंजीरपद्भ्यां रणितकिंकिणी ९८।
प्रकोष्ठेवलयश्रेणीं बिभ्रद्भ्यां चारुवेदिकम् ।
मुक्ताहारैर्मनोहारि वक्षोभ्यां सवितानवत् ९९।
कुटिलालकवक्त्राभ्यां मुन्नतध्वजिराजितम् ।
भ्रूयुगाक्षिप्तपंचेषु धनुर्भ्यामुच्चतोरणम् 6.200.१००।
नासालज्जितकीराभ्यां निर्व्यूहशतशोभितम् ।
नवविद्रुमसच्छायतलाभ्यां दर्पणामलम् १०१।
दिव्यांगौ भिल्लपंचास्यौ त्यक्त्वांगं प्राकृतं स्थितौ ।
पुरैव प्राणनिर्याणे तीर्थस्यास्य प्रभावतः १०२।
तयोः समीपमानीय विमानौ तौ हरेर्गणौ ।
ऊचतुस्तावथारूपवेषाकृतिधरौ ततः १०३।
भो किरात नरश्रेष्ठ भो पंचास्य मृगाधिप ।
आवां जानीतमायातौ वैकुंठात् श्रीहरेर्गणौ १०४।
नेष्यामस्तत्पदं सत्यं युवां तत्र न चोर्मयः ।
स्वंस्वं विमानमारुह्य गम्यतामाशु मा चिरम् १०५।
स्वंस्वं विमानमारूढौ तौ किरातमृगाधिपौ ।
ऊचतुर्विस्मयाविष्टौ लक्ष्मीपतिगणौ प्रति १०६।
भोभो त्रिदशशार्दूलौ श्रूयतां वाक्यमावयोः ।
युवयोर्दर्शनाज्जातं ज्ञानं तौ पारमार्थिकम् १०७।
अत्र जन्मनि नावाभ्यां कृतं सुकृतमल्पकम् ।
स्मृतिर्नो जायते पूर्वकर्मणां वां प्रसादतः १०८।
मांसाहारौ प्राणिहिंसारतौ क्रूरांतरेंद्रियौ ।
पापाचारकुले जातौ दर्शनेन भयप्रदौ १०९।
आवामेतादृशे लोके ह्यभूतामिति पापिनौ ।
केन पुण्येन युवयोर्जातं दर्शनमावयोः ११०।
सारूप्यं च कुतः पुण्याद्यायावः श्रीहरेः पदम् ।
गणावूचतुः ।
तीर्थेत्र मरणान्नूनं सुराचार्यकृते पुरा १११।
युवयोर्दर्शनं जातं नौ च सारूप्यमद्भुतम् ।
लक्ष्मीपतिपदपाप्तिर्भविष्यति च वां चिरम् ११२।
तावत्पापानि गर्जंति ब्रह्महत्यादिकानि वै ।
जातं न दर्शनं यावत्तीर्थस्यास्य बृहस्पतेः ११३।
यथा तमांसि नश्यंति भास्करस्योदयादिह ।
तथा पापानि निगमोद्बोधकस्याविलोकनात् ११४।
इंद्रप्रस्थाख्यमेतद्वै क्षेत्रमिंद्रस्य पावनम् ।
तेनात्र पूजितो विष्णुः क्रतुभिर्बहुदक्षिणैः ११५।
तुष्टेन विष्णुना तस्मै वरो दत्तो निशम्यताम् ।
भो शक्र तावके क्षेत्रे सर्वतीर्थमये जनाः ११६।
तनुं त्यक्षंति ये ते वै मत्तुल्या हिंसका अपि ११७।
नारद उवाच-
इत्युक्त्वा तौ गणःश्रेष्ठौ नीत्वा तौ जग्मतुः पदम् ।
हरेर्यत्रगतोभूयो विश्वाब्धौ न निमज्जति ११८।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदी।
माहात्म्ये भिल्लसिंहवैकुंठारोहणं नाम द्विशततमोऽध्यायः २०० ।
।