पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २०१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः २०० पद्मपुराणम्
अध्यायः २०१
वेदव्यासः
अध्यायः २०२ →

नारद उचाव-
अथावरुह्य तौ वृक्षात्पितृपुत्रौ सुविस्मितौ ।
दृष्ट्वा हरिपदप्राप्तिमभूतां पापिनोरपि १।
शिवशर्माथ विप्रेंद्रः श्रुत्वा तीर्थस्तुतिं तदा ।
गणोक्तां विष्णुशर्माणमुवाच सुतमात्मनः २।
शिवशर्मोवाच-
यत्पदं न सुलभं द्विजन्मनां साधितेन तपसापि लीलया ।
प्रापतुः शबरदंष्ट्रिणौ च तत्तीर्थराजमहिमा विलोक्य ताम् ३।
जन्मनः प्रभृति तावदामृतेः पापिनावपि च यत्प्रभावतः ।
जग्मतुः सुत हरेः सरूपतामस्य तीर्थवृषभस्य का स्तुतिः ४।
शुद्धसत्वमपि रूपमैश्वरं क्वाम्बुजन्मजनिदेवदुर्ल्लभम् ।
तामसौ क्व मृगनाथभिल्लकौ किं तु तीर्थमिदमद्भुतक्रियम् ५।
तात भो पतति वेधसः पदात्जंतुरंतमधिगम्य कर्मणाम् ।
अत्र देवगुरुनिर्मिते मृतिं प्राप्य माधवपदान्न विच्युतिः ६।
नारद उवाच-
एवं प्रत्यक्षमालोक्य माहात्म्यं स द्विजोत्तमः ।
तीर्थस्यास्य गुरो राजन्स्नातुं तत्र प्रचक्रमे ७।
मुख दंत पदानां सः कृत्वा शुद्धिं च चेतसः ।
पंचकच्छः शिखाबंधोपग्रही माधवं स्मरन् ८।
अश्वक्रांतेति श्लोकेन पाठेन तटमृत्तिकाम् ।
स्पृशंस्तयैव विदधत्तिलकं जलमाविशत् ९।
तत्र प्रवाहाभिमुखो निमज्जन्पुनरुत्थितः ।
पुनर्मग्नो हरिं स्मृत्वा गंगां च जनपावनीम् १०।
अयोध्याद्यापुरीः सप्त पुनरुत्थाय संस्मरन् ।
पुनर्ममज्ज सलिले गोविंदार्पितमानसः ११।
कृत्वा यथाविधिस्नानं धौतवस्त्रे च पर्यधात् ।
बहिरागत्य तिलकं चक्रे च द्विजसत्तमः १२।
करपादशिखासूत्रैर्दर्भांश्च विदधद्वशी ।
संध्यां चकार विधिवत्तर्पणं त्रिविधं तथा १३।
सूर्याय कुसुमैर्दत्त्वा स जलैरर्घमादृतः ।
शिरोबद्धांजलिपुटो नमश्चक्रे द्विजोत्तमः १४।
आवाहनादि नैवेद्यपर्यंतमथ विप्रराट् ।
जगत्पूज्यपदाब्जस्य विष्णोः पूजामचीकरत् १५।
कृतक्रियः सूपविष्टः तादृशं सुतमात्मनः ।
जगाद संस्मरन्पूर्वजन्मकर्मणि कृत्स्नशः १६।
शिवशर्मोवाच-
विष्णुशर्मन्न ते मिथ्या वाक्यं तात यतः स्मृतिः ।
अत्र स्नानेन मे जाता पूर्वेषां जन्मकर्मणाम् १७।
आकर्णय माहाभाग कथयामि तवाग्रतः ।
पुराहमन्वये जातो विशां धनिकधर्मिणाम् १८।
पिता मे शरभो नाम्ना कान्यकुब्जे पुरेऽवसन् ।
वाणिज्येनार्जयन्वित्तं भूरिधर्मधनाश्रितः १९।
व्यतीतस्तु महान्कालस्तस्य नाभवदात्मजः ।
जरागृहीतदेहस्य तच्चिंतातुरचेतसः २०।
अचिंतयदहोरात्रमिति वैश्यवरस्तदा ।
विना सुतेन मे व्यर्थं धनं भूर्यपि संचितम् २१।
ऋते सुतमृणीलोके पितॄणां धनवानपि ।
सजलोऽपि विना वर्षं चातकानां यथा घनः २२।
पुमान्जयति संतत्या विश्वं धर्मधुरीणया ।
शक्त्या त्रिविधया राजा विपक्षमिव दुर्जयम् २३।
प्रीणाति संततिः शुद्धा सुमनः पितृमानवान् ।
मित्रप्रत्यर्थ्यु यदासीनान्सूनृता वाग्यथेरिता २४।
उदयस्थेन पुत्रेण वर्द्धते स्वयशः पितुः ।
निर्मलं द्विजराजेन नीरं तीरनिधेरिव २५।
तस्माद्यतेत्सुतोत्पत्यै शरीरेण धनेन वा ।
तमृते हि द्वयं व्यर्थं जनानां तडिदायुषाम् २६।
एवं चिंतयतस्तस्य गृहे मुनिवरस्तदा ।
देवलोऽतीद्रियज्ञानो वरं दातुं समाययौ २७।
आगतं तं समालोक्य प्रत्युत्थायासनात्पिता ।
दत्त्वार्घमथ पाद्यं च ववंदे शिरसा मुनिम् २८।
उपवेश्यासने दत्ते स्वहस्तेन पिता मम ।
पप्रच्छ च मुनिश्रेष्ठं देवलं देवदर्शनम् २९।
स्वागतं तु मुनिश्रेष्ठ शमस्ति भवतां कुले ।
तपः स्वाध्यायनियमा निष्प्रत्यूहा भवंति च ३०।
काले चातिथयः कच्चिदायांति भवदाश्रमे ।
कच्चिदाश्रमवृक्षा वः फलंति मनसेप्सितम् ३१।
व्याघ्रादयो न कुर्वंति कच्चिद्वैरं मृगादिभिः ।
त्वदीयाश्रममभ्येत्य भ्रातरो भ्रातृभिर्यथा ३२।
तवाटनं भुवि मुदे गृहिणामन्यथा कथम् ।
तेषां गृहाधिमग्नानां दर्शनं क्व भवादृशः ३३।
हरिपादरजोबुद्धेः कामं कामो न कुत्रचित् ।
मुने तव तथाप्याशु हेतुमागमने वद ३४।
शिवशर्मोवाच-
इत्युक्तस्तेन स मुनिर्देवलो देवपूजितः ।
अब्रवीत्तन्मनोभावं ज्ञातुकामो विशांपतिम् ३५।
देवल उवाच-
वैश्यवर्य त्वया भूरि धनं धर्मेण संचितम् ।
करोषि येन धर्मज्ञ नित्यनैमित्तिकी क्रियाः ३६।
आदरं राजसदसि धनेन लभते नरः ।
सुभटः शत्रुसंग्रामे विक्रमेण यथा जयम् ३७।
गृहस्थस्तु धनं प्राप्य परां पुष्टिं व्रजत्यलम् ।
शरत्परिणतं सस्यमनड्वानिव विश्पते ३८।
धनिनां न विमुंचंति बंधवोऽन्ये च ये जनाः ।
मधुमत्सुमनो युक्तं पादपं मधुपा इव ३९।
धनाभावेन गृहिणां कृशत्वमुपजायते ।
सर्वतो ग्रीष्मसमये नभसां सरसामिव ४०।
तद्धनं वर्त्तते भूरि गृहे तव विशांपते ।
कुतः कृशत्वमंगानां गोप्यं चेन्न वदाद्य मे ४१।
वैश्य उवाच-
हितोपदेशविरता भवंतः पितरो यथा ।
गोपनीयं भवद्भ्यः किं मादृशैः पुत्रतां गतैः ४२।
त्वत्प्रसादान्मुनिश्रेष्ठ सर्वतोऽस्ति शिवं मम ।
वार्द्धकेपि सुताभावो दुःखमेकमिदं मम ४३।
तस्मात्कृशत्वमंगानां विद्धि मे मुनिपुंगव ।
बिभेम्यहं पितृऋणाद्यतोऽधः पतनं नृणाम् ४४।
तमुपायं कुरु मुने येन स्यां सुतवानहम् ।
किंचित्कर्तुमशक्यं न भूतलेऽत्र भवादृशैः ४५।
शिवशर्मोवाच-
इत्याकर्ण्य वचस्तस्य वैश्यवर्यस्य देवलः ।
मनः क्षणं स्थिरं कृत्वा दध्यौ मीलितलोचनः ४६।
संततेर्मत्पितुर्दृष्ट्वा प्रतिबंधस्य कारणम् ।
देवलोतींद्रियज्ञानी बभाषे कारयन्स्मृतिम् ४७।
देवल उवाच-
एकदा तु पुरा वैश्य तवेयं धर्मचारिणी ।
यं चकार स्वचित्ते तं कथयामि मनोरथम् ४८।
गुर्विणी यद्यहं गौरि भवेऽहं शंभुवल्लभे ।
तदा त्वां तोषयिष्यामि षड्रसान्वितभोजनैः ४९।
धूपदीपकमालाभिस्तांबूलैर्नृत्यबाधकैः ।
तंत्रीमुखोद्गतैर्गीतैर्नानाविधविलेपनैः ५०।
एवं प्रतिश्रुत्य पुरः सखीनां दयिता तव ।
प्रतीक्षमाणा तं कालं तस्थौ तद्भक्तिसंयुता ५१।
तस्मिन्नेवाभवद्गर्भो मासेऽस्या योषितस्तव ।
ऊचुरेनां ततः सख्यः सर्वाः सस्नेहचेतसः ५२।
यस्त्वया वांछितो गर्भो गौर्या संप्रतिपादितः ।
अतः प्रतिश्रुतं देव्याः पूजनं सुभगे कुरु ५३।
नोचेद्विकाराद्भवति विघ्नं तु तदनुष्ठितात् ।
तोषिता रोषिताश्चात्र देव्यो हि वरशापदाः ५४।
सखीभिरिति ते भार्या कथितेयं मुदान्विता ।
त्वामुवाच महाभागा विनयेन पतिव्रता ५५।
नाथ पूजयितुं गौरीं वांछाम्यखिलकामदाम् ।
यत्प्रसादादहं याता वांछितार्थवती प्रभो ५६।
वैश्यवर्य त्वमेवैतच्छ्रुत्वास्या वचनं शुभम् ।
अमन्यत गर्भवतीमेनां निजगृहेश्वरीम् ५७।
परमोत्सवया मोदमानः सद्यो भवानपि ।
भृत्यानाज्ञापयामास पूजावस्तूपपादने ५८।
तैरानाय्य समस्तानि वस्तूनि भवता ततः ।
अस्यै दत्तानि मध्वन्न द्राक्षा गंधादिकान्यपि ५९।
ततो निजसखीः सर्वा आहूयेदमिदं जगौ ।
सख्यः समस्ताः सामग्री समानीतांबिकार्चने ६०।
नीत्वा पूजोपकरणं यूयं यातांबिकालयम् ।
संतोषयत तां देवीं पूजया विधिदृष्टया ६१।
गुर्विणीति कुलेऽस्माकं न निर्याति गृहाद्बहिः ।
अतोऽहं नागमिष्यामि यूयं यात तदर्चने ६२।
इत्याज्ञप्तास्तु ताः सख्यो नीत्वोपकरणं ययुः ।
अंबिकालयमुन्मत्तभ्रमद्भ्रमरकेतनम् ६३।
कोकिलाकुलसंकेलि सहकारकुलाकुलम् ।
हंससारसचक्राह्वमंडितं स्वच्छसारसम् ६४।
महादेवगुणालापि शुकसारिसमावृतम् ।
हारपूरालतासेके तत्परो मा सखीधरम् ६५।
उमापतेरुमापादन्यासपूतमहीतलम् ।
स्फटिकोपलसंबद्ध जलाधारसुरद्रुमम् ६६।
पार्वतीपतिसंनाट्य गायद्गंधर्वनादितम् ।
मन्दानिलमनाग्धूत चूतचंपककोरकम् ६७।
नृत्यन्मयूरनिर्ह्राद प्रतिनादिलतागृहम् ।
तल्लीलाचलविद्योतमानं रत्नलसत्प्रभम् ६८।
तत्र गत्वा गिरिसुतां प्रणेमुस्ताः सभर्तृकाः ।
प्रदक्षिणीकृत्य ततो भक्त्या तां च बभाषिरे ६९।
जगदंबे नमतुभ्यं शन्नो देहि शिवप्रिये ।
त्वत्पूजार्थे समानीतो बलिरेष प्रगृह्यताम् ७०।
वैश्यस्तु शरभो नाम्ना तस्यास्ति ललितांगना ।
तयाभिलषितो गर्भस्तत्प्राप्तौ तव पूजनम् ७१।
त्वत्प्रसादादभूत्तस्याः स गर्भः शंभुवल्लभे ।
त्वत्पूजनाय प्रहितो बलिरस्माभिरेषकः ७२।
तस्याः कुले गर्भवती न निरेति बहिर्गृहात् ।
अतः सा नागता देवि प्रसीदैन गृहाण वै ७३।
इत्युक्त्वा तां तदा वैश्य त्वत्स्त्रीसख्यस्तु तं बलिम् ।
समर्पयित्वा विधिवदानर्चुश्चंदनादिभिः ७४।
प्रतिवाक्यमलब्ध्वा ता गौर्या प्रत्याययुर्गृहम् ।
निजसख्यै समाचख्युर्विषण्णां तां शिवप्रियाम् ७५।
तासामाकर्ण्य वचनमिति वैश्य तवाबला ।
उन्मनाश्चिंतयामास कुतो गौरीनपि प्रिये ७६।
सा जानाति यथा भक्तिस्तत्पूजाया कृता मया ।
तादृशीनां किमज्ञातं बाह्यं चाभ्यंतरं नृणाम् ७७।
न गताहं यतस्तत्र तज्जानात्यपि कारणम् ।
मया दत्तेन बलिना कुतः सा न तुतोष वै ७८।
नाहमन्यत्प्रजानामि तदतोषे हि कारणम् ।
ऋते मदगतेस्तत्र नूनं रम्ये तदालये ७९।
यदतीतं न तच्छक्यमन्यथाकर्तुमद्य वै ।
गर्भान्मुक्ता गमिष्यामि तत्पूजायै तदालये ८०।
नमस्तस्यै महादेव भार्यायै सा करोतु शम् ।
इत्युक्त्वा दधती गर्भं तस्थौ वैश्य तवांगना ८१।
शिवशर्मोवाच-
विष्णुशर्मन्निदं पूर्ववृत्तमाज्ञाय मत्पिता ।
पप्रच्छ मुनिशार्दूलं देवलं ज्ञानवत्तरम् ८२।
वैश्य उवाच-
मुने यथा प्रतिश्रुता पूजा ते स्नुषया तया ।
तथैवाकारि पार्वत्या विषादे कारणं वद ८३।
यतोऽसौ न गता तत्र तज्जानाति शिवास्वतः ।
सखीभ्यश्चोक्तमस्यास्तद्विषण्णा सा कुतोभवत् ८४।
देवल उवाच-।
वैश्यवर्य शृणुष्वेदं कारणं कथयामि ते ।
यतस्तस्या विषादोऽभूत्पार्वत्या गर्भनाशकः ८५।
निवृत्तासु सखीष्वस्याः संपूज्य स्कंदमातरम् ।
विजया पार्वतीं प्राह कौतूहलसमन्विता ८६।
विजयोवाच-
गिरिजे श्रद्धया तुभ्यं दत्तोमूभिरयं बलि ।
मानुषीभिः कुतः प्रीता नाभवस्त्वं वरानने ८७।
धूपदीपकनैवेद्यैः पूजिता तोषहेतवे ।
प्रत्युताकारणं देवि त्वं विषादं कुतो गता ८८।
देवल उवाच-
इत्याकर्ण्य वचः सख्या देवी देववरार्चिता ।
अब्रवीद्विजयां वैश्य विषादे कारणं सखीम् ८९।
पार्वत्युवाच-
विजये सखि जानामि वैश्यभार्या गृहाद्बहिः ।
निर्गंतुमक्षमां गर्भधारणास्वविवेकतः ९०।
समागतास्तु तत्सख्यो मत्पूजायै तदीरिताः ।
मादृशो न च गृह्णंति परहस्तकृतं बलिम् ९१।
तत्पतिश्चेत्समायास्यदभविष्यत्तदा शिवम् ।
तस्यास्तु मदवज्ञातो गर्भपातो भविष्यति ९२।
यद्व्रतं पूजनं यच्च कर्तुं न क्षमतेंगना ।
तत्कारयति नाथेन न भंगः स्यात्तयोःसखि ९३।
अथवा विप्रमुख्येन पृष्ट्वा पतिमनन्यधीः ।
यतः स्वयमनागत्य तत्कृतं मे तयार्चनम् ९४।
न कारितं च भर्त्रातो भविता दोहदोऽफलः ।
यद्युभौ तौ समागत्य दंपती श्रद्धया पुनः ९५।
मां पूजयिष्यतः पुत्रो भविष्यति तदा तयोः ।
देवल उवाच-
सशापो न त्वया वैश्य न चैव तव भार्यया ९६।
श्रुतः सखीभिरस्या नो प्रसादश्च तयार्पितः ।
तयोरज्ञानतो वैश्य युवयोर्नाभवत्सुतः ९७।
अजानतो प्रतिविधिं परत्रात्र सुखप्रदम् ।
एतत्ते कथितं वैश्य संतानाभावकारणम् ९८।
वसिष्ठेन यथापूर्वं दिलीपस्य महीपतेः ।
तच्छ्रुत्वा स यथा राजा नंदिनीं समतोषयत् ९९।
सस्त्रीकस्त्वं तथा वैश्य गौरिं तोषय कामदाम् ।
सा यथाराधिता राज्ञे दिलीपाय ददौ सुतम् १००।
आराधय तथा गौरीं त्वं सा तुभ्यं च दास्यति ।
वैश्य उवाच-
दिलीप इति भूपः कः का च सा नंदिनी मुने १०१।
यामाराध्यसुतंलेभेसभूयोभूपसत्तमः ।
महेशादिसुरान्मुक्त्वा त्रिवर्णफलदायिनः १०२।
आराधिता कुतः सैव सुतार्थं तेन भूभुजा ।
एतत्सर्वं समाख्याहि मुने यत्पृष्टवानहम् ।
श्रुत्वा ततो गिरिसुतां सेविष्ये सह भार्यया १०३।
शिवशर्मोवाच-
गदितमिति निशम्य विष्णुशर्मन्विनययुतेन विशा मदीय पित्रा ।
मुनिरिति गदितुं दिलीपवृत्तं जगति पवित्रतरं विचक्रमे सः १०४।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदी।
माहात्म्ये एकाधिकद्विशततमोऽध्यायः २०१।