पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०९७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०९६ पद्मपुराणम्
अध्यायः ०९७
वेदव्यासः
अध्यायः ०९८ →

नारद उवाच-
ये देवैर्निर्जिताः पूर्वं दैत्याः पातालसंस्थिताः १
ते हि भूमंडलं जाता निर्भयास्तमुपासितुम्
कदाचिच्छिन्नशिरसं राहुं दृष्ट्वा स दैत्यराट्
पप्रच्छ भार्गवं विप्रं केनेदं विहितं प्रभो २
भार्गवस्तस्य शिरसश्छेदं राहोः शशंस ह
अमृतार्थं समुद्रस्य मथनं देवकारितम् ३
रत्नापहरणं चैव दैत्यानां च पराभवम्
तच्छ्रुत्वा क्रोधरक्ताक्षः स्वपितुर्मथनं तदा ४
स दूतं प्रेषयामास घस्मरं शक्रसंनिधौ
दूतस्त्रिविष्टपं गत्वा सुधर्मां प्राप्य सत्वरम् ५
गर्वादखर्वमौलिस्तु देवेंद्रं वाक्यमब्रवीत्
दूत उवाच-
जलंधरोऽब्धितनयः सर्वदैत्यजनेश्वरः ६
दूतोऽहं प्रेषितस्तेन स यदाह शृणुष्व तत्
कस्मात्त्वया मम पिता मथितः सागरोऽद्रिणा ७
नीतानि सर्वरत्नानि तानि शीघ्रं प्रयच्छ मे
इति दूतवचः श्रुत्वा विस्मितस्त्रिदशाधिपः
उवाच घस्मरं घोरं भयरोषसमन्वितः ८
ईश्वर उवाच-
शृणु दूत मया पूर्वं मथितः सागरो यथा
अद्रयो मद्भयाद्भीताः स्वकुक्षिस्थास्तथा कृताः ९
अन्येऽपि मद्द्विषस्तेन रक्षिता दितिजास्तथा
तस्मात्तद्रत्नजातं तु मयाप्यपहृतं किल १०
शंखोऽप्येवं पुरा देवानद्विषत्सागरात्मजः
ममानुजेन निहतः प्रविष्टः सागरोदरम् ११
तद्गच्छ कथयस्वास्यसर्वं मथनकारणम् १२
नारद उवाच-
इत्थं विसर्जितो दूतस्तदेंद्रेणागमद्गृहम्
तदिंद्रवचनं दैत्यराजायाकथयत्तदा १३
तन्निशम्य तदा दैत्यो रोषात्प्रस्फुरिताधरः
उद्योगमकरोत्तूर्णं सर्वदेवजिगीषया १४
तदोद्योगे सुरेंद्रस्य दिग्भ्यः पातालतस्तथा
दितिजाः प्रत्यपद्यंत शतशः कोटिशस्तथा १५
अथ शुंभनिशुंभाद्यैर्बलाधिपतिकोटिभिः
गत्वा त्रिविष्टपं दैत्यो युद्धायाधिष्ठितोऽभवत् १६
निर्ययुस्त्वमरावत्या देवा युद्धाय दंशिताः
पुरमावृत्य तिष्ठंति दृष्ट्वा दैत्यबलं महत् १७
ततः समभवद्युद्धं देवदानवसेनयोः
मुशलैः परिघैर्बाणैर्गदापरशुशक्तिभिः १८
तेऽन्योन्यं समधावेतां जघ्नतुश्च परस्परम्
क्षणेनाभवतां सेने रुधिरौघ परिप्लुते १९
पतितैः पात्यमानैश्च गजाश्वरथपत्तिभिः
व्यराजत रणे भूमिः संध्याभ्रपटलैरिव २०
तत्र युद्धे हतान्दैत्यान्भार्गवस्तूदतिष्ठयत्
विद्ययाऽमृतजीविन्या मंत्रितैस्तोयबिंदुभिः २१
देवास्तत्र तथा युद्धे जीवयेदंगिरस्सुतः
दिव्यौषधीः समानीय द्रोणदेश्याः पुनः पुनः २२
दृष्ट्वा देवांस्तथा युद्धे पुनरेव समुत्थितान्
जलंधरः क्रोधवशो भार्गवं वाक्यमब्रवीत् २३
जलंधर उवाच-
मया देवा हता युद्धे उत्तिष्ठंति कथं पुनः
तव संजीवनीविद्या नैवान्यत्रेति विश्रुतम् २४
भृगुरुवाच-
दिव्यौषधीः समानीय द्रोणाद्रेरंगिराः सुरान्
जीवयत्येष वै शीघ्रं द्रोणाद्रिं समपाहर २५
नारद उवाच-
इत्युक्तः स तु दैत्येंद्रो नीत्वा द्रोणाचलं तदा
प्राक्षिपत्सागरे तूर्णं पुनरागान्महाहवम् २६
अथ देवान्हतान्दृष्ट्वा द्रोणाद्रिमगमद्गुरुः
तावत्तत्र गिरींद्रं तं न ददर्श सुरार्चितः २७
ज्ञात्वा दैत्यहृतं द्रोणं विषण्णो भयविह्वलः
आगत्य दूराद्व्याजह्रे श्वासाकुलितविग्रहः २८
पलायध्वं पलायध्वं नायं जेतुं हि शक्यते
रुद्रांशसंभवो ह्येष स्मरध्वं शक्रचेष्टितम् २९
श्रुत्वा तद्वचनं देवा भयविह्वलितास्तदा
दैत्यैस्तैर्वध्यमानास्ते पलायंत दिशो दश ३०
देवान्विदारितान्दृष्ट्वा दैत्यः सागरनंदनः
शंखभेरीजयरवैः प्रविवेशामरावतीम् ३१
प्रविष्टे नगरं दैत्ये देवाःशक्रपुरोगमाः
सुवर्णाद्रिगुहां प्राप्य न्यवसन्दैत्यतापिताः ३२
ततश्च सर्वेष्वसुराधिकारेष्विंद्रादिकानां विनिवेशयत्तदा
शुंभादिकान्दैत्यवरान्पृथक्पृथक्स्वयं सुवर्णाद्रिगुहामगात्पुनः ३३
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये अमरावतीविजयोनाम सप्तनवतितमोऽध्यायः ९७