पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २३१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः २३० पद्मपुराणम्
अध्यायः २३१
वेदव्यासः
अध्यायः २३२ →

श्रीरुद्र उवाच-
यत्कौर्म्यवैभवं विष्णोः सर्वलोकनमस्कृतम् ।
तद्वक्ष्यामि प्रिये सम्यक्शृणुष्वेकाग्रचेतसा १।
अत्रिपुत्रो महातेजा दुर्वासा इति विश्रुतः ।
प्रचण्डः सर्वलोकानां क्षोभकारी महातपाः २।
स ययौ हिमवत्पृष्ठं ब्रह्मर्षिस्तपसो निधिः ।
ममांशभूतो ब्रह्मर्षिः सर्वेषां भयदस्सदा ३।
उषितस्तत्र वर्षं तु किन्नरीभिः स पूजितः ।
महेंद्रं द्रष्टुकामोऽसौ स्वर्लोकं प्रययौ मुनिः ४।
तस्मिन्काले महातेजा गजारूढं महेश्वरम् ।
ददर्श सर्वदेवैस्तं पूज्यमानं शचीपतिम् ५।
तच्च दृष्ट्वा स हृष्टात्मा दुर्वासा सुमहातपाः ।
पारिजातस्रजं तस्मै प्रददौ विनयान्वितः ६।
आदाय देवताधीशस्तां स्रजं गजमूर्द्धनि ।
विन्यस्य तत्र देवेशः प्रययौ नंदनं प्रति ७।
करेणादाय तां मालां मदोद्रिक्तस्ततो गजः ।
पीडयित्वाथ चिक्षेप संस्थितां धरणीतले ८।
ततः क्रुद्धो महातेजा दुर्वासा रक्तलोचनः ।
प्रशप्तवान्महेंद्रं तं संतप्तक्रोधवह्निना ९।
दुर्वासा उवाच-
त्रैलोक्यैकश्रियायुक्तो यस्मान्मामवमन्यते ।
तस्मात्त्रैलोक्यश्रीर्नष्टा भवत्वेव न संशयः १०।
रुद्र उवाच-
इति शप्तस्ततः शक्रो जगाम स्वपुरं पुनः ।
ततः श्रीर्जगतां धात्री क्षणादंतर्दधे स्वयम् ११।
अंतर्द्धानं गता लक्ष्मीस्तदा नष्टं जगत्त्रयम् ।
यदपांगाश्रितं सर्वं जगत्स्थावरजंगमम् १२।
तस्यामंतर्द्धानवत्यां सर्वं नष्टतरं भवत् ।
ब्रह्मादि त्रिदशाः सर्वे गंधर्वा यक्ष किन्नराः १३।
दैत्याश्च दानावा नागा मनुष्या राक्षसास्तथा ।
पशवः पक्षिणः कीटाः सर्वे स्थावरजंगमाः १४।
तया लक्ष्म्या जगन्मात्रा ते सर्वे नावलोकिताः ।
दारिद्र्येनैव विहितास्ते सर्वे दुःखभागिनः १५।
क्षुत्पिपासार्दिता देवाश्चुक्रुशुर्गतचेतसः ।
न ववर्ष जलधरः सर्वे शुष्का जलाशयाः १६।
सर्वे ते पादपा शुष्काः फलपुष्पविवर्जिताः ।
तदा देवाः सगंधर्वा दैत्यदानवराक्षसाः १७।
क्षुत्पिपासार्द्दिता जग्मुः ब्रह्माणममितौजसम् ।
ऊचुस्तं देवदेवेशमब्जयोनिं पितामहम् १८।
देवा ऊचुः -
भगवन्क्षुत्पिपासाभ्यां पीडितं हि जगत्त्रयम् ।
न हुतं न वषट्कारः सर्वधर्म्मविवर्जितम् १९।
क्षुत्पिपासार्द्दिताः सर्वे देवदानवमानवाः ।
त्रातारं सर्वलोकेशं भवंतं शरणं गताः २०।
त्रातुमर्हसि देवेश क्षुत्पिपासार्दिताञ्जनान् ।
रुद्र उवाच-
इति तेषां वचः श्रुत्वा सर्वलोकपितामहः २१।
उवाच परमप्रीतस्तान्सर्वान्प्रति मानदः ।
ब्रह्मोवाच-
शृणुध्वं देवताः सर्वे दैत्यगंधर्वमानवाः २२।
महेंद्रस्यापचारेण सर्वमेतदुपस्थितम् ।
समुद्भूतमिदं घोरं जगत्संवर्त्तकं महत् २३।
दुर्वासाः सुमहात्मातु यतः क्रोधमवाप्तवान् ।
तस्मात्क्रोधेन तेनेदं नष्टं लोकत्रयं सुराः २४।
असौ रोषपरीतात्मा क्रोधेन कलुषीकृतः ।
जगत्त्रयं च श्रीनष्टं भवत्वित्याह दुर्मतिः २५।
तच्छापाज्जगतां धात्री लक्ष्मीर्न्नारायणप्रिया ।
अंतर्द्धानं गता देवी जगन्माता महेश्वरी २६।
यदपाङ्गे क्षिता लोका भवंति सुखितास्तथा ।
नालोकिता जगन्मात्रा दुःखभागिन एव हि २७।
तस्मात्सर्वे वयं गत्वा दुग्धाब्धौ स्थितमुत्तमम् ।
तत्र नारायणं देवमर्च्चयामः सनातनम् २८।
तस्मिन्प्रसन्ने देवेशे शिवमेतद्भवेज्जगत् ।
इति निश्चित्य मनसा ब्रह्मा देवगणैर्युतः २९।
भृग्वादिमुनिभिः सार्द्धं प्रययौ क्षीरसागरम् ।
क्षीराब्धावुत्तरतटे ब्रह्मरुद्रादिदेवताः ३०।
विष्णुं समर्च्चयामासुः पौरुषेण विधानतः ।
जपन्नष्टाक्षरं मंत्रं पौरुषं सूक्तमेव च ३१।
ध्यायंतोऽनन्यमनसो जुहुवुः परमेश्वरम् ।
तुष्टुवुः स्तवनैर्दिव्यैर्नमश्चक्रुर्विचित्रधा ३२।
ततः प्रसन्नो भगवान्सर्वेषां च दिवौकसाम् ।
तेषां संदर्शने तस्थौ स्तूयमानो महर्षिभिः ३३।
वैनतेयं समारुह्य सर्वदेवमयं विभुम् ।
तं दृष्ट्वा जगतामीशं शंखचक्रगदाधरम् ३४।
पीतवस्त्रं चतुर्बाहुं पुंडरीकनिभेक्षणम् ।
श्रीवत्सकौस्तुभोरस्कं वनमालाविभूषितम् ३५।
किरीटहारकेयूरनूपुरैरुपशोभितम् ।
तुष्टुवुर्जयशब्देन नमश्चक्रुर्निरंतरम् ३६।
ततः प्रोवाच भगवान्कृपया सर्वदेवताः ।
वरदोस्मि वरं देवा वृणीध्वमिति चाब्रवीत् ३७।
इति श्रुत्वा तदा सर्वे देवा ब्रह्मपुरोगमाः ।
ऊचुः प्रांजलयो देवमिदं वचनमीश्वरम् ३८।
देवा ऊचुः।
भगवन्मुनिशापेन संप्रतीदं जगत्त्रयम् ।
क्षुत्पिपासार्दितं सर्वं सदेवासुरमानुषम् ३९।
तस्माद्भवंतं शरणं याताः स्म पुरुषोत्तम ।
त्राहि सर्वमिमं लोकं नान्यः शक्तो भवेत्क्वचित् ४०।
रुद्र उवाच-
इत्युक्तो देवतैः सर्वैरच्युतः परमेश्वरः ।
विचार्य्यैतदुवाचैतान्देवान्ब्रह्मपुरोगमान् ४१।
श्रीभगवानुवाच-
अत्रिसूनोर्मुनेः शापादंतर्द्धानं गता रमा ।
कटाक्षदर्शनात्तस्या जगदैश्वर्य्यसंयुतम् ४२।
तस्माद्यूयं सुराः सर्वे शिवब्रह्मपुरोगमाः ।
उत्पाट्य मंदरं शैलं निधाय क्षीरसागरम् ४३।
मंदरं घर्घरं कृत्वा सर्प्पराजेन वेष्टितम् ।
कुरुध्वं मथनं देवा दैत्यगंधर्वदानवैः ४४।
उत्पद्यते च सा लक्ष्मीर्जगत्संरक्षणाय वै ।
तया हृष्टा महाभागा भविष्यथ न संशयः ४५।
धारयाम्यहमेवाद्रिं कूर्मरूपेण संवृतः ।
मम शक्त्या सुरान्सर्वान्प्रविश्य च बलीयसः ४६।
रुद्र उवाच-
इत्युक्ता देवताः सर्वा हरिणा कामलक्षणे ।
साधुसाध्विति देवेशमूचुर्ब्रह्मपुरोगमाः ४७।
संस्तूयमानो भगवानच्युतः सुरसत्तमैः ।
अंतर्दधे ततः श्रीमान्सर्वलोकनमस्कृतः ।
सर्वाधारः सर्वदेवः सर्वत्र समदर्शनः ४८।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे।
उमामहेश्वरसंवादे दुर्वाससःशापकथनंनाम एकत्रिंशदधिकद्विशततमोऽध्यायः २३१।