पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २३२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २३१ पद्मपुराणम्
अध्यायः २३२
वेदव्यासः
अध्यायः २३३ →

शंकर उवाच-
ततः सुरगणाः सर्वे दानवाद्या महाबलाः
उत्पाट्य मंदरं शैलं चिक्षिपुः पयसांनिधौ १
ततो नारायणः श्रीमान्भगवान्भूतभावनः
कूर्मरूपेण तं शैलं दधारामितविक्रमः २
अनादिमध्यांतवपुर्विश्वरूपः सनातनः
अधारयद्गिरिवरं संपूज्यो जगदीश्वरः ३
तथैकेन भुजेनैव ईश्वरः सर्वगोऽव्ययः
ततो देवासुराः सर्वे ममंथुः क्षीरसागरम् ४
सर्प्पराजेन संवेष्ट्य घर्घरं मंदराचलम्
मथ्यमानेऽथ दुग्धाब्धौ दैवतैः सुमहाबलैः ५
उत्पादनार्थं लक्ष्म्याश्च सर्व एव महर्षयः
उपोष्य नियमं कृत्वा जेपुः श्रीसूक्तमेव च ६
सहस्रनामपठनं चक्रुर्दिव्या द्विजोत्तमाः
एकादश्यां तु शुद्धायां मथ्यमाने महांबुधौ ७
उपोष्य ऋषयः सर्वे जप्तं श्रीमंत्रमुत्तमम्
कांक्षमाणाश्च ये जप्तुं लक्ष्मीनारायणं हरिम् ८
ध्यात्वा समर्च्चयामासुर्द्विजाग्र्या मुनिसत्तमाः
ततस्तस्मिन्मुहूर्ते तु मथ्यमाने महांबुधौ ९
समभूत्तत्र प्रथमं कालकूटं महाविषम्
महापीडं महाघोरं संवर्ताग्निसमप्रभम् १०
दृष्ट्वा प्रदुद्रुवुः सर्वे भयार्ता देवदानवाः
ततस्तान्विद्रुतान्दृष्ट्वा भयार्त्तान्सुरसत्तमान् ११
ततस्तानब्रुवं वाक्यमहं तत्र शुभेक्षणे
भोभो देवगणाः सर्वैर्न भेतव्यं विषं प्रति १२
अहमाहारयिष्यामि कालकूटं महाविषम्
इत्युक्तास्ते मया सर्वे देवा इंद्र पुरोगमाः १३
साधुसाध्विति वाक्यैर्मां तुष्टुवुः प्रणता भृशम्
तद्दृष्ट्वा मेघसंकाशं प्रादुर्भूतं महाविषम् १४
ध्यात्वा नारायणं देवं हृदये गरुडध्वजम्
उदयादित्यसंकाशं शंखचक्रगदाधरम् १५
श्रीभूमिसहितं देवं तप्तकांचनकुण्डलम्
एकाग्रमनसा ध्यात्वा सर्वदुःखहरं प्रभुम् १६
नामरूपं महामंत्रं जप्त्वा लक्ष्म्यासमन्वितम्
तद्विषं तु महाघोरमाद्यं सर्वभयंकरम् १७
नामत्रयप्रभावाच्च विष्णोः सर्वगतस्य वै
विषं तदभवज्जीर्णं लोकसंहारकारकम् १८
अच्युतानंत गोविन्द इति नामत्रयं हरेः
यो जपेत्प्रयतोभक्त्या प्रणवाद्यं नमोंतकम् १९
तस्य मृत्युभयं नास्ति विषरोगाग्निजं महत्
नामत्रयं महामंत्रं जपेद्यः प्रयतात्मवान् २०
कालमृत्युभयं चापि तस्य नास्ति किमन्यतः
इति नामत्रयेणैव पीतं देवि मया विषम् २१
ततः प्रहृष्टास्त्रिदशास्तुष्टुवुर्मां सुविस्मिताः
मां प्रणम्य पुनर्देवा ममंथुः क्षीरसागरम्
तस्मिन्प्रमथ्यमाने तु मया देवैश्च भामिनि २२
ज्येष्ठा देवी समुत्पन्ना रत्नस्रग्वाससा वृता
उत्पन्ना साऽब्रवीद्देवान्किंकर्त्तव्यं मयेति वै २३
तामब्रुवंस्तु ते देवीं सर्वदेवगणा भृशम्
देवा ऊचुः
येषां गृहांतरे रम्ये कलहः संप्रवर्त्तते २४
तत्ते स्थानं प्रयच्छामो वस तत्राशुभान्विता
परुषं भाषणं नित्यं वदंत्यनृतवादिनः २५
संध्याकाले तु ये पापाः स्वपंति मलचेतसः
तेषां वेश्मनि संतिष्ठ दुःखदारिद्र्यदायिनी २६
कपालकेशभस्मास्थि तुषांगारानि यत्र तु
तत्र ते सततं स्थानं भविष्यति न संशयः २७
यस्यवेश्म कपालास्थि भस्मकेशादि चिह्नितम्
तत्र वसाशुभे नित्यं कलिना सह नित्यशः २८
अकृत्वा पादयोः शौचं यस्त्वाचामति दुर्म्मतिः
तं भजस्व महादेवि कलुषेण भृशं वृतम् २९
तुषांगारकपालाश्मवालुका वस्त्र चर्म्मभिः
दंतधावनकर्तारो भविष्यंति नराधमाः ३०
रमस्व कलिना देवि तेषां वेश्मसु नित्यशः
तिलपिष्टं कलंजं च कलिगं शिग्रु गृंजनम् ३१
छत्राकं विड्वराहं च बिल्वं कोशातकीफलम्
अलाबुं च पलांडुं च ये खादंति नराधमाः
तेषां गेहे ह्यवस्थानं देवी दारिद्र्यदे सदा ३२
रुद्र उवाच-
इत्यादिश्य सुराः सर्वे ज्येष्ठां च कलिवल्लभाम्
पुनश्च मंथनं चक्रुः क्षीराब्धिं सुसमाहिताः ३३
ततश्च वारुणी देवी समुत्पन्ना शुभानने
अनंतो नागराजोऽथ तां जग्राह सुलोचनाम् ३४
ततः सुरा समुत्पन्ना सर्वाभरणभूषिता
वैनतेयस्य भार्याभूत्सर्वलक्षणशोभिता ३५
ततोऽप्सरोगणा दिव्या गंधर्वाश्च महौजसः
जज्ञिरे रूपसंपन्ना मधुगायनतत्पराः ३६
ऐरावतस्ततो जज्ञे तथैवोच्चैःश्रवा हयः
धन्वंतरिः पारिजातं सुरभिः सर्वकामधुक् ३७
एतान्सर्वान्सहस्राक्षो जग्राह प्रीतमानसः
ततः प्रभातसमये द्वादश्यामुदिते रवौ ३८
मथ्यमाने पुनस्तस्मिन्देवैरिंद्र पुरोगमैः
ततः प्रहृष्टवदनैस्तूयमाना महर्षिभिः ३९
उत्पन्ना श्रीर्महालक्ष्मी सर्वलोकेश्वरी शुभा
बालार्ककोटिसंकाशा कनकांगदभूषिता ४०
हेमांबुजसमासीना सर्वलक्षणशोभिता
पद्मपत्त्रविशालाक्षी नीलकुंचितमूर्द्धजा ४१
दिव्यचंदनलिप्तांगी दित्यपुष्पैरलंकृता
नानारत्नमयैर्दिव्यैः सर्वैराभरणैर्युता ४२
तनुमध्या जगद्धात्री पीनोन्नतपयोधरा
चतुर्हस्ता विशालाक्षी पूर्णेंदुसदृशानना ४३
वसुपात्रं मातुलुंगं स्वर्णपद्मयुगं शुभम्
विभ्राणा हस्तकमलैः सर्वाभरणभूषितैः ४४
अम्लानपंकजां मालां धारयंती ह्युरः स्थले
ददृशुस्तां महादेवीं सर्वलोकहितैषिणीम् ४५
ईश्वरीं सर्वभूतानां मातरं पद्ममालिनीम्
नारायणीं जगद्धात्रीं नारायणहृदालयाम् ४६
तां विलोक्य महालक्ष्मीं प्रहृष्टाः सर्वदेवताः
अवादयंतः पटहान् दिविदेवगणा भृशम् ४७
ववर्षुः पुष्पवर्षाणि वनदेव्यो निरंतरम्
जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः ४८
ववुः पुण्यास्तथावाताः सुप्रभोऽभूद्दिवाकरः
जज्वलुश्चाग्नयः शांताः प्रसन्नाश्च दिशो दश ४९
अनंतरं शीतरश्मिरुदभूत्क्षीरसागरे
सुधामयूखवान्सोमो मातुर्भ्राता सुखावहः ५०
नक्षत्राधिपतिश्चाभूच्चंद्रो वै लोकमातुलः
ततो जाया हरेः पुण्या तुलसी लोकपावनी ५१
समुत्पन्ना जगद्धात्री पूजार्थं शार्ङ्गिणो हरेः
ततः प्रहृष्टमनसः सर्वे देवा दिवौकसः ५२
तं शैलं पूर्ववत्स्थाप्य परिपूर्णमनोरथाः
समेत्य मातरं सर्वे शिवब्रह्मपुरोगमाः ५३
स्तुत्वा नामसहस्रेण जेपुः श्रीसूक्तसंहिताः
ततः प्रसन्ना सा देवि सर्वान्देवानुवाच ह ५४
श्रीरुवाच-
वरं वृणीध्वं भद्रं वो वरदाहं सुरोत्तमाः
रुद्र उवाच-
ऊचुः प्रांजलयो देवाः श्रियं नम्रात्ममूर्तयः ५५
देवा ऊचुः -
प्रसीद कमले देवि सर्वलोकेश्वरप्रिये
विष्णोर्वक्षस्थले देवि भव नित्यानपायिनी ५६
त्रैलोक्यं पालया देवी नित्या त्वं परमेश्वरी
यदपांगाश्रितं सर्वं जगत्स्थावरजंगमम् ५७
त्वया विलोकिताः सर्वे प्रभवंति दिवौकसः
माता रुद्रादिदेवानामैश्वर्यं त्वत्कटाक्षतः ५८
एतदिच्छामहे देवि जगन्मातर्नमोस्तु ते
रुद्र उवाच-
इत्युक्ता दैवतैः सर्वैर्लोकमाता महेश्वरी ५९
एवमस्त्विति तान्देवान्प्राह नारायणप्रिया
ततो नारायणः श्रीशः शंखचक्रगदाधरः ६०
तथैवाविरभूद्ब्रह्मा पूर्ववत्क्षीरसागरे
ततः प्रतुष्टुवुर्देवा नमस्कृत्वा जनार्दनम् ६१
ऊचुः प्रांजलयः सर्वे प्रहृष्टवदनाः शुभाः
देवा ऊचुः-
गृहाण देवीं सर्व्वेश महिषीं तव वल्लभाम् ६२
जगत्संरक्षणार्थाय लक्ष्मीमनपगामिनीम्
रुद्र उवाच-
इत्युक्त्वा मुनिभिः सर्वे देवा ब्रह्मपुरोगमाः ६३
नानारत्नमये दिव्ये पीठे बालार्कसंनिभे
निवेश्य देवीं देवं च आनंदाश्रुपरिप्लुताः ६४
दिव्याम्बरैर्दिव्यमाल्यैर्नानारत्नविभूषितैः
लक्ष्म्या सह समासीनमर्चयामासुरच्युतम् ६५
गंधैर्धूपैश्च दीपैश्च नैवेद्यैश्च सुधामयैः
अप्राकृतैः फलैर्दिव्यैरर्चयामासुरीश्वरीम् ६६
अमृतादुत्थिता देवी तुलसी कोमला शुभा
तया श्रीपादयुगलमर्च्चयामासुरंजसा ६७
प्रदक्षिणत्रयं कृत्वा नमस्कृत्वा मुहुर्मुहुः
तष्टुवुस्तुतिभिर्द्देवा हर्षपूर्णाश्रुविक्लवाः ६८
ततः प्रसन्नो भगवान्सर्वदेवेश्वरो हरिः
अभीष्टान्प्रददौ तेभ्यो वरान्देव्या सह प्रभुः ६९
ततः सुहृष्टाः सुरमानुषाद्या लक्ष्मीकटाक्षार्प्पित दृष्टिपूताः
प्रभूतधान्यार्थयुता निरंतरं सुखं परं प्रापुरनामया भृशम् ७०

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमा महेश्वरसंवादे लक्ष्म्युत्पत्तिर्नाम द्वात्रिंशदधिकद्विशततमोऽध्यायः २३२