पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २३२

विकिस्रोतः तः
← अध्यायः २३१ पद्मपुराणम्
अध्यायः २३२
वेदव्यासः
अध्यायः २३३ →

शंकर उवाच-
ततः सुरगणाः सर्वे दानवाद्या महाबलाः ।
उत्पाट्य मंदरं शैलं चिक्षिपुः पयसांनिधौ १।
ततो नारायणः श्रीमान्भगवान्भूतभावनः ।
कूर्मरूपेण तं शैलं दधारामितविक्रमः २।
अनादिमध्यांतवपुर्विश्वरूपः सनातनः ।
अधारयद्गिरिवरं संपूज्यो जगदीश्वरः ३।
तथैकेन भुजेनैव ईश्वरः सर्वगोऽव्ययः ।
ततो देवासुराः सर्वे ममंथुः क्षीरसागरम् ४।
सर्प्पराजेन संवेष्ट्य घर्घरं मंदराचलम् ।
मथ्यमानेऽथ दुग्धाब्धौ दैवतैः सुमहाबलैः ५।
उत्पादनार्थं लक्ष्म्याश्च सर्व एव महर्षयः ।
उपोष्य नियमं कृत्वा जेपुः श्रीसूक्तमेव च ६।
सहस्रनामपठनं चक्रुर्दिव्या द्विजोत्तमाः ।
एकादश्यां तु शुद्धायां मथ्यमाने महांबुधौ ७।
उपोष्य ऋषयः सर्वे जप्तं श्रीमंत्रमुत्तमम् ।
कांक्षमाणाश्च ये जप्तुं लक्ष्मीनारायणं हरिम् ८।
ध्यात्वा समर्च्चयामासुर्द्विजाग्र्या मुनिसत्तमाः ।
ततस्तस्मिन्मुहूर्ते तु मथ्यमाने महांबुधौ ९।
समभूत्तत्र प्रथमं कालकूटं महाविषम् ।
महापीडं महाघोरं संवर्ताग्निसमप्रभम् १०।
दृष्ट्वा प्रदुद्रुवुः सर्वे भयार्ता देवदानवाः ।
ततस्तान्विद्रुतान्दृष्ट्वा भयार्त्तान्सुरसत्तमान् ११।
ततस्तानब्रुवं वाक्यमहं तत्र शुभेक्षणे ।
भोभो देवगणाः सर्वैर्न भेतव्यं विषं प्रति १२।
अहमाहारयिष्यामि कालकूटं महाविषम् ।
इत्युक्तास्ते मया सर्वे देवा इंद्र पुरोगमाः १३।
साधुसाध्विति वाक्यैर्मां तुष्टुवुः प्रणता भृशम् ।
तद्दृष्ट्वा मेघसंकाशं प्रादुर्भूतं महाविषम् १४।
ध्यात्वा नारायणं देवं हृदये गरुडध्वजम् ।
उदयादित्यसंकाशं शंखचक्रगदाधरम् १५।
श्रीभूमिसहितं देवं तप्तकांचनकुण्डलम् ।
एकाग्रमनसा ध्यात्वा सर्वदुःखहरं प्रभुम् १६।
नामरूपं महामंत्रं जप्त्वा लक्ष्म्यासमन्वितम् ।
तद्विषं तु महाघोरमाद्यं सर्वभयंकरम् १७।
नामत्रयप्रभावाच्च विष्णोः सर्वगतस्य वै ।
विषं तदभवज्जीर्णं लोकसंहारकारकम् १८।
अच्युतानंत गोविन्द इति नामत्रयं हरेः ।
यो जपेत्प्रयतोभक्त्या प्रणवाद्यं नमोंतकम् १९।
तस्य मृत्युभयं नास्ति विषरोगाग्निजं महत् ।
नामत्रयं महामंत्रं जपेद्यः प्रयतात्मवान् २०।
कालमृत्युभयं चापि तस्य नास्ति किमन्यतः ।
इति नामत्रयेणैव पीतं देवि मया विषम् २१।
ततः प्रहृष्टास्त्रिदशास्तुष्टुवुर्मां सुविस्मिताः ।
मां प्रणम्य पुनर्देवा ममंथुः क्षीरसागरम् ।
तस्मिन्प्रमथ्यमाने तु मया देवैश्च भामिनि २२।
ज्येष्ठा देवी समुत्पन्ना रत्नस्रग्वाससा वृता ।
उत्पन्ना साऽब्रवीद्देवान्किंकर्त्तव्यं मयेति वै २३।
तामब्रुवंस्तु ते देवीं सर्वदेवगणा भृशम् ।
देवा ऊचुः ।
येषां गृहांतरे रम्ये कलहः संप्रवर्त्तते २४।
तत्ते स्थानं प्रयच्छामो वस तत्राशुभान्विता ।
परुषं भाषणं नित्यं वदंत्यनृतवादिनः २५।
संध्याकाले तु ये पापाः स्वपंति मलचेतसः ।
तेषां वेश्मनि संतिष्ठ दुःखदारिद्र्यदायिनी २६।
कपालकेशभस्मास्थि तुषांगारानि यत्र तु ।
तत्र ते सततं स्थानं भविष्यति न संशयः २७।
यस्यवेश्म कपालास्थि भस्मकेशादि चिह्नितम् ।
तत्र वसाशुभे नित्यं कलिना सह नित्यशः २८।
अकृत्वा पादयोः शौचं यस्त्वाचामति दुर्म्मतिः ।
तं भजस्व महादेवि कलुषेण भृशं वृतम् २९।
तुषांगारकपालाश्मवालुका वस्त्र चर्म्मभिः ।
दंतधावनकर्तारो भविष्यंति नराधमाः ३०।
रमस्व कलिना देवि तेषां वेश्मसु नित्यशः ।
तिलपिष्टं कलंजं च कलिगं शिग्रु गृंजनम् ३१।
छत्राकं विड्वराहं च बिल्वं कोशातकीफलम् ।
अलाबुं च पलांडुं च ये खादंति नराधमाः ।
तेषां गेहे ह्यवस्थानं देवी दारिद्र्यदे सदा ३२।
रुद्र उवाच-
इत्यादिश्य सुराः सर्वे ज्येष्ठां च कलिवल्लभाम् ।
पुनश्च मंथनं चक्रुः क्षीराब्धिं सुसमाहिताः ३३।
ततश्च वारुणी देवी समुत्पन्ना शुभानने ।
अनंतो नागराजोऽथ तां जग्राह सुलोचनाम् ३४।
ततः सुरा समुत्पन्ना सर्वाभरणभूषिता ।
वैनतेयस्य भार्याभूत्सर्वलक्षणशोभिता ३५।
ततोऽप्सरोगणा दिव्या गंधर्वाश्च महौजसः ।
जज्ञिरे रूपसंपन्ना मधुगायनतत्पराः ३६।
ऐरावतस्ततो जज्ञे तथैवोच्चैःश्रवा हयः ।
धन्वंतरिः पारिजातं सुरभिः सर्वकामधुक् ३७।
एतान्सर्वान्सहस्राक्षो जग्राह प्रीतमानसः ।
ततः प्रभातसमये द्वादश्यामुदिते रवौ ३८।
मथ्यमाने पुनस्तस्मिन्देवैरिंद्र पुरोगमैः ।
ततः प्रहृष्टवदनैस्तूयमाना महर्षिभिः ३९।
उत्पन्ना श्रीर्महालक्ष्मी सर्वलोकेश्वरी शुभा ।
बालार्ककोटिसंकाशा कनकांगदभूषिता ४०।
हेमांबुजसमासीना सर्वलक्षणशोभिता ।
पद्मपत्त्रविशालाक्षी नीलकुंचितमूर्द्धजा ४१।
दिव्यचंदनलिप्तांगी दित्यपुष्पैरलंकृता ।
नानारत्नमयैर्दिव्यैः सर्वैराभरणैर्युता ४२।
तनुमध्या जगद्धात्री पीनोन्नतपयोधरा ।
चतुर्हस्ता विशालाक्षी पूर्णेंदुसदृशानना ४३।
वसुपात्रं मातुलुंगं स्वर्णपद्मयुगं शुभम् ।
विभ्राणा हस्तकमलैः सर्वाभरणभूषितैः ४४।
अम्लानपंकजां मालां धारयंती ह्युरः स्थले ।
ददृशुस्तां महादेवीं सर्वलोकहितैषिणीम् ४५।
ईश्वरीं सर्वभूतानां मातरं पद्ममालिनीम् ।
नारायणीं जगद्धात्रीं नारायणहृदालयाम् ४६।
तां विलोक्य महालक्ष्मीं प्रहृष्टाः सर्वदेवताः ।
अवादयंतः पटहान् दिविदेवगणा भृशम् ४७।
ववर्षुः पुष्पवर्षाणि वनदेव्यो निरंतरम् ।
जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः ४८।
ववुः पुण्यास्तथावाताः सुप्रभोऽभूद्दिवाकरः ।
जज्वलुश्चाग्नयः शांताः प्रसन्नाश्च दिशो दश ४९।
अनंतरं शीतरश्मिरुदभूत्क्षीरसागरे ।
सुधामयूखवान्सोमो मातुर्भ्राता सुखावहः ५०।
नक्षत्राधिपतिश्चाभूच्चंद्रो वै लोकमातुलः ।
ततो जाया हरेः पुण्या तुलसी लोकपावनी ५१।
समुत्पन्ना जगद्धात्री पूजार्थं शार्ङ्गिणो हरेः ।
ततः प्रहृष्टमनसः सर्वे देवा दिवौकसः ५२।
तं शैलं पूर्ववत्स्थाप्य परिपूर्णमनोरथाः ।
समेत्य मातरं सर्वे शिवब्रह्मपुरोगमाः ५३।
स्तुत्वा नामसहस्रेण जेपुः श्रीसूक्तसंहिताः ।
ततः प्रसन्ना सा देवि सर्वान्देवानुवाच ह ५४।
श्रीरुवाच-
वरं वृणीध्वं भद्रं वो वरदाहं सुरोत्तमाः ।
रुद्र उवाच-
ऊचुः प्रांजलयो देवाः श्रियं नम्रात्ममूर्तयः ५५।
देवा ऊचुः -
प्रसीद कमले देवि सर्वलोकेश्वरप्रिये ।
विष्णोर्वक्षस्थले देवि भव नित्यानपायिनी ५६।
त्रैलोक्यं पालया देवी नित्या त्वं परमेश्वरी ।
यदपांगाश्रितं सर्वं जगत्स्थावरजंगमम् ५७।
त्वया विलोकिताः सर्वे प्रभवंति दिवौकसः ।
माता रुद्रादिदेवानामैश्वर्यं त्वत्कटाक्षतः ५८।
एतदिच्छामहे देवि जगन्मातर्नमोस्तु ते ।
रुद्र उवाच-
इत्युक्ता दैवतैः सर्वैर्लोकमाता महेश्वरी ५९।
एवमस्त्विति तान्देवान्प्राह नारायणप्रिया ।
ततो नारायणः श्रीशः शंखचक्रगदाधरः ६०।
तथैवाविरभूद्ब्रह्मा पूर्ववत्क्षीरसागरे ।
ततः प्रतुष्टुवुर्देवा नमस्कृत्वा जनार्दनम् ६१।
ऊचुः प्रांजलयः सर्वे प्रहृष्टवदनाः शुभाः ।
देवा ऊचुः-
गृहाण देवीं सर्व्वेश महिषीं तव वल्लभाम् ६२।
जगत्संरक्षणार्थाय लक्ष्मीमनपगामिनीम् ।
रुद्र उवाच-
इत्युक्त्वा मुनिभिः सर्वे देवा ब्रह्मपुरोगमाः ६३।
नानारत्नमये दिव्ये पीठे बालार्कसंनिभे ।
निवेश्य देवीं देवं च आनंदाश्रुपरिप्लुताः ६४।
दिव्याम्बरैर्दिव्यमाल्यैर्नानारत्नविभूषितैः ।
लक्ष्म्या सह समासीनमर्चयामासुरच्युतम् ६५।
गंधैर्धूपैश्च दीपैश्च नैवेद्यैश्च सुधामयैः ।
अप्राकृतैः फलैर्दिव्यैरर्चयामासुरीश्वरीम् ६६।
अमृतादुत्थिता देवी तुलसी कोमला शुभा ।
तया श्रीपादयुगलमर्च्चयामासुरंजसा ६७।
प्रदक्षिणत्रयं कृत्वा नमस्कृत्वा मुहुर्मुहुः ।
तष्टुवुस्तुतिभिर्द्देवा हर्षपूर्णाश्रुविक्लवाः ६८।
ततः प्रसन्नो भगवान्सर्वदेवेश्वरो हरिः ।
अभीष्टान्प्रददौ तेभ्यो वरान्देव्या सह प्रभुः ६९।
ततः सुहृष्टाः सुरमानुषाद्या लक्ष्मीकटाक्षार्प्पित दृष्टिपूताः ।
प्रभूतधान्यार्थयुता निरंतरं सुखं परं प्रापुरनामया भृशम् ७०।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे लक्ष्म्युत्पत्तिर्नाम द्वात्रिंशदधिकद्विशततमोऽध्यायः २३२।