पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २३०

विकिस्रोतः तः
← अध्यायः २२९ पद्मपुराणम्
अध्यायः २३०
वेदव्यासः
अध्यायः २३१ →

पार्वत्युवाच-
भगवन्यत्रदेवेशो राक्षसान्मधुसूदनः ।
जघान केन रूपेण यथावद्वक्तुमर्हसि १।
वैभवं च स्थवीयस्य मत्स्यकूर्म्मादिरूपकम् ।
विस्तरेण समाख्याहि मम प्रीत्या महेश्वर २।
महादेव उवाच-
शृणु देवि प्रवक्ष्यामि वैभवं स्वस्थमानसा ।
मत्स्यकूर्म्मादि यद्रूपमवतारात्मकं हरेः ३।
दीपादुत्पाद्यते दीपो यथावत्तद्भविष्यति ।
परावस्थापरेशस्य सव्यूहा विभवादयः ४।
उक्ता देवावतारास्तु विविधाकारकाः शुभाः ।
अर्च्चावतारा देवस्य वैभवाः परमात्मनः ५।
प्राजापत्येन वै ब्रह्मा स सम्राट्परमोत्सवः ।
भृगुं मरीचिमत्रिं च दक्षं कर्द्दममेव च ६।
पुलस्त्यं पुलहं चैव गिरिशं च तथा क्रतुम् ।
नवप्रजानां पतय इमे प्रोक्ता यथाक्रमम् ७।
मरीचिर्भगवांस्तत्र जनयामास कश्यपम् ।
कश्यपस्याभवञ्जायाश्चतस्रः शुभदर्शने ८।
अदितिश्च दितिश्चैव कद्रुश्च विनता तथा ।
अदितिर्जनयामास देवांस्तु शुभदर्शनान् ९।
दितिश्च राक्षसान्पुत्रांस्तामसान्सुमहासुरान् ।
शंबूकस्तु हयग्रीवो हिरण्याक्षो महाबलः १०।
हिरण्यकशिपुर्जंभो मयाद्याः सुमहातपाः ।
मकरस्तु महावीर्यो ब्रह्मलोकमुपागतः ११।
ब्रह्माणं मोहयित्वाऽसौ वेदाञ्जग्राह वीर्यवान् ।
ग्रसित्वा च श्रुतिं सोऽथ प्रविवेश महार्णवम् १२।
ततः सर्वं जगच्छून्यमभवद्धर्मसंकरः ।
नाधीतं न वषट्कारं वर्णाश्रमविवर्जितम् १३।
ततः प्रजापतिर्देवः सर्वदेवगणैर्वृतः ।
गत्वा दुग्धांबुधिं देवं तुष्टाव शरणं गतः १४।
ब्रह्मोवाच-
प्रसीद देव मे नाथ नागपर्यंकसंस्थित ।
सर्वेश सर्वदेवात्मन्सर्ववेदमयाच्युत १५।
आद्यं जगद्भुवो बीजं मध्ये त्वं सर्वतोऽधिकः ।
अंते च पशुनाथस्त्वं स्वेच्छया तस्तमेव च १६।
त्वमेव धत्से चिद्रूपं जगत्सर्वं सनातनम् ।
त्वमव्यक्तो हि भूतादिः प्रधानपुरुषोऽव्ययः १७।
त्वमादिमध्यांतवपुर्जगतः परमेश्वरः ।
त्वमेव सर्वलोकानामाश्रयः पुरुषोत्तमः १८।
भूतादिस्त्वं महद्भूतं भूतसंघस्य कारणम् ।
त्वमेव कारणमाश्रित्य रमते धाम आत्मवान् १९।
त्वमादिभूतश्चांतस्त्वं त्वं वायुः सर्व्वगो महान् ।
त्वमादिस्त्वमनादिश्च त्वमग्निस्तेजसां निधिः २०।
त्वमापः सर्व्वजगतां जीवनं परमेश्वरः ।
त्वं भूमिर्जगदाधारो भूधरस्त्वं महामते २१।
सरितं सागरस्त्वं वै सर्व्वस्यादिस्त्वमेव च ।
देवर्षिः सर्वभूतानि त्वमेव पुरुषोत्तम २२।
त्वयैव प्रेरिता लोकाश्चेष्टंते साध्वसाधुषु ।
दैत्येनोपद्रुता वेदाः प्रविष्टा महदर्णवम् २३।
वेदाधारमिदं सर्व्वं जगत्स्थावरजंगमम् ।
वेदाश्चैव हि सर्व्वेषां धर्माणां परितः स्थितिः २४।
वेदेषु सर्वदेवानां नित्यतृप्तिर्भविष्यति ।
तस्माद्वेदान्समानेतुं त्वमेवार्हसि केशव २५।
श्रीमहादेव उवाच-
एवमुक्तो हृषीकेशो ब्रह्मणा परमेश्वरः ।
मत्स्यरूपं समास्थाय प्रविवेश महोदधिम् २६।
तं दैत्यं सुमहाघोरं माकरंरूपमास्थितः ।
तुण्डाग्रेण विदार्याथ जघानामरपूजितं २७।
तं हत्वा सर्ववेदांश्च साङ्गोपाङ्गसमन्वितान् ।
गृहीत्वा प्रददौ तस्मै ब्रह्मणे स महाद्युतिः २८।
अन्योन्यमिश्रिता वेदा ग्रसितास्तेन रक्षसा ।
व्यक्ता भगवता तेन व्यासरूपेण धीमता २९।
पृथग्भूता समं वेदा व्यासेनैव महात्मना ।
एवं मत्स्यावतारेण रक्षिताः सर्व्वदेवताः ३०।
श्रुतिप्रदानेन जगत्त्रयं तदा कृत्वा निरातंकमहो रमाधवः ।
संस्तूयमानः सुरसिद्धसंघैरंतर्दधे योगिभिरर्च्चितांघ्रिः ।
वासुदेवो हि भवगान्सर्वदेवमयो हरिः ३१।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे उमामहेश्वरसंवादे मत्स्यावतारवर्णनंनाम त्रिंशदधिकद्विशततमोऽध्यायः २३० ।