पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २२९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २२८ पद्मपुराणम्
अध्यायः २२९
वेदव्यासः
अध्यायः २३० →

पार्वत्युवाच-
विस्तरेण ममाख्याहि देवसर्गमनुत्तमम्
ब्रह्मादि त्रिदिवश्रेष्ठाः कथं जाताः सनातनाः
ईश्वरस्यावतारांश्च विस्तरेण वदस्व मे १
रुद्र उवाच-
आकाशानिलतेजोंबु भुवः सृष्टा यथाक्रमम्
तासां मध्येऽसृजद्ब्रह्मा अगाधजलमर्णवम् २
अस्मिन्नेकार्णवीभूते जलमायावटच्छदे
आदाय सर्व्वभूतानि योगनिद्रां ययौ हरिः ३
स जगत्स्रष्टुकामस्तु योगनिद्रामुपेयिवान्
तया रेमे चिरं कालं मायया मधुसूदनः ४
तस्यां तु जनयामास कालात्मानमनुत्तमम्
कलाकाष्ठादि भूता ये पक्षमासादिरूपिणः ५
तस्मिन्काले हरेर्न्नाभिपंकजं मुकुलाकृति
विकसत्सर्वजगतो बीजभूतं सुवर्चसम् ६
उदस्थादुदभूत्तत्र ब्रह्मा च सुमहामतिः
स जगत्स्रष्टुकामस्तु रजोगुणविचोदितः
तुष्टाव योगनिद्रायां शयानं परमेश्वरम् ७
ब्रह्मोवाच-
नमोस्तु विष्णवे तुभ्यं सर्गस्थित्यंतहेतवे
जगद्भूषणभूषाय श्रीमते विश्वरूपिणे ८
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च
जगद्धिताय कृष्णाय गोविंदाय नमोनमः ९
प्रधानकालरूपाय पुरुषायेश्वराय च
नमः प्रपंचरूपाय निष्प्रपंचस्वरूपिणे १०
नारायणाय विश्वाय विश्वेशाय नमोनमः
श्रीभूलीलाधिपतये ब्रह्मणे परमात्मने ११
नमोस्तु वासुदेवाय विश्वरूपाय शार्ङ्गिणे
त्रयीनाथाय हरये विश्वनाथस्वरूपिणे १२
अनंतकल्याणगुणपरिपूर्णाय ते नमः
जगच्च सर्व्वं स्वपिति त्वयि सुप्ते जगन्मये १३
वृतं सर्वं जगन्नाथ प्रपंचे सचराचरम्
त्वमेव कारणं कर्त्ता कार्य्यं च त्रिगुणोद्भवम् १४
स्रष्टा ध्याता विधाता च त्वमेव परमेश्वरः
जागर्षिशुद्धसत्वस्थस्तवनिद्रा कुतःप्रभो
देवत्वयि स्थितालोकाः समाधिष्ठाः सनातनाः १५
शिवउवाच-
एवमुक्तो हृषीकेशो ब्रह्मणा परमेश्वरः
उत्तस्थौ शयनात्तस्माद्विमुक्तो योगनिद्रया १६
नियम्य योगनिद्रां तां जगत्स्रष्टुं प्रचक्रमे
अचिंत्यस्तत्क्षणाद्देवो जगतां प्रभुरच्युतः १७
चिंतयित्वा जगत्सर्वमसृजत्स पुमांस्ततः
लोकान्सर्व्वांस्तदा ह्यप्सु गतमंडं हिरण्मयम् १८
सप्तद्वीपान्समुद्रांतान्मेदिनी भूधरैर्युतान्
सहैकाण्डकटाहेन नाभिपद्मेऽसृजत्प्रभुः १९
तदण्डमध्ये चास्थानमीश्वरः कृतवान्हरिः
अथ नारायणंकस्तु दध्यावध्यात्मचेतसा २०
ध्यानांते तस्य भालात्तु स्वेदबिंदुरजायत
स बिंदुर्बुद्बुदाकारः पृथिव्यामपतत्क्षणात् २१
तस्मात्तु बुद्बुदात्सोऽहमुत्पन्नोस्मि वरानने
त्र्यक्षस्त्रिशूलहस्तोऽहं जटामुकुटमंडितः २२
किंकरोमीति देवेशमवोचं विनयान्वितः
ततो नारायणो देवो मामित्याह मुदान्वितः २३
कर्त्तासि जगतो रुद्र संहारं भीमदर्शनम्
साक्षात्संकर्षणांशेन संहारार्थे वरानने २४
तस्मान्नारायणाद्देवि उत्पन्नोस्मि भयंकरः
नियोज्य मां तु संहारे पुनरेव जनार्दनः २५
नेत्राभ्यामसृजच्चंद्रसूर्य्यौ ध्वांतापहारिणौ
वायुं दिशश्च श्रोत्राभ्यामिंद्राग्नीमुखतोऽसृजत् २६
नासाभ्यां वरुणं मित्रमसृजत्पंकजेक्षणः
बाहुभ्यामखिलान्देवान्ससाध्यान्समरुद्गणान् २७
समस्तरोमकूपेभ्यो रत्नान्योषधयस्तथा
त्वचि शैलान्समुद्राश्च गवाद्याः पशवस्तथा २८
मुखतो ब्राह्मणः सृष्टो बाहुभ्यां क्षत्रियस्तथा
ऊर्व्वोर्वैश्यस्ततः पद्भ्यां शूद्रश्चैवमजायत २९
एवं सृष्ट्वा जगत्सर्व्वमचेतनमवस्थितम्
विश्वरूपेण देवेशो यस्यांतरमधिष्ठितः ३०
शक्त्या विना हरेस्तस्य नोन्मेषो विद्यते यतः
तस्मात्सर्वजगत्प्राणो विष्णुरेव सनातनः ३१
स एवाव्यक्तरूपः सन्परमात्मा व्यवस्थितः
सर्गस्थितिलयं ब्रह्मा स्वयमेव प्रवर्त्तते ३२
षाड्गुण्यपरिपूर्णोऽसौ वासुदेवः सनातनः
त्रिगुणादात्मनोरूपं चतुर्द्धा कुरुते जगत् ३३
प्रद्युम्नमूर्त्तिर्भगवान्सर्वैश्वर्य्यसमन्वितः
विधेः प्रजापतीनां च कालस्य च जनस्य च ३४
अंतर्य्यामित्वमापन्नो सर्गं सम्यक्करोति हि
सेतिहासांस्ततो वेदान्ददौ तस्मै महात्मने ३५
प्रद्युम्नस्यांशभागोऽसौ ब्रह्मा लोकपितामहः
जगत्सर्गस्थितिं सर्व्वं प्रकरोत्यंशसंभवः ३६
अनिरुद्धश्च भगवाञ्छक्तितेजः समन्वितः
मनूनां पार्थिवानां च कालस्य च जनस्य च ३७
स्थितिं करोति भगवानंतर्य्यामित्वमास्थितः
संकर्षणो महाविष्णुर्विद्याबलसमन्वितः ३८
कालस्य सर्वभूतानां रुद्रस्य च यमस्य च
अंतर्य्यामित्वमास्थाय जगत्संहरते प्रभुः ३९
इत्यंतर्य्याम्यवस्थायामंतर्य्यामित्वमात्मनः
मत्स्यः कूर्म्मो वराहश्च नरसिंहोऽथ वामनः ४०
रामो रामश्च कृष्णश्च बुद्धः कल्की च ते दश
एते तु विभवावस्था ब्रह्मणः परमात्मनः ४१
नृसिंहरामकृष्णेषु षाड्गुण्यं परिकीर्तितम्
परावस्था तु देवस्य दीपादुत्पन्न दीपवत् ४२
सा ह्यवस्था हरेरस्य शृणुष्व गिरिजे शुभे
वैकुंठं परमं लोकं विष्णुलोकमनुत्तमम् ४३
श्वेतदीपं स्वरूपं तु क्षीरसागरमुत्तमम्
एवं चतुर्द्धा व्यूहं तु सम्यगुक्तं महर्षिभिः ४४
जलावरणमध्ये तु वैकुंठं कारणं शुभम्
कोटिवैश्वानरप्रख्यं सर्वं धर्म्मवदव्ययम् ४५
आमोदमंदारकरैर्वृक्षैर्वह्निभिरास्थितम्
नानामणिमयं दिव्यं विमानकोटिभिर्य्युतम् ४६
यदुक्तं परमं धाम तादृक्लक्षणसंस्थितम्
तस्मिन्वैकुंठनगरे नानारत्नसमुज्ज्वले ४७
मध्ये देवजयारामं पुरं रम्यमनुत्तमम्
चतुर्द्वारसमायुक्तं हेमप्राकारतोरणम् ४८
चंडादिद्वारपालाद्यैः कुमुदाद्यैश्च रक्षितम्
नानामणिमयैर्दिव्यैर्गृहैः पंक्तिभिरावृतम् ४९
विततं पंचपद्माभिर्योजनैश्च समंततः
सहस्रयोजनोत्तुंगैः प्रासादैः कोटिभिर्वृतम् ५०
आरूढयौवनैर्द्दिव्यैः पुंभिः स्त्रीभिश्च शोभितम्
स्त्रियश्च पुरुषाश्चास्मिन्सर्वलक्षणशोभिताः ५१
समरूपाश्च श्रीविष्णोः सर्व्वालंकारभूषिताः
दिव्यस्रग्वस्त्रसंछन्ना दिव्यचंदनभूषिताः ५२
मोदंते तत्र देवेश भक्त्या त्वात्ममनोरमे
मंत्राष्टाक्षरसंसिद्धा भक्त्या षोडशरूपया ५३
वृतास्तत्पदमाविश्य मोदंते मनसीप्सितम्
गत्वास्मिन्न निवर्तंते विष्णुना सह संस्थिताः ५४
अविच्छिन्नात्मना ते वै विष्णुना संगताः शुभाः
तत्समानसुखं नित्यं प्राप्नुवंति मनीषिणः ५५
यत्रतत्र हरेर्लोकानाविश्य शुभचेतसः
प्राप्नुवंति पुनः स्वर्गं स्वर्गस्थाइव जंतवः ५६
यथा सौमित्रि भरतौ यथा संकर्षणादयः
तथा तेपि च जायंते सत्यलोके यथेच्छया ५७
पुनस्तेनैव यास्यंति तत्पदं शाश्वतं परम्
न कर्म्मबंधनं जन्म वैष्णवानां च विद्यते ५८
विष्णोरनुचरत्वं हि मोक्षयाहुर्मनीषिणः
न दास्यममरेशस्य बंधनं परिकीर्तितम् ५९
सर्वबंधननिर्मुक्ता हरिदासा निरामयाः
आब्रह्मभुवनाँ लोकाः पुनरावृत्तिलक्षणाः ६०
कर्मबंधमया दुःखमित्रासख्यभयप्रदाः
बह्वाया सफला देवि जनिनाशकहेतवः ६१
सुखभोगस्तु यन्नॄणां विषमिश्राशनं यथा
स्वर्गसंस्थान्नरान्दृष्ट्वा क्षीणे कर्म्मणि देवताः ६२
कुपिताः पातयन्त्येव संसृतौ कार्य्यबंधने
तस्मात्स्वर्गसुखं देवि बहुधायाससाधनम् ६३
अनित्यं कुटिलं दुःखमिश्रं योगी परित्यजेत्
सततं संस्मरेद्विष्णुं सर्वदुःखौघनाशनम् ६४
नामोच्चारणमात्रेण प्राप्नुवंति परं पदम्
तस्मात्तु वैष्णवं लोकं गौरि संप्रार्थयेत्सुधीः ६५
भक्त्या त्वनन्यया देवं भजेत करुणांबुधिम्
स सर्वज्ञानगुणवान्रक्षत्येव न संशयः ६६
तस्मादष्टाक्षरं मन्त्रं जप्त्वा सुखतरं शुभम्
संप्राप्नोति परं लोकं वैष्णवं सर्वकामदम् ६७
तस्मिन्मणिमये तल्पे सहस्रसूर्य्यरश्मिनि
विमाने शुशुभे दिव्ये संस्थितो भगवान्हरिः ६८
तत्र चाधारशक्त्यादि धृते पीठे हिरण्मये
नानारत्नमये दिव्ये नानावर्णसमन्विते ६९
तस्मिन्नष्टदले पद्मे मंत्राक्षरपदे शुभे
कर्णिकायां सुरम्यायां लक्ष्मीबीजशुभाक्षरे ७०
तस्मिन्वालार्कसाहस्रकोटितुल्य समप्रभे
दिव्ये नारायणः श्रीमानासीनः पंकजासने ७१
तस्य दक्षिणके पार्श्वे जगन्माता हिरण्मयी
गृहीत्वा चामरान्दिव्यान् दिव्यमाल्यविभूषणा ७२
वसुपात्रं मातुलुंगं स्वर्णपद्मं धृतं करैः
वामतः पृथिवीदेवी नीलोत्पलदलद्युतिः ७३
नानाभरणसंयुक्ता विचित्रांबरभूषिता
सा धृत्वा चोर्द्ध्वबाहुभ्यां रम्यं रक्तोत्पलद्वयम् ७४
इतराभ्यां धृतं देव्या धान्यपात्रयुगं तथा
गृहीत्वा चामरान्दिव्यान्शक्तयो विमलादिकाः ७५
दलाग्रेषु समासीनाः सर्वलक्षणशोभिताः
तासां मध्ये समासीनो भगवानच्युतो हरिः ७६
शंखचक्रगदापद्मपाणिभिर्दिव्यभूषणैः
केयूरांगदहाराद्यैर्भूषणै रूपशोभितः ७७
प्रातरुद्यत्सहस्रांशु कुण्डलाभ्यां विराजितः
पूर्वोक्तैस्त्रिदशैर्न्नित्यैः सेवितः परमेश्वरः ७८
आस्ते वैकुण्ठनगरे नित्ये सत्ये च भोगवान्
श्रीमदष्टाक्षरं मंत्रं सिद्धानां वै मनीषिणाम् ७९
गम्यं तद्वैष्णवं लोकं नेतरेषां कथंचन
इत्येवं प्रथमं व्यूहं कथितं ते वरानने ८०
द्वितीयं वैष्णवं लोकं शृणु वक्ष्यामि सुव्रते
योऽयं नित्य इति ख्यातो लोकाग्र्यो वैष्णवः स्मृतः ८१
तं लोकं विपुलं पुण्यं शुद्धं सत्वमयं शुभम्
मध्याह्नसूर्य्यसाहस्रयुगपद्भासितं तदा ८२
कल्पांतेऽपि न लीयेत तत्वलोकं महत्तरम्
मम ब्रह्मादिदेवानां न द्रष्टुमपि शक्यते ८३
सर्वं कल्पद्रुमवनैः परिपूर्णं समंततः
सुधाम्बुपरिपूर्णाभिर्दीर्घिकाभिः समन्वितम् ८४
स्वर्णरत्नमयैर्दिव्यैः पंकजैरुपशोभितम्
जलदग्निनिभैर्दिव्यैर्भूषणैः कोटिभिर्वृतम् ८५
निरंतरं सामभिश्च कूजितैः कोकिलादिभिः
ऊह्यमानैर्गन्धर्वृक्षैः पुष्पकैरपि शोभितम् ८६
ऊनषोडशवर्षाब्दैर्दिव्यनारीनरैर्वृतम्
सर्वलक्षणशोभाढ्यैर्दिव्यकल्पविभूषणैः ८७
तत्रप्रदेशे रम्येषु देशेषु कमलापतिम्
मुदितैः पतिभिः सार्द्धमर्चयंति स्म योषितः ८८
तत्प्रसादोपलभ्यं वै सुखमश्नन्ति सर्वदा
गायंति परमानंदं कृष्णस्य चरितं महत् ८९
पद्मेक्षणाः पद्महस्ताः पद्मया सदृशः शुभाः
दिव्यस्रग्वसनोपेताः क्रीडंति स्म सुयोषितः ९०
शंखचक्रगदापद्मधरा भूषणभूषिताः
स्रग्विणः पीतवसनाः पुरुषास्तत्र संस्थिताः ९१
अनन्यस्पर्शनात्तत्र स्त्रीपुंसोः क्रीडमानयोः
भवत्यनुदिनं वृद्धं हरिभक्तिसुखं रसम् ९२
तन्मध्येंतःपुरं रम्यं वासुदेवस्य शोभितम्
चंदनागुरुकर्प्पूरकुंकुमोदकसंयुतम् ९३
नानापुष्पविमानाद्यैः सर्वतः समलंकृतम्
तन्मध्ये कल्पवृक्षस्य च्छायायां कमलासने ९४
विचित्रश्लक्ष्णपर्यंके शुभास्तरणसंवृते
दिव्यगंधसुशोभाढ्यैर्नानापुष्पपरिच्छदैः ९५
तस्मिन्मनोरमे दिव्ये समासीनः श्रिया सह
ईश्वर्य्या सह देवेशो वासुदेवः सनातनः ९६
सुधांशुकोटिसंकाशो दिव्याभरणभूषितः
सुवर्णशुभ्रयुगल श्लक्ष्णनासांचिताननः ९७
स्निग्धायतसुलावण्यकपोलाभ्यां विराजितः
नीलकुंचितकेशाढ्यो रक्ताब्जदललोचनः ९८
मंदारकेतकीजाती कैरवीकृतशेखरः
स्निग्धबिम्बफलाभौष्ठः सुस्मिताननपंकजः ९९
अनर्घ्यमौक्तिकाभासदंतावलिविराजितः
हरिचंदनलिप्तांगः कस्तूरीतिलकांकितः १००
उन्नतांसभुजैर्दीर्घैश्चतुर्भिरुपशोभितः
जपाकुसुमसंकाशकरपल्लवशोभितः १०१
श्रीवत्सकौस्तुभाभ्यां च शोभितः पृथुवक्षसा १०२
मुक्तामयैः सुशोभाढ्यैर्दिव्यस्रग्भिरलंकृतः
बालार्कसदृशज्योत्स्ना पीतवस्त्रेण वेष्टितः १०३
माणिक्यनूपुरोपेत पद्मपत्रविराजितः
अकलंकितचंद्राभ नखपंक्तिविराजितः १०४
रक्तोत्पलनिभश्लक्ष्ण शुभ्रांघ्रिकरपंकजः
पांचजन्यरथांगाभ्यां बाहुयुग्मविराजितः १०५
इतराभ्यां श्रियो गात्रमाश्लिष्यन्निजवक्षसि
श्लिष्यद्विद्युल्लतोद्गीथ शिताभ्र इव राजते १०६
सप्तजांबूनदश्लक्ष्ण शुभांघ्रियुगपंजकः
अत्र क्रीडति देवेशो वासुदेवः सनातनः १०७
तप्तकांचनसंकाशा सर्वाभरणभूषिता
सुस्निग्धनीलकुटिलचंद्रराविविराजिता १०८
मंदारपारिजातादि दिव्यपुष्पविराजिता
कर्णावतंस शोभाढ्या चिकुरांतालिसन्निभा १०९
पीनोन्नतस्तनाभ्यां च पीडंति हरिवक्षसि
केयूरांगदहाराद्यैर्भूषणैरुपशोभिता ११०
आरूढयौवना नित्यं सर्वलोकेशसुंदरी
तत्र क्रीडति लोकेश पत्या सह निरंतरम् १११
स एव वासुदेवोऽत्र सर्वभूतमनोहरः
क्रीडते सर्वलोकेस्मिन्सर्वकामप्रदो नृणाम् ११२
अत्राष्टशक्तयो लक्ष्म्यास्तनवः परितः स्थिताः
रमा च रुक्मिणी सीता पद्मा पद्मालया शिवा ११३
सुलक्षणा सुशीला च रतिकामप्रदाश्च ताः
शंखचक्रगदापद्म शार्ङ्गाद्यैर्हेतिभिस्तथा ११४
परितः पुष्कराकारैस्तं लोकं परिरक्षते
एवं द्वितीयं रूपं च सम्यक्ते शुभदर्शने ११५
संक्षेपतो मया प्रोक्तं न शक्यं विस्तरेण हि
द्वादशाक्षरमंत्रं वै ये जपंति सुखाह्वयम् ११६
ते प्राप्नुवंति सततं शाश्वतं शुभमक्षयम्
न वेदाध्ययनैर्यज्ञैर्न व्रतैर्नोपवासतः ११७
न प्राप्यं वैष्णवं लोकं विना दास्येन कुत्रचित्
तस्माद्दास्यं हरेर्भक्तं भजेतानन्यमानसः ११८
प्राप्नोति परमां सिद्धिं कर्मबंधविमोचनीम्
एवं संप्रोच्यते देवि द्वितीयं व्यूहमव्ययम् ११९
तृतीयं तु परं व्यूहं शृणु वक्ष्यामि पार्वति
तोयाब्धेरुत्तरं कूलं श्वेतद्वीपे महामते १२०
संदर्शनाय योगानां सनकादि महात्मनाम्
सनकश्च सनंदश्च तृतीयश्च सनातनः १२१
सनत्कुमारजाताश्च वोढुः पंचशिखस्तथा
सप्तैते ब्रह्मणः पुत्रा योगिनः सुमहौजसः १२२
विरक्ताः सर्वभोगेषु शुद्धाः सत्वगुणाः सदा
भगवद्दर्शनोद्भूतसुखैकरससेविनः १२३
नरनारायणाद्याश्च श्वेतद्वीपे वसंति ये
तेषां संदर्शनार्थाय तत्र संनिहितो हरिः १२४
शुभ्रांशुकोटिसंकाशे नानारत्नमयोज्ज्वले
श्वेतद्वीपे महायोगि सेविते भयवर्जिते १२५
तत्रोद्यानानि रम्याणि पारिजातसमानि वै
संतानकलताकीर्णं चन्दनद्रुममंडितम् १२६
फुल्लपद्मोत्पलोपेतं नानातोयालयैर्युतम्
तन्मध्ये नगरी रम्या नाम्ना चैरावती शुभा १२७
नानारत्नमयैर्दिव्यैर्विमानैरुपशोभिता
दिव्यस्त्रीपुंभिराक्रांता बहुप्रासादसंकुला १२८
तन्मध्येऽन्तपुरं रम्यं रत्नद्रुमसमाकुलम्
बालसूर्यनिभैस्तुंगैः प्रासादैर्बहुभिर्वृतम् १२९
तन्मध्ये मंडपं दिव्यं मणिकांचनशोभितम्
चंदनागुरुकर्पूरकुंकुमामोदवाशितम् १३०
नानाकुसुमशोभाढ्यैर्वितानैः समलंकृतम्
दिव्याप्सरः समाकीर्णं सामगानोपशोभितम् १३१
मध्ये सिंहासनं तत्र सूर्यवैश्वानरप्रभम्
तन्मध्येऽष्टदलं पद्मं चंद्रबिंबमिवापरम् १३२
तन्मध्ये कर्णिकायां तु समासीनो जनार्दनः
शुद्धजांबूनदप्रख्यो मुक्ताहारविभूषितः १३३
शंखचक्रगदापद्मशक्तिहस्तचतुष्टयः
हारकेयूरकटकैरंगुलीयैश्च शोभितः १३४
सुवर्णपंकजप्रख्यः पदयुग्मविराजितः
संतानकनिभैः शुभ्रैर्नखपंक्तिविराजितः १३५
षोडशाब्दवयो रूपयौवनेन विराजितः
विशालभालदेशे तु कुंकुमेन सुगंधिना १३६
रचितेनोर्ध्वपुंड्रेण सीमंतेनोपशोभितः
मथितामृतफेनाभ शुक्लवस्त्रसुवेष्टितः १३७
मुक्तामयाभ्यां शुभ्राभ्यां कुंडलाभ्यां विराजितः
पद्मासनसमासीनो जगन्मोहनविग्रहः १३८
वामांके संस्थिता देवी तस्य दिव्यस्वरूपिणी
तस्यैव सदृशी लक्ष्मीः शीलसुष्टुगुणादिभिः १३९
पद्मकिंजल्कसंकाशा यौवनारंभशोभिता
सर्वलक्षणसंपन्ना तप्तकांचनभूषणा १४०
दिव्यस्रग्वसनोपेता नीलकुंचितमूर्धजा
चतुर्भुजैर्विराजंती केयूराङ्गदभूषिता १४१
मुक्ताहारैर्विराजंती मंदारांचितशीर्षजा
श्लक्ष्णनासापुटयुता लसद्दंतिवरा जिता १४२
कस्तूरीतिलकोपेता नासाग्रांचित मौक्तिका
स्वर्णकुंभसमप्रख्य पीनोन्नतपयोधरा १४३
दिव्यकुंकुमलिप्तांगी पद्ममालोपशोभिता
वस्त्रपात्रं मातुलिड्गं दर्पणं हेमपंकजम् १४४
करपद्मधृता देवी चेतसाभीष्टदायिनी
तस्यैताः सदृशास्तत्र शक्तयः परितो हरेः १४५
ईशावास्या महादेवी जाह्नवी कमलालया
सावित्री सर्वगा पद्मा शक्तयः परिकीर्तिताः १४६
श्रद्धा मेधा धृतिः प्रज्ञा धारणा शांतिरेव च
श्रुतिस्मृतिर्धृतिर्मेधा वृद्धिर्बुद्धिर्मनीषिणी १४७
दास्यस्ते ताः श्रियः प्रोक्ताः सर्वकार्यस्य कारिकाः
अनंतवैनतेयादि देवता नित्यकिंकराः १४८
साध्या मरुद्गणाश्चैव सेवंते नित्यदेवताः
प्रासादेषु विमानेषु वनेषु नगरेषु च १४९
तत्प्रसादोपलब्धेषु भोगेष्वत्रानुरंजिताः
क्रीडंती सततं नित्या हेयनिष्फलवर्जिताः १५०
ये विष्णुमंत्रजप्तारः सततं श्रद्धयान्विताः
ये द्वादशीव्रते युक्तास्तत्पदं यांति तेऽव्ययम् १५१
न वेदैर्न च दानैश्च न यज्ञैर्न व्रतैरपि
प्राप्तुं च शक्यं गिरिजे विष्णुलोकं सनातनम् १५२
भक्त्या चानन्यया प्राप्तुं शक्यं विष्णुपदं नृणाम्
तस्मात्संपूजयेन्नित्यं भक्त्या देवं जनार्दनम् १५३
कीर्तनं नाममात्रं च ध्यायन्मंत्रं जपेत्सदा
जुहुयात्तर्पयेद्भक्त्या सर्वगं सर्वकामदम् १५४
एवमुक्तं तृतीयं तु व्यूहं तु परमात्मनः
स्वरूपं तव सुश्रोणि यथाप्रोक्तं पुरातनैः १५५
अतः परं प्रवक्ष्यामि चतुर्थं व्यूहमुत्तमम्
दिवौकसां रक्षणार्थं दुग्धाब्धौ परमेश्वरः १५६
सुधांशुकोटिसंकाशः सहस्राक्षेण शोभिते
पुरंदरसयूथैस्तु च्छादिते दुग्धवारिधौ १५७
तस्मिन्ननंतपर्यंके शेतेऽसौ विस्तृते शुभे
दिव्यासनसमासीनः पद्मनाभोऽच्युतो हरिः १५८
नीलजीमूतसंकाशः पद्मपत्रायतेक्षणः
विवस्वत्कोटिसंकाश किरीटेन विराजितः १५९
नानारत्नोज्ज्वलद्दिव्यं कुंडलाभ्यां विराजितः
बालार्कसदृशज्योत्स्ना पीतवस्त्रेण वेष्टितः १६०
स्फुरद्रक्तारविंदाभ हस्तांघ्रितलशोभितः
हारकेयूरकटकैरंगुलीयैर्विराजितः १६१
शंखचक्रगदाशार्ङ्गखड्गहस्तैर्विभूषितः
सुपुष्पफलशाखाढ्यकल्पवृक्षैर्विराजितः १६२
विश्वस्य जन्ममरण नाभिपंकजशोभितः
हरिचंदनलिप्तांगः सर्वाभरणभूषितः १६३
मंदारपारिजातादि दिव्यपुष्पैर्मनोरमैः
सुस्निग्धनीलकुटिलकबरीकृतकेशवान् १६४
श्लक्ष्णोन्नतसुनासांस जानुयुग्मविराजितः
मणिविद्रुमशाखाढ्य नूपुराङ्घ्रिविराजितः १६५
अकलंकितचंद्राभ नखपंक्तिविराजितः
अशोकपुष्पसंकाश रक्तोष्ठमुखपंकजः १६६
अनर्घ्यमुक्तिकाभास दंतपंक्तिविराजितः
संपूर्णचंद्रप्रतिम स्मितवक्त्रसुशोभितः १६७
आरूढयौवनः श्रीमान्कोमलावयवोज्ज्वलः
शरण्यः सर्वलोकानां सर्वलोकफलप्रदः १६८
सदृशी तस्य देवी तु रूपशीलगुणादिभिः
तप्तकांचनसंकाशा तप्तकांचनभूषणा १६९
तरुणी रूपलावण्या कान्तिशीलगुणान्विता
दुग्धाब्धिफेनसंकाश शुभवस्त्रेण वेष्टिता १७०
मंदारकेतकी जाती पुष्पार्चितशिरोरुहा
कस्तूरीतिलकोपेता रत्नसीमंतशोभिता १७१
नानावर्णसुशोभाढ्या कर्णभूषणभूषिता
प्रवालसदृशज्योत्स्ना रक्तधारसुविस्मिता १७२
मत्तभृङ्गोपमैः स्निग्धैरलकैः सुविराजिता
तनुमध्या विशालाक्षी पीनोन्नतपयोधरा १७३
चतुर्हस्तैर्विराजंती सर्वाभरणभूषिता
उद्बाहुभ्यां धृता देवी हेमपद्मयुगं शुभम् १७४
इतराभ्यां समाश्लिष्य भर्तारं निबिडं स्थिता
आलोकयंती सततं त्रिदशांश्च कटाक्षकै १७५
निरीक्षितास्तया देव्या धन्यास्ते सततं शिवे
तत्र देवा विमानस्थाः सिद्धचारणकिन्नराः १७६
गायंति सततं देवीमानंदाश्रुपरिप्लुताः
दैतेयैर्बाध्यमानैस्तु ब्रह्मरुद्रादिभिः सुरैः १७७
संस्तूयमानस्तत्रेशो देवानामभयं ददौ
देवानामभयं दत्त्वा सर्वदेवेश्वरो हरिः १७८
राक्षसान्हंतुमारेभे जगत्संरक्षणाय वै
एवं चतुर्थं व्यूहं तु हरेः प्रोक्तं तवानघे १७९
किमन्यच्छ्रोतुकामासीत्तद्ब्रवीमि वरानने
धन्यासि कृतकृत्यासि भक्तासि पुरुषोत्तमे १८०
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे विष्णुव्यूहभेद
वर्णनंनाम एकोनत्रिंशदधिकद्विशततमोऽध्यायः २२९