पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २२८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २२७ पद्मपुराणम्
अध्यायः २२८
वेदव्यासः
अध्यायः २२९ →

श्रीमहादेव उवाच-
त्रिपाद्विभूतेर्लोकास्तु असंख्याताः प्रकीर्तिताः
शुद्धसत्वमयाः सर्वे ब्रह्मानंदसुखाह्वयाः १
सर्वे नित्या निर्विकारा हेयरागादिवर्जिताः
सर्वे हिरण्मयाश्शुद्धाः कोटिसूर्य्यसमप्रभाः २
सर्वे वेदमयार्दिव्याः काम क्रोधविवर्जिताः
नारायणपदांभोज भक्त्येकरससेविताः ३
निरंतरं सामगानपरिपूर्णसुखं श्रिताः
सर्वे पंचोपनिषद स्वरूपा वेदवर्चसः ४
सर्वे वेदमयैर्दिव्यैःपुरुषैः स्त्रीभिरावृताः
वेदैकरसतोयाढ्यैस्सरोभिरुपशोभिताः ५
श्रुतिस्मृतिपुराणादि रूपस्थावरसंयुताः
सर्वं वर्णयितुं शक्यं न मया लोकविस्तृतम् ६
विरजा परमव्योम्नोरंतरंकेवलं स्मृतम्
तत्स्थानमुपभोक्तव्यमव्यक्तब्रह्मसेविनाम् ७
स्वात्मानुभवजानंदसुखदं केवलं पदम्
निःश्रेयसं च निर्वाणं कैवल्यं मोक्ष उच्यते ८
श्रीशांघ्रिभक्तिसेवैकरसभोगविवर्धिताः तम्
तदिच्छन्त्यल्पमतयो मोक्षं सुखविवर्जितम्
महात्मानो महाभागा भगवत्पादसेवकाः ९
तद्विष्णोः परमं धाम यांति ब्रह्मसुखप्रदम्
नानाजनपदाकीर्णं वैकुंठं तद्धरेः पदम् १०
प्राकारैश्च विमानैश्च सौधैरत्नमयैर्वृतम्
तन्मध्ये नगरी दिव्या साऽयोध्येति प्रकीर्तिता ११
मणिकांचनचित्राढ्य प्राकारैस्तोरणैर्वृता
चतुर्द्वारसमायुक्ता रत्नगोपुरसंवृता १२
चंडादिद्वारपालैश्च कुमुदाद्यैश्च रक्षिता
चंडप्रचंडौ प्राग्द्वार याम्ये भद्रसुभद्रकौ १३
वारुण्यां जयविजयौ सौम्ये धातृविधातरौ
कुमुदः कुमुदाक्षश्च पुंडरीकोऽथ वामनः १४
शंकुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः
एते दिक्पतयः प्रोक्ताः पुर्य्यामत्र शुभानने १५
कोटिवैश्वानरप्रख्य गृहपंक्तिभिरावृता
आरूढयौवनैर्नित्यैर्दिव्यनारीनरैर्युता १६
अन्तःपुरं तु देवस्य मध्ये पुर्याम्मनोहरम्
मणिप्राकारसंयुक्तं रत्नतोरणशोभितम् १७
विमानैर्गृहमुख्यैश्च प्रासादैर्बहुभिर्युतम्
दिव्याप्सरोगणैः स्त्रीभिस्सर्वतस्समलंकृतम् १८
मध्ये तु मंडपं दिव्यं राजस्थानं महोच्छ्रयम्
माणिक्यस्तंभसाहस्रजुष्टं रत्नमयं शुभम् १९
दिव्यैर्मुक्तैः समाकीर्णं सामगानोपशोभितम्
मध्ये सिंहासनं रम्यं सर्ववेदमयं शुभम् २०
धर्मादिदैवतैर्नित्यैर्वृंतवैदमयात्मकैः
धर्म्मज्ञानमहैश्वर्यवैराग्यैः पादविग्रहैः २१
ऋग्यजुःसामचाथर्वैरूपैर्नित्यं वृतं क्रमात्
शक्तिराधारशक्तिश्च चिच्छक्तिश्च सदाशिवा २२
धर्मादिदेवतानां च शक्तयः परिकीर्तिताः
वसंति मध्यमे तत्र वह्निसूर्यसुधांशवः २३
कूर्मश्च नागराजश्च वैनतेयस्त्रयीश्वरः
छंदासि सर्वमंत्राश्च पीठरूपत्वमास्थिताः २४
सर्वाक्षरमयं दिव्यं योगपीठमिति स्मृतम्
तन्मध्येऽष्टदलं पद्ममुदयार्कसमप्रभम् २५
तन्मध्ये कर्णिकायां तु सावित्र्यां शुभदर्शने
ईश्वर्य्या सह देवेशस्तत्रासीनः परः पुमान् २६
इंदीवरदलश्यामः कोटिसूर्यप्रकाशवान्
युवाकुमारः स्निग्धश्च कोमलावयवैर्वृतः २७
फुल्लरक्तांबुजनिभः कोमलांघ्रिसरोजवान्
प्रबुद्धः पुंडरीकाक्षः सुभ्रू लतायुगाङ्कितः २८
सुनासस्सुकपोलाढ्यस्सुश्रोत्रमुखपंकजः
मुक्ताफलाभदन्ताढ्यः सस्मिताधरविद्रुमः २९
परिपूर्णेदुसंकाशः सुस्मिताननपंकजः
तरुणादित्यवर्णाभ्यां कुंडलाभ्यां विराजितः ३०
सस्निग्धनीलकुटिलकुन्तलैरुपशोभितः
मन्दारपारिजाताढ्य कबरीकृतकेशवान् ३१
प्रातरुद्यत्सहस्रांशुनिभकौस्तुभशोभितः
हारस्वर्णस्रगासक्त कम्बुग्रीवो विराजितः ३२
सिंहस्कंधनिभैः प्रोच्चैः पीनैरंसैर्विराजितः
पीनवृत्तायतभुजैश्चतुर्भिरुपशोभितः ३३
अङ्गुलीयैश्च कटकैः केयूरैः परिमण्डितः
बालार्ककोटिसंकाशैः कौस्तुभाद्यैः सुभूषणैः ३४
विराजितमहावक्षो वनमालाविभूषितः
विधातृजननस्थान नाभिपङ्कजशोभितः ३५
बालातपनिभश्लक्ष्ण पीतवस्त्रसमन्वितः
नानारत्नविचित्रांघ्रिः कटकाभ्यां विराजितः ३६
सज्योत्स्नचंद्रप्रतिम नखपंक्तिसमन्वितः
कोटिकंदर्पलावण्य सौंदर्य्यनिधिरच्युतः ३७
दिव्यचंदनलिप्तांगो दिव्यमालाविभूषितः
गृहीतशंखचक्राभ्यामुद्बाहुभ्यां विराजितः ३८
वरदाभयहस्ताभ्यामितराभ्यां तथैव च
वामाङ्के संस्थिता देवी महालक्ष्मीर्महेश्वरी ३९
हिरण्यवर्णा हरिणी सुवर्णरजतस्रजा
सर्वलक्षणसंपन्ना यौवनारंभविग्रहा ४०
रत्नकुंडलसंयुक्ता नीला कुंचितशीर्षजा
दिव्यचंदनलिप्तांगी दिव्यपुष्पोपशोभिता ४१
मंदारकेतकी जाती पुष्पाञ्चितसुकुंतला
सुभ्रूस्सुनासा सुश्रोणी पीनोन्नतपयोधरा ४२
परिपूंर्णेंदुसंकाशा सुस्मिताननपंकजा
तरुणादित्यवर्णाभ्यां कुंडलाभ्यां विराजिता ४३
तप्तकांचनवर्णाभा तप्तकांचनभूषणा
हस्तैश्चतुर्भिः संयुक्ता कनकांबुजभूषिता ४४
नानाविचित्ररत्नाढ्या कनकांबुजमालया
हारकेयूरकटकैरंगुलीयैश्च शोभिता ४५
भुजद्वयघृतोदग्र पद्मयुग्मोपशोभिता
गृहीतमातुलुंगाख्य जांबूनदकराञ्चिता ४६
एवं नित्यानपायिन्या महालक्ष्म्या महेश्वरः
मोदते परमे व्योम्नि शाश्वते सर्वदा प्रभुः ४७
पार्श्वयोर्धरणी नीले समासीने शुभासने
अष्टदिक्षु दलाग्रेषु विमलाद्याश्च शक्तयः ४८
विमलोत्कर्षिणी ज्ञानाक्रियायोगा तथैव च
प्रह्वी सत्या तथेशाना शक्तयः परमात्मनः ४९
गृहीत्वा चामरान्दिव्यान्सुधाकरसमप्रभान्
सर्वलक्षणसंपन्ना मोदंते पतिमच्युतम् ५०
दिव्याप्सरोगणाः पंच शतसंख्याश्च योषितः
अंतःपुरनिवासिन्यः सर्वाभरणभूषिताः ५१
पद्महस्ताश्च ताः सर्वाः कोटिवैश्वानरप्रभाः
सर्वलक्षणसंपन्नाः शीतांशुसदृशाननाः ५२
ताभिः परिवृतो राजा शुशुभे परमः पुमान्
अनंतविहगाधीश सेनान्याद्यैस्सुरेश्वरे ५३
अन्यैः परिजनैर्नित्यैर्मुक्तैश्च परिसंवृतः
मोदते रमया सार्द्धं भोगैश्वर्यरतः पुमान् ५४
एवं वैकुंठनाथोऽसौ राजते परमे पदे
तद्व्यूहभेदाँल्लोकांश्च वक्ष्यामि गिरिजे शुभे ५५
प्राच्यां वैकुंठलोकस्य वासुदेवस्य मंदिरम्
आग्नेय्यां लक्ष्म्यालोकस्तु याम्यां संकर्षणालयः ५६
सारस्वतस्तु नैरृत्या प्राद्युम्नः पश्चिमे तथा
रतिलोकस्तु वायव्यामुदीच्यामनिरुद्धभूः ५७
ऐशान्यां शांतिलोकः स्यात्प्रथमावरणं स्मृतम्
केशवादिचतुर्विंशत्यमी लोकास्ततः क्रमात् ५८
द्वितीयावरणं प्रोक्तं वैकुंठस्य शुभाह्वयम्
मत्स्यकूर्मादिलोकास्तु तृतीयावरणं शुभम् ५९
सत्याच्युतानंत दुर्गा विष्वक्सेन गजाननाः
शंखपद्मनिधीलोकाश्चतुर्थावरणं शुभम् ६०
ऋग्यजुः सामाथर्वाणो लोका दिक्षु महत्सु च
सावित्र्या विहगेशस्य धर्मस्य च मखस्य च ६१
पंचमावरणं प्रोक्तमक्षयं सर्ववाङ्मयम्
शंखचक्रगदापद्मखड्गशार्ङ्गहलं तथा ६२
मौशलं च तथा लोकाः सर्वशस्त्रास्त्रसंयुताः
षष्ठमावरणं प्रोक्तं मंत्रास्त्रमयमक्षरम् ६३
ऐंद्र पावकयाम्यानि नैरृतं वारुणं तथा
वायव्यं सौम्यमैशानं सप्तमं मुनिभिः स्मृतम् ६४
साध्या मरुद्गणाश्चैव विश्वेदेवास्तथैव च
नित्याः सर्वे परे धाम्नि ये चान्ये च दिवौकसः ६५
ते वै प्राकृतलोकेस्मिन्न नित्यास्त्रिदशेश्वराः
ते ह नाकं महिमानः सचंत इति वै श्रुतिः ६६
एवं परं पदं नित्यैर्मुक्तैर्भोगपरायणैः
दिव्याभिर्महिषीभिश्च राजते विभुरीश्वरः ६७
न तद्भासयते सूर्यो न शंशांको न पावकः
यद्गत्वा न निवर्त्तंते योगिनः संशितव्रताः ६८
द्वयैकमंत्रनिष्ठा ये ते वै यांति तदव्ययम्
न वेदयज्ञाध्ययनैर्न दानैर्न व्रतैः शुभैः ६९
न तपोभिर्निराहारैर्न च साधनकर्मभिः
एकेन द्वयमंत्रेण तथा भक्त्या त्वनन्यथा ७०
तद्गम्यं शाश्वतं स्थानं प्रपत्त्या वै सनातनम्
पार्वत्युवाच-
साधूक्तं परमं स्वर्गस्वरूपं भवता प्रभो ७१
परव्योम्नि स्थितो नित्यं कथं प्रकृतिमण्डले
स्थितवान्किं निमित्तेन लीलया किं प्रयोजनम् ७२
शुद्धसत्वमये लोके संस्थितः परमेश्वरः
कथं रजस्तमोमिश्र विभूत्या स्थिवान्प्रभुः ७३
रुद्र उवाच-
त्रिपाद्विभूतौ भगवानीश्वर्य्या परमेश्वरः
नित्यमुक्त्यैकभोग्योऽसौ मोदते सततं विभुः ७४
तमीश्वरं महामाया प्रकृतिर्जगदाश्रया
कृतांजलिपुटा भूत्वा तुष्टाव परमेश्वरम् ७५
महामायोवाच-
नमस्ते त्रिजगद्धाम्ने नमस्ते विश्वरूपिणे
पुराणाय नमस्तुभ्यं जगदुत्पत्तिहेतवे ७६
श्रीभूलीलाधिपतये नमो नारायणाय च
नमो भगवते तुभ्यं वासुदेवाय शार्ङ्गिणे ७७
सर्वदेवस्वरूपाय विष्णवे जिष्णवे नमः
सहस्रमूर्तये तुभ्यमनंताय नमोस्तु ते ७८
अच्युताय विकाराय शुद्धसत्त्वस्वरूपिणे
अदिमध्यांतरहित स्वरूपाय नमो नमः ७९
नमो हिरण्यगर्भाय ज्ञानाय परमात्मने
सर्वभूतात्मने तुभ्यं सर्वभूताश्रयाय च ८०
ब्रह्मणे ज्योतिषे तुभ्यं नमस्ते विश्वरूपिणे
नमः शुचिषदे तुभ्यं हंसाय परमाय च ८१
संकर्षणाय रुद्राय सर्वभूतधराय च
हयग्रीवाय दीप्ताय कालाय हरये नमः
नमस्ते यज्ञपुरुष हव्यकव्यस्वरूपिणे ८२
नमः प्रजापतये तस्मै सूर्याय शुभवर्चसे
अग्नये हव्यभोक्त्रे च तस्मै यज्ञात्मने नमः ८३
नमस्ते प्रसवित्रे च सर्गस्थित्यंतहेतवे
नमो वेदांतवेद्याय चतुरात्मस्वरूपिणे ८४
ब्रह्मणे विष्णवे तुभ्यं नमस्ते शंकाराय च
त्रिगुणाय नमस्तुभ्यं सर्गस्थित्यंतहेतवे ८५
निर्गुणाय नमस्तुभ्यं सर्वात्मान्तरवर्तिने
अव्यक्ताय नमस्तस्मै विष्णवे लोकसाक्षिणे ८६
नारायणाय श्रीशाय पूर्णषाड्गुण्यमूर्त्तये
अनंतगुणपूर्णाय नमः सर्वार्थदायिने ८७
नमस्ते वासुदेवाय पंचावस्थस्वरूपिणे
नमः पंचनवव्यूह भेदरूपाय ते नमः ८८
नमो यज्ञवराहाय गोविंदाय नमो नमः
अविकाराय शुद्धाय हेयप्रतिभटाय च ८९
नमो रामाय कृष्णाय नरसिंहाय ते नमः
केशवाय नमस्तुभ्यं जगतां क्लेशहारिणे ९०
त्वमेव सर्वलोकानामाश्रयः पुरुषोत्तमः
प्रसीद देवदेवेश सर्वलोकहिताय वै ९१
मत्संस्थाश्चेतनास्सर्वे निराधारा निराश्रयाः
हीनदेहा निराकाराः सर्वेन्द्रियविवर्जिताः ९२
सर्वानुष्ठानरहिताः सततं दुःखभोगिनः
तेषां लोकांश्च देहांश्च दातुमर्हसि केशव ९३
लीलाविभूतिं सर्वज्ञ यथापूर्वं प्रकल्पय
चेतनाचेतनं कृत्स्नं जगत्स्थावरजंगमम् ९४
मया संमोहितं पश्य लीलार्थंपरमेश्वर
प्राकृताण्डं मया सार्धं सृजस्व पुरुषोत्तम ९५
धर्म्माधर्म्मौ सुखं दुःखं तस्मिन्निक्षिप्य संसृतौ
मामधिष्ठाय लीलां वै कर्तुमर्हसि मा चिरम् ९६
श्रीमहादेव उवाच-
एवमुक्तस्तया देव्या मायया परमेश्वरः
तस्यां निवेश्य मायायां जगत्स्रष्टुं प्रचक्रमे ९७
योऽसौ प्रकृतिपुरुषः प्रोच्यते स इहाच्युतः
स एव भगवान्विष्णुः प्रकृत्यां प्रविवेश ह ९८
असृजत्प्रकृतौ ब्रह्मभूतादिमहदाश्रयम्
महतः पुरुषादस्मादहंकारोऽभ्यजायत ९९
अहंकारात्तु वै तस्माद्गुणत्रयमजायत
त्रिभ्यो गुणेभ्यस्तन्मात्रामसृजद्विश्वभावनः १००
तन्मात्रेभ्योभ्यजायंत महाभूतानि तत्क्षणात्
ॐकारः प्रथमं जातो ब्रह्मणस्त्रिगुणात्मनः १०१
आकाशादभवद्वायुर्वायोरग्निरजायत
अग्नेरापः समुद्भूता अद्भ्यश्च पृथिवी मता १०२
आकाशादीनि भूतानि सृष्टान्येकोत्तराणि वै
शब्दस्पर्शश्च रूपं च रसो गंधश्च तद्गुणाः १०३
एकोत्तरगुणान्सृष्ट्वा तानादाय महाप्रभुः
तेषां विमिश्रणं कृत्वा जगदंडं महत्तरम्
असृजत्तत्रलान्वै संख्यया ये चतुर्दश १०४
ब्रह्मादित्रिदशांस्तस्मिन्नसृजत्पुरुषोत्तमः
दैवतिर्य्यक्तथा मर्त्यं स्थावरं च चतुर्व्विधम् १०५
तथा सृष्टो महासर्गन्तेन वै जलजेक्षणे
तत्र कर्मानुरूपेण त्रिदशादिषु योनिषु १०६
संस्थिताः प्रकृतौ पूर्व आत्मनः प्रभवंति हि १०७
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे परमव्योमादिवर्णनंनाम अष्टाविंशत्यधिकद्विशततमोऽध्यायः २२८