पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २२७
← अध्यायः २२६ | पद्मपुराणम् अध्यायः २२७ वेदव्यासः |
अध्यायः २२८ → |
पार्वत्युवाच-
विस्तरेण मयाचक्ष्व मंत्रार्थपदगौरवम् ।
ईश्वरस्य स्वरूपं च तद्विभूतिगुणांस्तथा १।
तद्विष्णोः परमं धामव्यूहभेदांस्तथा हरेः ।
सर्वमाख्याहि तत्त्वेन मम सर्वसुरेश्वर २।
ईश्वर उवाच-
शृणु देवि प्रवक्ष्यामि स्वरूपं परमात्मनः ।
विभूतिगुणसंघातं तदवस्थात्मकं हरेः ३।
यः परः पुरुषो विष्णुर्नारायण उदाहृतः ।
स ईश्वरश्च जगतां परमात्मा सनातनः ४।
विश्वतः पाणिपादश्च चक्षुष्मान्विश्वतः प्रभुः ।
विश्वानि भुवनान्यस्मिन्धामानि परमाणि वै ५।
धारयन्सोऽप्यत्यतिष्ठेन्मनांसि च मनीषिणाम् ।
एवं बहुस्वरूपः सञ्छ्रीपतिः पुरुषोत्तमः ।
ईश्वरर्य्या सहभोगार्थं दिव्यमंगलरूपवान् ६।
बृहच्छरीरोऽग्निसमानरूपो युवा कुमारत्वमुपेयिवान्हरिः ।
रेमे श्रियासौ जगतां जनन्या स्वज्योत्स्नया चंद्रइवामृतांशुः ७।
अयं च जगदीश्वर्य्या कुमारो नित्ययौवनः ।
कंदर्प्पकोटिलावण्यः स तस्थे परमे पदे ८।
भोगार्थं परमं व्योम लीलार्थमखिलं जगत् ।
भोगेन क्रीडया विष्णोर्विभूतिद्वयसंस्थितिः ९।
भोगे नित्यस्थितिस्तस्य लीलां संहरते कदा ।
भोगो लीला उभौस्तस्य धार्य्येते शक्तिमत्तया १०।
त्रिपाद्व्याप्तिः परे धाम्नि पादोस्येहाभवत्पुनः ।
त्रिपाद्विभूतिर्नित्या स्यादनित्यं पादमैश्वरम् ११।
नित्यं तद्रूपमीशस्य परे धाम्नि स्थितं शुभम् ।
अच्युतं शाश्वतं दिव्यं सदा यौवनमाश्रितम् १२।
नित्यं संभोगमीश्वर्या श्रिया भूम्या च संवृतम् ।
नित्यैवेषा जगन्माता विष्णोः श्रीरनपायिनी १३।
यथा सर्वगतो विष्णुस्तथा लक्ष्मीश्शुभानने ।
ईशाना सर्वजगतो विष्णुपत्नी सदा शिवा १४।
सर्वतः पाणिपादांता सर्वतोऽक्षिशिरोमुखी ।
नारायणी जगन्माता समस्तजगदाश्रया १५।
यदपाङ्गाश्रितं सर्वं जगत्स्थावरजङ्गमम् ।
जगत्स्थितिलयौ यस्या उन्मीलननिमीलनात् १६।
सर्वस्याद्या महालक्ष्मीस्त्रिगुणा परमेश्वरी ।
लक्ष्यालक्ष्यस्वरूपा सा व्याप्य कृत्स्नं व्यवस्थिता १७।
शून्यं तदखिलं विश्वं विलोक्य परमेश्वरी ।
शून्यं तदखिलं स्वेन पूरयामास तेजसा १८।
सा लक्ष्मीर्धरणी चैव नीलादेवीति विश्रुता ।
आधारभूता जगतः पृथिवीरूपमाश्रिता १९।
तोयादिरसरूपेण सैव नीलावपुर्भवेत् ।
लक्ष्मीरूपत्वमापन्ना धनवाग्रूपिणी हि सा २०।
एवं देवीस्वरूपा सा जगतः श्रीः श्रीताहरिम् ।
समस्तविद्याभेदा स्युर्लक्ष्मीरूपा वरानने २१।
श्रीरूपमखिलं सर्वं तस्या हि वपुरुच्यते ।
सौंदर्यं शीलवृत्तं च सौभाग्यं स्त्रीषु संस्थितम् ।
तस्या रूपं च गिरिजे सर्वासां मूर्ध्नि योषिताम् २२।
यस्याः कटाक्षाय तमोग्रदृष्ट्या ब्रह्माशिवस्स्वर्गपतिर्महेंद्रः ।
चंद्रश्च सूर्यो धनदोपमोग्निः प्रभूतमैश्वर्यमवाप्नुवंति २३।
लक्ष्मीः श्रीः कमला विद्या माता विष्णुप्रिया सती ।
पद्मालया पद्महस्ता पद्माक्षी लोकसुंदरी २४।
भूतानामीश्वरी नित्या सह्या सर्वगता शुभा ।
विष्णुपत्नी महादेवी क्षीरोदतनया रमा २५।
अनंता लोकमाता भूर्नीला सर्वसुखप्रदा ।
रुक्मिणी च तथा सीता सर्ववेदवती शुभा २६।
सती सरस्वती गौरी शांतिः स्वाहा स्वधा रतिः ।
नारायणी वरारोहा विष्णोर्नित्यानपायिनी २७।
एतानि पुण्यनामानि प्रातरुत्थाय यः पठेत् ।
स महाश्रियमाप्नोति धनधान्यमकल्मषम् २८।
हिरण्यवर्णां हरिणीं सुवर्णरजतः स्रजाम् ।
चंद्रां हिरण्मयीं लक्ष्मीं विष्णोरनपगामिनीम् २९।
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ३०।
एवं ऋक्संहितायां तु स्तूयमाना महेश्वरी ।
सर्वैश्वर्यसुखं प्रादाच्छिवादीनां दिवौकसाम् ३१।
अस्येशाना हि जगतो विष्णुपत्नी सनातनी ।
यदपाङ्गाश्रितं सर्वं जगत्स्थावरजंगमम् ३२।
यस्य वक्षसि सा देवी प्रभाग्नाविव तिष्ठति ।
स वै सर्वेश्वरः साक्षादक्षरः पुरुषोऽव्ययः ३३।
स वै नारायणः श्रीमान्वात्सल्यगुणसागरः ।
स्वामी सुशीलः सुभगः सर्वज्ञः सर्वशक्तिमान् ३४।
नित्यं संपूर्णकामश्च नैसर्गिकसुहृत्सखा ।
कृपापीयूषजलधिः शरणं सर्वदेहिनाम् ३५।
स्वर्गापवर्गसुखदो भक्तानां करुणाकरः ।
श्रीमते विष्णवे तस्मै दास्यं सर्वं करोम्यहम् ३६।
देशकालाद्यवस्था तु सर्वासु कमलापतेः ।
इति स्वरूपं संसिद्धं सुखं दास्यमवाप्नुयात् ३७।
एवं विदित्वा मंत्रार्थं तद्भक्तिं सम्यगाचरेत् ।
दासभूतमिदं तस्य जगत्स्थावरजंगमम् ३८।
श्रीमन्नारायणः स्वामी जगतां प्रभुरीश्वरः ।
माता पिता सुतो बंधुर्निवासः शरणं गतिः ३९।
कल्याणगुणवान्श्रीशः सर्वकामफलप्रदः ।
योऽसौ निर्गुण इत्युक्तः शास्त्रेषु जगदीश्वरः ४०।
प्राकृतैर्हेयसंयुक्तैर्गुणैर्हीनत्वमुच्यते ।
यत्र मिथ्या प्रपञ्चत्वं वाक्यैर्वेदांतगोचरैः ४१।
दृश्यमानमिदं सर्वमनित्यमिति चोच्यते ।
अत्रापि प्राकृतं रूपमण्डस्यैव विनाशनम् ४२।
प्राकृतानां हि रूपाणामनित्यत्वं तथोच्यते ।
इममर्थं महादेवि प्रकृतेरुद्भवं हरेः ४३।
क्रीडार्थं देवदेवस्य विष्णोर्लीलाधिकारिणः ।
लोकैश्चतुर्भिर्दशभिः सागरैर्द्वीपसंयुतैः ४४।
भूतैश्चतुर्विधैश्चापि भूधरैश्च महोच्छ्रयैः ।
परिपूर्णमिदं रम्यमंडं प्रकृतिसंभवम् ४५।
दशोत्तरगुणोपेतं सप्तावरणसंवृतम् ।
कलाकाष्ठादिरूपेण यः कालं परिवर्तते ४६।
कालेनैव जगत्सर्गस्थितिसंहरणं भवेत् ।
चतुर्युगसहस्रं वै ब्रह्मणो दिवसो भवेत् ४७।
तावंति रात्रिवर्षाणि ब्रह्मणोऽव्यक्तजन्मनः ।
क्षये तु ब्रह्मणः प्राप्ते सर्वसंहारको भवेत् ४८।
अंडमंडगता लोका दह्यंते कालवह्निना ।
सर्वात्मानस्तथा विष्णोः प्रकृतौ विनिवेशिताः ४९।
अंडावरणभूतानि प्रकृतौ लयमाप्नुयुः ।
सा सर्वजगदाधारा प्रकृतिर्हरिसंश्रिता ५०।
तया जगत्सर्गलयौ करोति भगवान्सदा ।
क्रीडार्थं देवदेवेन सृष्टा माया जगन्मयी ५१।
अविद्या प्रकृतिर्माया गुणत्रयमयी सदा ।
सर्गस्थितिलयानां सा हेतुभूता सनातनी ५२।
योगनिद्रा महामाया प्रकृतिस्त्रिगुणान्विता ।
अव्यक्ता च प्रधानं च विष्णोर्लीलाविकारिणः ५३।
जगत्सर्गलयौ स्यातां प्रकृतेरेव सर्वदा ।
असंख्यप्रकृतेः स्थानं निबिडध्वान्तमव्ययम् ५४।
ऊर्ध्वं तु सीम्नि विरजा निस्सीमाधस्सनातनी ।
तयादृतं जगत्सर्वं स्थूलसूक्ष्माद्यवस्थया ५५।
विकाससंकोचावस्थे तस्यां सर्गलयौ स्मृतौ ।
एवं सर्वाणि भूतानि प्रकृत्यंतर्गतानि वै ५६।
ततः शून्यमिदं सर्वं प्रकृत्यंतर्गतं महत् ।
एवं प्रकृतिरूपाया विभूते रूपमुत्तमम् ५७।
त्रिपाद्विभूतिरूपं तु शृणु भूधरनंदिनि ।
प्रधान परमव्योम्नोरंतरे विरजा नदी ५८।
वेदांगस्वेदजनिततोयैः प्रस्राविता शुभा ।
तस्याः पारे परे व्योम्नि त्रिपाद्भूतिस्सनातनी ५९।
अमृतं शाश्वतं नित्यमनन्तं परमं पदम् ।
शुद्धं सत्वमयं दिव्यमक्षरं ब्रह्मणः पदम् ६०।
अनेककोटिसूर्याग्नि तुल्य वर्चसमव्ययम् ।
सर्ववेदमयं शुद्धं सर्गप्रलयवर्जितम् ६१।
असंख्यमजरं नित्यं जाग्रत्स्वप्नादिवर्जितम् ।
हिरण्मयं मोक्षपदं ब्रह्मानंदसुखावहम् ६२।
समानाधिक्यरहितमाद्यंतरहितं शुभम् ।
तेजसात्यद्भुतं रम्यं नित्यमानंदसागरम् ६३।
एवमादिगुणोपेतं तद्विष्णोः परमं पदम् ।
न तद्भासयते सूर्यो न शशांको न पावकः ६४।
यद्गत्वा न निवर्तंते तद्धाम परमं हरेः ।
तद्विष्णोः परमं धाम शाश्वतं नित्यमच्युतम् ।
न हि वर्णयितुं शक्यं कल्पकोटिशतैरपि ६५।
हरेः पदं वर्णयितुं न शक्यं मया च धात्रा च मुनींद्रसङ्घैः ।
यस्मिन्पदे ह्यच्युत ईश्वरो यः सो अङ्ग वेद यदि वा न वेद ६६।
यदक्षरं वेदगुह्यं यस्मिन्देवा अधि विश्वे निषेदुः ।
यस्तन्नो वेद किमृचा करिष्यति ये तद्विदुस्त इमे समासते ६७।
तद्विष्णोः परमं धाम सदा पश्यंति सूरयः ।
अक्षरं शाश्वतं दिव्यं देवि चक्षुरिवाततम् ६८।
तत्प्रवेष्टुमशक्यं च ब्रह्मरुद्रादिदैवतैः ।
ज्ञानेन शास्त्रमार्गेण वीक्ष्यते योगिपुंगवैः ६९।
अहं ब्रह्मा च देवाश्च न जानंति महर्षयः ।
सर्वोपनिषदामर्थं दृष्ट्वा वक्ष्यामि सुव्रते ७०।
विष्णोः पदे हि परमे पदे तत्सशुभाह्वयेः ।
यत्र गावो भूरिशृंगा आसते सुसुखाः प्रजाः ७१।
अत्राह तत्परं धाम गोपवेषस्य शार्ङ्गिणः ।
तद्भाति परमं धाम गोभिर्गोपैस्सुखाह्वयैः ७२।
आदित्यवर्णं तमसः परस्ताज्ज्योतिरच्युतम् ।
आधारो ब्रह्मणो लोकश्शुद्धसत्त्वस्सनातनः ७३।
सामान्या विभिते भूमिन्तेऽस्मिन्शाश्वते पदे ।
तस्थतुर्जागरूकेस्मिन्युवानौ श्रीसनातनौ ७४।
यतः स्वसारौ युवती भूनीले विष्णुवल्लभे ।
अत्र पूर्वे ये च साध्या विश्वेदेवास्सनातनाः ७५।
ते ह नाकं महिमानस्सचन्ते शुभदर्शनाः ।
तत्र विज्ञानिनो विप्रा जागृवांसस्समिन्धते ७६।
तत्पदं ज्ञानिनो विप्रा यांति संवासमिच्छवः ।
तद्विष्णोः परमं धाम मोक्ष इत्यभिधीयते ७७।
तस्मिन्बंधविनिर्मुक्ताः प्राप्नुवन्ति सुखं पदम् ।
तत्प्राप्य न निवर्तंते तस्मान्मोक्ष उदाहृतः ७८।
मोक्षं परं पदं दिव्यममृतं विष्णुमंदिरम् ।
अक्षरं परमं धाम वैकुण्ठं शाश्वतं पदम् ७९।
नित्यञ्च परमं व्योम सर्वोत्कृष्टं सनातनम् ।
पर्य्यायवाचकान्यस्य परधाम्नोच्युतस्य च ।
तस्य त्रिपाद्विभूतेस्तु रूपं वक्ष्यामि विस्तरात् ८०।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे त्रिपाद्विभूतिकथनंनाम सप्तविंशत्यधिकद्विशततमोऽध्यायः २२७ ।