पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०४०

विकिस्रोतः तः
← अध्यायः ०३९ पद्मपुराणम्
अध्यायः ०४०
वेदव्यासः
अध्यायः ०४१ →

युधिष्ठिर उवाच-
पौषस्य कृष्णपक्षे तु किं नामैकादशी भवेत् ।
किं नाम को विधिस्तस्या एतद्विस्तरतो वद ।
एतदाख्याहि भो स्वामिन्को देवस्तत्र पूज्यते १।
श्रीकृष्ण उवाच-
कथयिष्यामि राजेंद्र भवतः स्नेहबंधनात् ।
तुष्टिर्मे न तथा राजन्यज्ञैर्बहुलदक्षिणैः २।
यथा मे तुष्टिरायाति ह्येकादशीव्रतेन वै ।
तस्मात्सर्वप्रयत्नेन कर्त्तव्यो हरिवासरः ३।
सत्यमेतन्न वै मिथ्या धर्मिष्ठानां विशारद ।
पौषस्य कृष्णपक्षे या सफला नाम नामतः ४।
तस्यां नारायणं देवं पूजयेच्च यथाविधि ।
पूर्वेणैव विधानेन कर्त्तव्यैकादशी शुभा ५।
नागानां च यथा शेषो पक्षिणां पन्नगाशनः ।
देवानां च यथा विष्णुर्द्विपदानां यथा द्विजः ६।
व्रतानां च यथा राजन्श्रेष्ठा चैकादशी तिथिः ।
ते जनाश्चैव भो राजन्पूज्या वै सर्वदा मम ७।
हरिवासरसंलीनाः कुर्वंत्येकादशीव्रतम् ।
इहैव धनसंयुक्ता मृता मोक्षं लभंति ते ८।
सफलायां फलै राजन्पूजयेन्नामतो हरिम् ।
नारिकेलफलैश्चैव क्रमुकैर्बीजपूरकैः ९।
जंबीरैर्दाडिमैश्चैव तथा धात्रीफलैः शुभैः ।
लवंगैर्बदरीभिश्च तथाम्रैश्च विशेषतः १०।
पूजयेद्देवदेवेशं धूपदीपैस्तथैव च ।
सफलायां विशेषेण दीपदानं तु कारयेत् ११।
रात्रौ जागरणं चैव कर्त्तव्यं सह वैष्णवैः ।
यावन्निमेषो नेत्रस्य तावज्जागर्ति यो निशि १२।
एकाग्रमनसो राजन्तस्य पुण्यं शृणुष्व हि ।
तत्समो नास्ति यज्ञो वै तीर्थं वा तत्समं नहि १३।
सर्वव्रतानि राजेंद्र कलां नार्हंति षोडशीम् ।
एवं वर्षसहस्राणि तपसा नैव यत्फलम् १४।
तत्फलं समवाप्नोति यः करोति हि जागरम् ।
श्रूयतां राजशार्दूल सफलायाः कथा शुभा १५।
चंपावतीति विख्याता पुरी माहिष्मतस्य च ।
बभूवुस्तस्य राजर्षेः पुत्राः पंच कुमारकाः १६।
तेषां मध्ये तु ज्येष्ठो वै महापापरतः सदा ।
परदाराभिचारी च वेश्यासक्तश्च मद्यपः १७।
पितुर्द्रव्यं तु तेनैव गमितं पापकर्मणा ।
असद्वृत्तिरतो नित्यं भूसुराणां तु निंदकः १८।
वैष्णवानां च देवानां नित्यं निंदां करोति सः ।
ईदृशं तु ततो दृष्ट्वा पुत्रं माहिष्मतो नृपः १९।
नाम्ना तु लुंपक इति राजपुत्रेषु चापठत् ।
राज्यान्निष्कासितस्तेन पित्रा चैव तु बंधुभिः २०।
स चैवं परिवारैस्तु त्यक्तश्च परिपंथिवत् ।
लुंपकोऽपि तथा त्यक्तश्चिंतयामास वै तदा २१।
त्यक्तोऽहं बांधवैः पित्रा राज्यान्निष्कासितः किल ।
इति संचिंत्यमानोऽसौ मतिं पापे तदाकरोत् २२।
मया गंतव्यमेवास्तु दारुणे गहने वने ।
तस्माच्चैव पुरं सर्वं लुंपयिष्यामि वै पितुः २३।
इत्येवं स मतिं कृत्वा लुंपको दैवयोगतः ।
निर्जगाम पुरात्तस्माद्गतोऽसौ गहने वने २४।
जीवघातरतो नित्यं स्तेयद्यूतकलानिधिः ।
सर्वं च नगरं तेन मुषितं पापकर्मणा २५।
स्तेयाभिगामी नगरे गृहीतः स निशाचरैः ।
उवाच तान्सुतोऽहं वै राज्ञो माहिष्मतस्य च २६।
स तैर्मुक्तः पापकर्मा चागतो विपिनं पुनः ।
आमिषाभिरतो नित्यं तरोर्वै फलभक्षणे २७।
आश्रमस्तस्य दुष्टस्य वासुदेवस्य संनिधौ ।
अश्वत्थो वर्त्तते तत्र जीर्णश्च बहुवार्षिकः २८।
देवत्वं तस्य वृक्षस्य विपिने वर्तते महत् ।
तत्रैव निवसंश्चैव लुंपकः पापबुद्धिमान् २९।
गते बहुतिथे काले कस्यचित्पुण्यसंचयात् ।
पौषस्य कृष्णपक्षे तु दशम्यां दिवसे तथा ३०।
फलानि भुक्त्वा वृक्षाणां रात्रौ शीतेन पीडितः ।
लुंपको नाम पापिष्ठो वस्त्रहीनो गतेक्षणः ३१।
पीड्यमानोऽतिशीतेन हरिवृक्षसमीपतः ।
न निद्रा न सुखं तस्य गतप्राण इवाभवत् ३२।
आछाद्य दशनैरास्यमेवं नीता निशाखिला ।
भानूदयेऽपि पापिष्ठो न लेभे चेतनां तदा ३३।
लुंपको गतसंज्ञस्तु सफलाया दिने तथा ।
रवौ मध्यंगते चैव संज्ञां लेभे स लुंपकः ३४।
इतस्ततो विलोक्याथ व्यथितश्च तदासनात् ।
स्खलत्पद्भ्यां प्रचलितः खंजन्निव मुहुर्मुहुः ३५।
वनमध्ये गतस्तत्र क्षुत्क्षामः पीडितोऽभवत् ।
न शक्तिर्जीवघाते तु लुंपकस्य दुरात्मनः ३६।
फलानि च तदा राजन्नाजहार स लुंपकः ।
यावत्समागतस्तत्र तावदस्तं गतो रविः ३७।
किं भविष्यति तातेति स विलापं चकार ह ।
फलानि तत्र भूरीणि वृक्षमूले न्यवेशयत् ३८।
इत्युवाच फलैरेभिः श्रीपतिस्तुष्यतां हरिः ।
इत्युक्त्वा लुंपकश्चैव निद्रां लेभे न वै निशि ३९।
रात्रौ जागरणं मेने विष्णुस्तस्य दुरात्मनः ।
फलैस्तु पूजनं मेने सफलायास्तथानघ ४०।
अकस्माद्व्रतमेवैतत्कृतवान्वै स लुंपकः ।
तेन पुण्यप्रभावेन प्राप्तं राज्यमकंटकम् ४१।
सूर्यस्योदयनं यावत्तावद्विष्णुर्जगाम ह ।
दिवि तत्कालमुत्पन्ना वागुवाचाशरीरिणी ४२।
राज्यं प्राप्स्यसि पुत्रत्वं सफलायाः प्रसादतः।
तथेत्युक्ते तु वचसि दिव्यरूपधरोऽभवत् ४३।
मतिरासीत्ततस्तस्य परमा वैष्णवी नृप ।
दिव्याभरणशोभाढ्यो लेभे राज्यमकंटकम् ४४।
कृतं राज्यं तु तेनैवं वर्षाणि दशपंच च ।
मनोदास्तस्यपुत्रास्तु दाराः कृष्णप्रसादतः ४५।
आशु राज्यं परित्यज्य पुत्रे चैव समर्प्य च ।
गतः कृष्णस्य सांनिध्यं यत्र गत्वा न शोचति ४६।
एवं यः कुरुते राजन्सफलाव्रतमुत्तमम् ।
इहलोके सुखं प्राप्य मृतो मोक्षमवाप्नुयात् ४७।
धन्यास्ते मानवा लोके सफलायां च ये रताः ।
तेषां च सफलं जन्म नात्र कार्या विचारणा ४८।
पठनाच्छ्रवणाच्चैव करणाच्च विशांपते ।
राजसूयस्य यज्ञस्य फलमाप्नोति मानवः ४९।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे पौषकृष्णासफलैकादशीनाम
चत्वारिंशोऽध्यायः ४०।