पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०४१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ०४० पद्मपुराणम्
अध्यायः ०४१
वेदव्यासः
अध्यायः ०४२ →

युधिष्ठिर उवाच-
कथिता वै त्वया कृष्ण सफलैकादशी शुभा ।
कथयस्व प्रसादेन शुक्लपक्षस्य या भवेत् १।
किन्नाम को विधिस्तस्याः को देवस्तत्र पूज्यते ।
कस्मै तुष्टो हृषीकेशस्त्वमेव पुरुषोत्तमः २।
श्रीकृष्ण उवाच-।
शृणु राजन्प्रवक्ष्यामि शुक्ला पौषस्य या भवेत् ।
कथयामि महाराज लोकानां हितकाम्यया ३।
पूर्वेण विधिना राजन्कर्त्तव्यैषा प्रयत्नतः ।
पुत्रदा नाम नाम्ना सा सर्वपापहरा परा ४।
नारायणोऽधिदेवोऽस्या कामदः सिद्धिदायकः ।
नातः परतरा काचित्त्रैलोक्ये सचराचरे ५।
विद्यावंतं यशस्वंतं करोति च नरं हरिः ।
शृणु राजन्प्रवक्ष्यामि कथां पापहरां पराम् ६।
भद्रावत्यां पुरा ह्यासीत्पुर्यां राजा सुकेतुमान् ।
तस्य राज्ञस्तथाराज्ञी चंपका नाम वर्त्तते ७।
पुत्रहीनेन राज्ञा च काले नीतो मनोरथैः ।
नैवात्मजं नृपो लेभे वंशकर्त्तारमेव च ८।
तेनैव राज्ञा धर्मेण चिंतितं बहुकालतः ।
किं करोमि क्व गच्छामि सुतप्राप्तिः कथं भवेत् ९।
न राष्ट्रे न पुरे सौख्यं लेभे राजा सुकेतुमान् ।
साध्व्य स्वकांतया सार्द्धं प्रत्यहं दुःखितोऽभवत् १०।
तावुभौ दंपती नित्यं चिंताशोकपरायणौ ।
पितरोऽस्य जलं दत्तं कवोष्णमुपभुंजते ११।
राज्ञः पश्चान्न पश्यामो योऽस्मान्संतर्पयिष्यति ।
इत्येवं संस्मरंतोऽस्य दुःखिताः पितरोऽभवन् १२।
न बांधवा न मित्राणि नामात्याः सुहृदस्तथा ।
रोचयंत्यस्य भूपस्य न गजाश्वाः पदातयः १३।
नैराश्यं भूपतेस्तस्य नित्यं मनसि वर्त्तते ।
नरस्य पुत्रहीनस्य नास्ति वै जन्मनः फलम् १४।
अपुत्रस्य गृहं शून्यं हृदयं दुःखितं सदा ।
पितृदेवमनुष्याणां नानृणत्वं सुतं विना १५।
तस्मात्सर्वप्रयत्नेन सुतमुत्पादयेन्नरः ।
इह लोके यशस्तेषां परलोके शुभा गतिः १६।
येषां तु पुण्यकर्तॄणां पुत्रजन्मगृहे भवेत् ।
आयुरारोग्यसंपत्तिस्तेषां गेहे प्रवर्तते १७।
पुत्रजन्म गृहे येषां लोकानां पुण्यकारिणाम् ।
पुण्यं विना न च प्राप्तिर्विष्णुभक्तिं विना नृप १८।
पुत्राश्च संपदो वापि निश्चयादिति मे मतिः ।
एवं विचिंत्यमानोऽसौ न शर्म लभते नृपः १९।
प्रत्यूषे चिंतयद्राजा निशीथे चिंतयत्ततः ।
स्वयमात्मविनाशं च चिंतयामास केतुमान् २०।
आत्मघाते दुर्गतिं च चिंतयित्वा तदा नृपः ।
दृष्ट्वात्मदेहं पतितमपुत्रत्वं तथैव च २१।
पुनर्विचार्यात्मबुद्ध्या आत्मनो हितकारणम् ।
अश्वारूढस्ततो राजा जगाम गहनं वनम् २२।
पुरोहितादयः सर्वे न जानंति गतं नृपम् ।
गंभीरे विपिने राजा मृगपक्षिनिषेविते २३।
विचचार तदा राजा वनवृक्षान्विलोकयन् ।
वटानश्वत्थबिल्वांश्च खर्जूरान्पनसांस्तथा २४।
बकुलान्सप्तपर्णांश्च तिंदुकांस्तिलकानपि ।
शालांस्तालांस्तमालांश्च ददर्श सरलान्नृपः २५।
इंगुदी ककुभांश्चैव श्लेष्मातकनगांस्तथा ।
शल्लकान्करमर्दांश्च पाटलान्बदरानपि २६।
अशोकांश्च पलाशांश्च शृगालाञ्शशकानपि ।
वनमार्जारमहिषान्शल्लकांश्चमरानपि २७।
ददर्श भुजगान्राजा वल्मीकादर्द्धनिःसृतान् ।
तथा वनगजान् मत्तान् कलभैः सह संगतान् २८।
यूथपांश्च चतुर्दंतान्करिणीयूथमध्यगान् ।
तान्दृष्ट्वा चिंतयामास आत्मनः स गजान्नृपः २९।
तेषां स विचरन्मध्ये राजा शोभामवाप ह ।
महदाश्चर्यसंयुक्तं ददृशे विपिनं नृपः ३०।
मार्गे शिवारुतान्शृण्वन्नुलूकविरुतं तथा ।
तांस्तानृक्षमृगान्पश्यन्बभ्राम वनमध्यतः ३१।
एवं ददर्श गहनं नृपो मध्यगते रवौ ।
क्षुत्तृड्भ्यां पीडितो राजा इतश्चेतश्च धावति ३२।
नृपतिश्चिंतयामास संशुष्कगलकंधरः ।
मया तु किं कृतं कर्म प्राप्तं दुःखं यदीदृशम् ३३।
मया वै तोषिता देवा यज्ञैः पूजाभिरेव च ।
तथैव ब्राह्मणा दानैस्तोषिता मिष्टभोजनैः ३४।
प्रजाश्चैव सदा कालं पुत्रवत्पालिता भृशम् ।
कस्माद्दुःखं मया प्राप्तमीदृशं दारुणं महत् ३५।
इति चिंतापरो राजा जगामैवाग्रतो वनम् ।
सुकृतस्य प्रभावेन सरो दृष्टमनुत्तमम् ३६।
मीनसंस्पर्शमानं च पद्मैश्चापरशोभितम् ।
कारंडैश्चक्रवाकैश्च राजहंसैश्च शोभितम् ३७।
मकरैर्बहुभिर्मत्स्यैरन्यैर्जलचरैर्युतम् ।
समीपे सरसस्तस्य मुनीनामाश्रमान्बहून् ३८।
ददर्श राजा लक्ष्मीवान्शकुनैः शुभशंसिभिः ।
दक्षिणं प्रास्फुरन्नेत्रमथ सव्येतरः करः ३९।
प्रास्फुरन्नृपतेस्तस्य कथयञ्शोभनं फलम् ।
तस्य तीरे मुनीन्दृष्ट्वा कुर्वाणन्नैगमं जपम् ४०।
हर्षेण महताविष्टो बभूव नृपनंदनः ।
अवतीर्य हयात्तस्मान्मुनीनामग्रतः स्थितः ४१।
पृथक्पृथग्ववंदेऽसौ मुनींस्तान्शंसितव्रतान् ।
कृतांजलिपुटो भूत्वा दंडवच्च पुनः पुनः ४२।
प्रत्यूचुस्तेऽपि मुनयः प्रसन्ना नृपते वयम् ।
राजोवाच-
के भवंतोऽत्र कथ्यंतां का चाख्या भवतामपि ।
किमर्थं संगता यूयं सत्यं वदत मेऽग्रतः ४३।
मुनय ऊचुः-
विश्वेदेवा वयं राजन्स्नानार्थमिह चागताः ।
माघो निकटमायात एतस्मात्पंचमेऽहनि ४४।
अद्य चैकादशी राजन्पुत्रदा नाम नामतः ।
पुत्रं ददात्यसौ विष्णुः पुत्रदा कारिणां नृणाम् ४५।
राजोवाच-
एष वै संशयो मह्यं पुत्रस्योत्पादने महान् ।
यदि तुष्टा भवंतो वै पुत्रं मे दीयतां तदा ४६।
मुनिरुवाच-
अद्यैव दिवसे राजन्पुत्रदा नाम वर्तते ।
एकादशीति विख्यातं क्रियतां व्रतमुत्तमम् ४७।
अभिषेकात्ततोऽस्माकं केशवस्य प्रसादतः ।
अवश्यं तव राजेंद्र पुत्रप्राप्तिर्भविष्यति ४८।
इत्येवं वचनात्तेषां कृतं राज्ञा व्रतोत्तमम् ।
मुनीनामुपदेशेन पुत्रदा या विधानतः ४९।
द्वादश्यां पारणं कृत्वा मुनीन्नत्वा पुनः पुनः ।
आजगाम गृहं राजा राज्ञी गर्भमथादधौ 6.41.५०।
पुत्रो जातः सूतिकाले तेजस्वी पुण्यकर्मणा ।
पितरं तोषयामास प्रजापालो बभूव सः ५१।
तस्माद्राजन्प्रकर्त्तव्यं पुत्रदा व्रतमुत्तमम् ।
लोकानां तु हितार्थाय तवाग्रे कथितं मया ५२।
एकचित्तास्तु ये मर्त्याः कुर्वंति पुत्रदा व्रतम् ।
पुत्रान्प्राप्येह लोके तु मृतास्ते स्वर्गगामिनः ।
पठनाच्छ्रवणाद्राजन्नग्निष्टोमफलं लभेत् ५३।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे पौषशुक्लपुत्रदैकादशीनाम एकचत्वारिंशोऽध्यायः ४१।