पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १५७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १५६ पद्मपुराणम्
अध्यायः १५७
वेदव्यासः
अध्यायः १५८ →

महादेव उवाच।
दुग्धेश्वरसमीपे तु तीर्थं चातीवपावनम् ।
रम्यं तत्पिप्पलादस्य नाम्ना वै प्रथितं भुवि १।
यत्र कृत्वा तपः पूर्वं मातुर्वचनतो मुनिः ।
उत्पादयामास कृत्यां वडवानलसम्मिताम् २।
पितुरानृण्यमन्विच्छन्दधीचस्य महात्मनः ।
तत्र स्नात्वा च पीत्वा च ब्रह्महत्यां व्यपोहति ३।
साभ्रमत्यास्तटे गुप्तं पिप्पलादं सुरेश्वरम् ।
तत्र स्नात्वा तु भो देवि मुक्तिभागी भवेन्नरः ४।
आरोपणं पिप्पलानां कर्त्तव्यं विधिपूर्वकम् ।
कृते सति महादेवि मुच्यते कर्मबंधनात् ५।
पार्वत्युउवाच।
किमर्थं सा तु कृत्या वै उत्पन्ना तां निबोधय ।
तया वै कृत्यया पूर्वं किं कृतं वद मे प्रभो ६।
येन पुत्रेण सा नीता पितुरानृण्यकारणात् ७।
महादेव उवाच।
दाधीचो ऋषिवर्योऽसौ ह्यागतस्तपकारणात् ।
अत्र तेन महत्तप्तमृषिणा परमात्मना ८।
तत्र कोलासुरो नाम विघ्नार्थं वै समागतः ।
तेन विघ्नं बहुतरं कृतं वै नात्र संशयः ९।
तद्दृष्टं तु सुपुत्रेण कहोडेन च धीमता ।
कृत्या ह्युत्पादिता तत्र हननार्थं सुरेश्वरि १०।
तया वै निहतो दैत्यः कोलो नाम महासुरः ।
तस्मात्तीर्थं महज्जातं कलौ गुप्तं तु पार्वति ११।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे उमामहेश्वरसंवादे पिप्पलादतीर्थं नाम सप्तपंचाशदधिकशततमोऽध्यायः१५७।