पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २२३

विकिस्रोतः तः
← अध्यायः २२२ पद्मपुराणम्
अध्यायः २२३
वेदव्यासः
अध्यायः २२४ →

शौनक उवाच-
सूतसूत महाभाग धन्योसि त्वं भवांबुधौ ।
यन्नोऽत्यर्थं निमग्नानां पाययस्वमृतोत्करम् १।
साधोऽत्र भवनिस्तार वांछतां नः समादिश ।
मंत्ररत्नं भावशुद्धं यन्मयं सचराचरम् २।
सूत उवाच-
शृणु शौनक वक्ष्यामि मंत्ररत्नं महाद्भुतम् ।
यद्दिलीपाय गदितं वसिष्ठेन महात्मना ३।
एकदा तु दिलीपेन पृष्टमेतद्गुरुं प्रति ।
वसिष्ठं द्विजशार्दूलं प्रणिपत्य यथा त्वया ४।
दिलीप उवाच-
भगवन्भवता प्रोक्तास्सर्वधर्माविशेषतः ।
वर्णाश्रमयुता धर्मा नित्यनैमित्तिकाः क्रियाः ५।
राजधर्म्माश्च यज्ञाश्च तीर्थदानव्रतादिकम् ।
श्रुता मया मुनिःश्रेष्ठ अक्षय्य स्वर्गभोगदाः ६।
अधुना श्रोतुमिच्छामि मोक्षमार्गं सनातनम् ।
दिष्ट्याहं येन गच्छामि तद्ब्रह्मन्वक्तुमर्हसि ७।
को मंत्रं सर्वमंत्राणां भवरोगैकभेषजम् ।
सर्वेषामेव देहीनां को हि मोक्षप्रदः परः ८।
तत्समाख्याहि तत्त्वेन मयि वात्सल्यगौरवात् ९।
वसिष्ठ उवाच-
साधुपृष्टं त्वया राजन्सर्वलोकहितैषिणा ।
वक्ष्यामि परमं गुह्यमेकं संसारतारकम् १०।
पुरा महर्षयः सर्वे यज्ञदानपराः शुभाः ।
पप्रच्छुर्ब्रह्मणः पुत्रं नारदं मुनिसत्तमम् ११।
महर्षय ऊचुः -
भगवन्केन मंत्रेण गच्छामः परमं पदम् ।
तन्नो ब्रूहि महाभाग प्रसादं कर्तुमर्हसि १२।
नारद उवाच-।
पितामहं पुरा सर्वे योगिनः सनकादयः ।
पप्रच्छुरेकमेकांते मोक्षमार्गं सुदुर्ल्लभम् १३।
ब्रह्मोवाच-।
शृणुध्वं योगिनः सर्वे रहस्यमिदमद्भुतम् १४।
न जानंति सुराः सर्वे ऋषयश्च तपोधनाः ।
सर्गादौ प्रोक्तवान्देवो मह्यं नारायणोऽव्ययः १५।
ईश्वर्या सह देव्या च सम्यक्संपूजितो मया ।
ततः प्रसन्नो भगवान्मम नारायणोऽव्ययः १६।
प्राजापत्यं ददौ मह्यं श्रुतिजं सर्ववाङ्मयम् ।
प्रकाशकानि मंत्राणि व्यापकाव्यापकानि च १७।
ततस्तमब्रुवं देवं पुराणपुरुषोत्तमम् ।
भगवन्केन मंत्रेण संसारोत्तारणं नृणाम् १८।
तन्ममाचक्ष्व तत्त्वेन सर्वलोकहिताय वै ।
को मन्त्रः सर्वमन्त्राणां पुरश्चरणवर्जितः १९।
सकृदुच्चारणान्नृणां ददाति परमं पदम् ।
श्रीभगवानुवाच-
साधुपृष्टं महाभाग सर्वलोकहितैषिणा २०।
तस्माद्वक्ष्यामि ते गुह्यं येन मामाप्नुयुर्नराः २१।
सर्वेषामेव मंत्राणां मंत्ररत्नं शुभावहम् ।
सकृत्स्मरणमात्रेण ददाति परमं पदम् २२।
मंत्ररत्नद्वयं न्यासं प्रयतिः शरणागतिः ।
लक्ष्मीनारायणमिति मन्त्रः सर्वफलप्रदः २३।
नामानि मंत्ररत्नस्य पर्य्यायेण निबोधत ।
तस्योच्चारणमात्रेण परितुष्टोस्मि नित्यशः २४।
कुलजो वा तपस्वी वा वेदवेदांगपारगः ।
यज्ञदानपरो वापि सर्वतीर्थोपसेवकः २५।
व्रती वा सत्यवादी वा यतिर्वा ज्ञानवानपि ।
मन्त्राधिकारी न भवेत्तं प्रयत्नेन वर्जयेत् २६।
ब्राह्मणाः क्षत्रिया वैश्या स्त्रियः शूद्रास्तथेतराः ।
तस्याधिकारिणः सर्वे मम भक्तास्तु ते यदि २७।
अनन्यशरणानां च तथैवानन्यसेविनाम् ।
अनन्यसाधकानां च वक्तव्यो मन्त्र उत्तमः २८।
आर्तानामाशु फलदस्सकृदेव कृतो ह्यसौ ।
दृप्तानामपि जन्तूनां देहान्तरनिवारणः २९।
आर्त्तो जिज्ञासुरर्थार्थी ज्ञानी वापि प्रजापतिः ।
सकृन्मां शरणं याति ततः कामानवाप्नुयात् ३०।
नादीक्षिताय वक्तव्यं नाभक्ताय च मानिने ।
नास्तिकाय न लुब्धाय न श्रद्धाविमुखाय च ३१।
न चाशुश्रूषवे वाच्यं नासंवत्सरवासिने ।
कामक्रोधविमुक्तस्तु दंभलोभविवर्जितः ३२।
मां च यो व्यभिचारेण भक्तियोगेन सेवते ।
वक्तव्य तस्य विधिवन्मंत्ररत्नमनुत्तमम् ३३।
देशकालादिनियमानरिमित्रादि शोधनम् ।
न्यासमुद्रादिकं तस्य पुरश्चरणसंयुतम् ३४।
मच्चक्रांकितदेहत्वं मदीयाराधनं तथा ।
मयि सन्यस्तकर्मत्वं मदनन्यशरण्यतता ३५।
मयि सर्वफलन्यासो महाविश्वासपूर्वकम् ।
अनन्यसाधनो यत्नस्त्वकिंचनत्वमात्मनः ३६।
अवैष्णवानां संभाषा वंदनादि विवर्जनम् ।
अनन्यदेवतानां च वन्दनं पूजनं तथा ३७।
एवमाद्यादि नियमां प्रपन्नस्य प्रकीर्तिताः ।
इत्यादिगुणयुक्तस्य वक्तव्यं मंत्रमुत्तमम् ३८।
तस्य नारायणश्चाहमृषिर्विष्णुः सनातनः ।
देवता च श्रिया सार्द्धमहं वात्सल्यसागरः ३९।
सर्वलोकेश्वरः श्रीमान्सुशीलः सुभगस्तथा ।
सर्वज्ञः सर्वशक्तिश्च सदापूर्णमनोरथः ४०।
सर्वगः सर्वबंधुश्च कृपापीयूषसागरः ।
श्रीमन्नारायणश्चाहं देवता समुदाहृतः ४१।
छंदस्तु देवी गायत्री पंचविंशाक्षरात्मिका ।
द्विस्सप्तषट्त्रिपंचद्विषडंगानि नियोजयेत् ४२।
लक्ष्म्या मदनपायिन्या मां ध्यायेद्विश्वरूपिणम् ।
चक्रशंखगदापद्मपाणिनं दिव्यरूपिणम् ४३।
वामांकस्थश्रिया सार्द्धं पूजयेत्प्रयतं शुचिः ।
अनेन मंत्ररत्नेन गंधपुष्पनिवेदनैः ।
सकृत्संपूज्यमानोऽपि संतुष्टोस्मि प्रजापते ४४।
ब्रह्मोवाच-
सम्यगुक्तं त्वया नाथ रहस्यमिदमुत्तमम् ।
मंत्ररत्नप्रभावश्च सर्वसिद्धिप्रदो नृणाम् ४५।
पिता त्वं सर्वलोकानां माता त्वं गुरुरेव च ।
त्वं च स्वामी सखा भ्राता गतिस्त्वं शरणं सुहृत् ४६।
अहं तु तव देवेश दासश्शिष्यस्तथा सुहृत् ।
तस्मान्मम दयासिंधो प्रोक्तवानिदमुत्तमम् ४७।
अधुना मंत्ररत्नस्य दीक्षां सम्यग्विधानतः ।
ब्रूहि सर्वत्र तत्वेन लोकानां हितकाम्यया ४८।
श्रीभगवानुवाच -
शणु वत्स प्रवक्ष्यामि मंत्र दीक्षाविधिं परम् ।
आचार्यं संश्रयेत्पूर्वं मदाश्रयणसिद्धये ४९।
आचार्यो वेदसंपन्नो विष्णुभक्तो विमत्सरः ।
मंत्रज्ञो मन्त्रभक्तश्च सदा मंत्राश्रयः शुचिः ५०।
सत्संप्रदायसंयुक्तो ब्रह्मविद्याविशारदः ।
अनन्यसाधनश्चैव तथानन्यप्रयोजनः ५१।
ब्राह्मणो वीतरागश्च क्रोधलोभविवर्जितः ।
सद्वृत्तौ शासिता चैव मुमुक्षुः परमात्मवित् ५२।
एवमादिगुणेपेत आचार्यः स मुदा सुहृत् ।
आचाराञ्शासयेद्यस्तु स आचार्य इतीरितः ५३।
यस्त्वाचार्यपराधीनस्सद्वृत्तौ शास्यते यदि ।
शासने स्थिरवृत्तश्च शिष्यः सद्भिरुदाहृतः ५४।
एवं लक्षणसंयुक्तं शिष्यं सर्वगुणान्वितम् ।
अध्यापयेद्विधानेन मन्त्ररत्ननुत्तमम् ५५।
द्वादश्यां श्रवणे वापि कर्हिचिद्वैष्णवे दिने ।
सदाचार्योपसंप्रीतौ तत्र दीक्षां समाचेत् ५६।
सुदर्शनं पांचजन्यं सुवर्णेन प्रकारयेत् ।
रौप्येण वापि ताम्रेण कांस्येनापि प्रकारयेत् ५७।
स्नाप्य पंचामृतैः शुद्धैरर्चयेत्पुरतो मम ।
अर्च्चयेद्गंधपुष्पाद्यैस्तन्मंत्रेण विधानतः ५८।
तत्र संस्थापयेदग्नि स्वगृह्योक्त विधानतः ।
आचार्यो जुहुयादाज्यं मंत्रेणाथ द्विजोत्तमः ५९।
अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा ।
जुहुयान्मंत्ररत्नेन तथान्यैर्वैष्णवैः शुभैः ६०।
मंत्रैः पुरुषसूक्ताद्यैर्जुहुयाघृतपायसम् ।
तस्मिन्नग्नौ क्षिपेच्चक्रं शंखं च द्विजत्तमः ६१।
षडक्षरेण जुहुयादाज्यं विंशतिसंख्यया ।
प्रतप्तं चक्रमादाय मंत्रैणैव तथा गुरुः ६२।
शंखेनैवांकनं कुर्याद्बाह्वोर्दक्षिणसव्ययोः ।
होमशेषं समाप्याथ पुनः पूजां समाचरेत् ६३।
ततः कलशमादाय पवित्रोदकपूरितम् ।
मंत्रेणैवाभिमंत्र्याथ तस्य मूर्ध्न्यभिषेचयेत् ६४।
सितवस्त्रधरं सम्यगाचांतं विनयान्वितम् ।
ऊर्द्ध्वपुण्ड्रधरं शिष्यं मंत्रमध्यापयेद्गुरुः ६५।
मंत्रार्थश्च प्रवक्तव्यो वृत्तिश्चैव विशेषतः ।
लब्धमंत्रस्तदाचार्यं पूजयेद्भूषणादिभिः ६६।
अनेन विधिना मंत्रं योऽधीते वैष्णवाद्गुरोः ।
ततः स वैष्णवं याति नान्यथा सुरसत्तम ६७।
नारद उवाच-
एवमुक्त्त्वा विधातारं देवदेवो हरिः पिता ।
स्वचक्रेणांकयित्वा तु तस्मै मंत्रं ददौ स्वयम् ६८।
सर्वलोकेश्वरो देवो ब्रह्मा मम पिता प्रभुः ।
ममापि विधिवन्मंत्रं स ददौ मुनिसत्तमाः ६९।
तस्माद्यूयं मुनिश्रेष्ठा धारयित्वा सुदर्शनम् ।
नारायणपदं द्वंद्वं गच्छध्वं शरणं द्विजाः ७०।
वसिष्ठ उवाच-
इत्युक्त्वा मुनयः सर्वे नारदेन सुरर्षिणा ।
द्वयाधिकारिणः सर्वे याता विष्णोः परं पदम् ७१।
तस्मात्त्वमपि राजर्षे विष्णुसायुज्यमिच्छसि ।
दीक्षामार्गविधानेन धारयित्वा सुदर्शनम् ७२।
नारायणपदद्वंद्वं तदेकं शरणं व्रज ।
सर्वलोकेश्वरः साक्षाद्ब्रह्मा त्रिभुवनेश्वरः ७३।
ममापि नारदस्यापि प्रोक्तवान्मंत्रमुत्तमम् ।
शौनकादि महर्षीणां नैमिषारण्यवासिनाम् ७४।
नारदः प्रददौ मंत्रं प्रपत्तिं शरणागतिम् ।
एतद्गुह्यतमं राजन्न जानंति महर्षयः ७५।
देवाताश्च न जानंति सिद्धा साध्याश्च दानवाः ।
मयापि प्रापितो मंत्रं शक्तिपुत्रः पराशरः ७६।
इदं रहस्यं परमं लक्ष्मीनारायणं द्वयम् ।
राजंस्तवापि वक्ष्यामि प्रपत्ति शरणागतिम् ७७।
द्वयात्परतरं मन्त्रं नास्ति सत्यं ब्रवीमि ते ।
अस्मात्परतरं धर्म्मं नास्ति लोकेषु किंचन ७८।
सत्यं सत्यं पुनः सत्यं ब्रह्मणा कथितं पुरा ।
नारायणात्परो देवो नास्ति मुक्तिप्रदो नृणाम् ७९।
तत्सेवैव भवेन्मोक्षः सर्वकर्म निकृंतनः ८०।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे वसिष्ठदिलीपसंवादे विद्योपदेशोनाम त्रयोविंशत्यधिकद्विशततमोऽध्यायः २२३।