पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २२२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः २२१ पद्मपुराणम्
अध्यायः २२२
वेदव्यासः
अध्यायः २२३ →

नारद उवाच-
आकर्णय शिबे राजन्वर्णयामि तवाग्रतः ।
पुण्यं यशस्यमायुष्यं काश्या माहात्म्यमुत्तमम् १।
इंद्रप्रस्थतटस्थायां काश्यामेकस्तु पादपः ।
शिंशपाख्योभवेद्राजन् पुरा पुण्ययुगे कृते २।
तत्रैको वायसो ह्यासीत्कृतनीडो वनस्पतौ ।
तस्याधस्तान्महासर्पं कोटरेव सति स्म ह ३।
एकदा तस्य काकस्य भार्यांडद्वयमालये ।
प्रतिमुच्य गता क्वापि न नीडे स्वे समागता ४।
स्वयमेव स काकस्तु पालयन्नंडकद्वयम् ।
तामेव शिंशपामुच्चैरध्यतिष्ठन्महीपते ५।
अथैकदा निशीधे तु महावात्या समागता ।
अभनक्शिंशपां राजन्मूलादपि दृढादपि ६।
वात्यया पात्यमानाया शिंशपायास्तदा तले ।
चूर्णितौ काकसर्पौ तौ गतप्राणौ बभूवतुः ७।
दिव्यांगास्ते त्रयो भूत्वा शिंशपा वायसादयः ।
विमानत्रयमारूढा जग्मुः श्रीपतिकेतनम् ८।
शिबिरुवाच-
देवर्षे केन पुण्येन प्राप्ता तैर्मुक्तिदा पुरी ।
आसंस्ते के त्रयः पूर्वं सर्वं कथय नारद ९।
नारद उवाच-।
कुरुजांगलदेशीयो ब्राह्मणः श्रवणाभिधः ।
तस्य भार्या कुडा नाम भ्राताभूच्च कुरंटकः १०।
अस्नातभोक्ता नित्यं स कवलो मिष्टभुग्रहः ।
श्रवणस्तेन दोषेण बभूव ग्रामवायसः ११।
कुरंटकस्तु तद्भ्राता नास्तिकोऽभवदुल्बणः ।
श्रुतिस्मृतिपथोच्छेत्ता देवतानां च निंदकः १२।
तेन दोषेण स मृतो ह्यभवत्कालकुंडली ।
सा कुंडा श्रवणस्य स्त्री बभूवोभयदोषभाक् १३।
अतः सा स्थावरत्वं हि लब्ध्वासीदुभयाश्रया ।
एतत्ते कथितं भूप तद्वृत्तं पूर्वजन्मनि १४।
अतः परं प्रवक्ष्यामि तेषां पुण्यं यतस्त्रयः ।
प्रापुस्तेन पुरीं रम्यां काशीं वैश्वेश्वरीं नृप १५।
ग्रामांतरादेकदा तौ प्रत्यायातौ निजालयम् ।
कस्यचित्पथिकस्याथ कूपमग्नां पयस्विनीम् १६।
अवलोक्य तदुद्धारं चक्रतुस्तेन नोदितौ ।
ताभ्यांगदितमाकर्ण्य कुंडा साध्वित्यभाषत १७।
ते त्रयस्तेनपुण्येन मरणं प्राप्य दुर्लभम् ।
इंद्रप्रस्थतटस्थायां काश्यां वैकुंठमारुहन् १८।
इयं काशी महेशस्य पुरी यद्यपि भूपते ।
तथाप्यस्यां मृतं जंतुर्वैकुंठे स्यात्सुखी हरेः १९।
एतत्ते कथितं राजन्काश्या माहात्म्यमुत्तमम् ।
किमन्यच्छ्रोतुमिच्छा ते विद्यते तद्वदस्व मे २०।
शिबिरुवाच-
मुने त्वया महेशस्य क्षेत्रत्रयमुदीरितम् ।
काशी च शिवकांची च गोकर्णं च तथापरम् २१।
एकस्य महिमा प्रोक्तो त्वया काश्या महामुने ।
गोकर्णशिवकांच्योश्च कथ्यतां यदि विद्यते २२।
नारद उवाच-।
गोकर्णं केवलं शैवं क्षेत्रं परमपावनम् ।
तस्मिन्मृतो नरो राजन्शिवः स्यान्नात्र संशयः २३।
स्थले जलेंतरिक्षे च जंतुस्तत्र मृयेत चेत् ।
तदा कैलासशिखरो शिवः संभूय दीव्यति २४।
अत्र गोकर्णतीर्थे स्यान्मृतस्य न पुनर्भवः ।
शिवेन स समं राजन्मुक्तिं यास्यति कर्हिचित् २५।
अस्यापि तव माहात्म्यं गोकर्णस्य महामते ।
वर्णयामि यदाकर्णि मया ब्रह्ममुखात्प्रभो २६।
प्रयागादेकगव्यूतौ गुरुतीर्थसमीपगः ।
मर्यादापर्वतो योऽयं दृश्यते पुण्यदर्शनः २७।
तत्रैकः कर्कटो नाम भिल्ल आसीत्सुदारुणः ।
तस्य भार्या जरा नाम सा जघ्ने पतिपंचकम् २८।
सा जरा विषसंयुक्तं षष्ठं कर्कटकं तदा ।
अकरोन्मोदकं हंतुं तदा तेन स्वसुः श्रुतम् २९।
निजाया मुखतो राजन्भिल्लेन च महात्मना ।
बालां तां हंतुमारेभे कर्कटो भृशदारुणः ३०।
खङ्गपाणिर्यदा याति तद्वधाय स भिल्लपः ।
यावत्तावत्तु सा यायाज्ज्ञात्वा निजवधोद्यमम् ३१।
वनमभ्यद्रवद्भीता निजप्राणपरीप्सया ।
तामनुद्रवता तेन कर्कटेन महीपते ३२।
अत्र गोकर्णतीर्थे तु गृहीता खङ्गपाणिना ।
शिरश्छित्वा तु खङ्गेन पातयित्वा जले वपुः ३३।
तस्य गोकर्णतीर्थस्य निजस्थानमगाच्च सः ।
सा जरा तत्र गोकर्णे पापापि निधनं गता ३४।
कैलासशिखरे राजन्पार्वत्या अभवत्सखी ।
अहं कथितवानेतत्तव गोकर्णवैभवम् ३५।
शिवकांच्याश्च माहात्म्यं पवित्रं वर्णयामि ते ।
इंद्रप्रस्थतटस्थायां शिवकांच्यामपि प्रभो ३६।
गतिः सा परमा पुंसां गोकर्णे या मयोदिता ।
अत्र श्रीमन्महादेवो विष्णुं सर्वसुरेश्वरम् ३७।
आराध्य भक्तराजत्वं लेभे ज्ञानं च तात्विकम् ।
अतः सर्वे वयं पुत्रा ब्रह्मणस्तं महेश्वरम् ३८।
आराधयामः सततं सद्भक्तिज्ञानलिप्सया ।
अत्र बाणासुरो राजन्नारराध महेश्वरम् ३९।
निराहारो वर्षशतं तद्गुणत्वबुभूषया ।
तस्मै प्रसन्नो भगवान्गणत्वं दत्तवान्निजम् ४०।
स्वयं च सर्वदा तस्य पुरपालो बभूवह ।
इयं पुरी पुरा राजन्नासीद्विष्णोर्महात्मनः ४१।
दत्ता शिवाय तुष्टेन तपसा तस्य विष्णुना ।
अस्यामेकं पुरावृत्तं महदाश्चर्यकारकम् ४२।
विप्रस्य शिवभक्तस्य वैकुंठाप्तिर्यथाभवत् ।
एकस्तु ब्राह्मणो राजन् हेरंबो नाम धार्मिकः ४३।
कायेन मनसा वाचा शिवपूजारतः सदा ।
एकदा स महाभागः शिवतीर्थानि पर्यटन् ४४।
शिवभक्तः शिवे राजन्शिवकांच्यामिहागतः ।
एनां मनोहरां चैव न तत्याज स बुद्धिमान् ४५।
पश्चात्तत्रैव तत्याज प्राणानस्या जलांतरे ।
तत्रैव श्रीमहादेवगणास्तं ब्राह्मणोत्तमम् ४६।
नीत्वा कैलासमचलं चेलुस्तदनुशासनात् ।
अथ मध्ये समायाता गणा वैकुंठतो हरेः ४७।
तेभ्यो बलात्समादातुं तं द्विजश्रेष्ठमुद्यताः ।
आसीत्तेषां महयुद्धं गणानां हरिशर्वयोः ४८।
तत्र युद्धेन वैकेषां विजयो न पराजयः ।
तत्र वैकुंठतो विष्णुरागतो गरुडासनः ४९।
कैलासाद्वृषभारूढो महेशश्च त्रिलोकधृक् ।
तावन्योन्यं मुखं दृष्ट्वा विहस्य जगदीश्वरौ ५०।
पश्यतस्म महद्युद्धं नभस्येव गणैः कृतम् ।
अथ स्वीयान्गणान्विष्णुः शैवांश्च दिवि युद्धतः ५१।
निवार्य तं द्विजं तार्क्ष्यमारोप्यागाच्छिवालयम् ।
शिवेन तद्गणैश्चापि स्वकीयैरपि माधवः ५२।
वृतो गछन्पथि श्रीमान्स्तुतस्त्रिदशवंदितः ।
गत्वा विवेश तं चागं महादेवपुरःसरः ५३।
तस्मै द्विजाय वै तस्य दर्शयन्रमणीयताम् ।
अथ तस्मात्तु कैलासान्महादेवेन वंदितः ५४।
माधवः परया भक्त्या वैकुंठमगमत्तदा ।
द्विजः सोऽपि महाभागस्तीर्थस्यास्य प्रसादतः ५५।
गोविंददर्शनं प्राप्य मुमुदे हरसन्निधौ ।
एतत्ते कथितं राजन्शिवकांच्यास्तु वैभवम् ५६।
तीर्थसप्तकनाम्नस्तु शृणुष्व सुसमाहितः ।
तीर्थमेतन्महाराज चतुर्वर्गफलप्रदम् ५७।
दर्शनात्स्पर्शनाद्ध्यानात्स्मरणादपि भूपते ।
वसिष्ठादिभिरेतस्मिन्महर्षिभिरनुष्ठितम् ५८।
महत्तपस्तु सृष्ट्यर्थं तत्रासंस्तु क्षमा नृप ।
मरीचिरपि धर्मात्मा पुत्रार्थं स्नानमाचरन् ५९।
अत्र लेभे महाभागः कश्यपं सुतमुत्तमम् ।
अत्रिरत्रापि तपसा तोषयद्देवपुंगवान् ६०।
सोमं दुर्वाससं दत्तं तेभ्यो लेभे सुतत्रयम् ।
अंगिरा अपि धर्मात्मा तीर्थस्यास्य प्रसादतः ६१।
लेभे सुतांस्तुतद्वंश्या जाता आंगिरसा द्विजाः ।
पुलहोऽपि सुतं लेभे दंभोलि गुणवत्तरम् ६२।
योऽगस्त्योभूत्पुरा राजंस्तीर्थेऽत्रैव निमज्जनात् ।
पुलस्त्यस्यात्र तीर्थे वै पुत्रो लब्धो तपस्यतः ६३।
कुबेरोभून्महाभागो यः सखासीदुमापतेः ।
क्रतोरपि सुता जाता वालखिल्याः सहस्रशः ६४।
तीर्थस्यास्य प्रसादेन ते सर्वे ह्यूर्ध्वरेतसः ।
रजआदीन्सुताँ लेभे वसिष्ठोऽपि महातपाः ६५।
सप्तैव राजशार्दूल महिमा तस्य वर्णितः ।
अन्यान्यपि च तीर्थानि संत्यनेकानि भूपते ६६।
कपिलाश्रमकेदारप्रभासादीनि वै प्रभौ ।
नियुतैरपि वर्षाणां तेषां च महिमा नृप ।
अनंतेनापि नो वक्तुं शक्यते किमु मादृशैः ६७।
सौभरिरुवाच-
एवमुक्त्वा मुनिश्रेष्ठो नारदो मुनिपुंगवः ।
शिवं जगाम नभसो नारायणगुणान्गृणन् ६८।
शिबिरौशीनरो राजा शक्रप्रस्थस्य वैभवम् ।
श्रुत्वा मुनिमुखाद्राजन्कृतार्थं स्वममन्यत ६९।
तत्र स्नात्वा हि विधिवदिंद्रप्रस्थे स भूपतिः ।
विधाय सत्क्रियाः सर्वा जगाम निजपत्तनम् ७०।
इंद्रप्रस्थस्य माहात्म्यमेतत्तव मया विभो ।
यमुनातीरतीर्थस्य वर्णितं जनपावनम् ७१।
नास्यादरं करिष्यंति कलौ श्रद्धाविवर्जिताः ।
इंद्रप्रस्थस्य राजेंद्र सर्वतीर्थशिरोमणेः ७२।
अष्टादशपुराणानां श्रवणाद्भारतस्य च ।
यत्फलं तन्महिम्नस्य शक्रप्रस्थस्य जायते ७३।
अरुणोदयवेलायां माघलक्षैकमज्जनात् ।
यत्फलं तन्महिम्नोस्य श्रवणाच्छ्रद्धया भवेत् ७४।
श्रद्धयास्य तु माहात्म्यं यः शृणोति महीपते ।
तर्पितास्तेन पितरो देवाश्च मुनयस्तथा ७५।
कृच्छ्रातिकृच्छ्रपाराक चांद्रायण व्रतादिभिः ।
यत्फलं तन्महिम्नोऽस्य श्रद्धया श्रवणाद्भवेत् ७६।
अश्वमेधादियज्ञानां समस्तानां महीपते ।
यत्फलं तन्महिम्नोऽस्य श्रद्धया श्रवणाद्भवेत् ७७।
सूत उवाच-
एवं युधिष्ठिरो राजा श्रुत्वा शौनक सौभरेः ।
इंद्रप्रस्थस्य माहात्म्यं स ययौ हस्तिनं पुरम् ७८।
ततो विनीय सद्भ्रातॄन्दुर्योधनपुरःसरान् ।
इंद्रप्रस्थमगात्पुण्यं राजसूयचिकीर्षया ७९।
द्वारकायाः समागम्य गोविंदं कुलदैवतम् ।
राजसूयेन यज्ञेन स इयाज महीपतिः ८०।
मुक्तिदं तीर्थमेतत्तु शपतोस्याप्यजायत ।
इति मत्वा हरिस्तत्र शिशुपालं जघान ह ८१।
शिशुपालोऽपि तस्यैव तीर्थस्य मरणाद्भुवि ।
सायुज्यमगमत्कृष्णे निखिलार्थप्रदायके ८२।
शिशुपालो हतो यत्र विहितो यत्र चक्रतुः ।
गदया तत्र भीमेन कृतं कुंडं सुविस्तरम् ८३।
भीमकुंडं तु विज्ञातं जातं तद्भुविपावनम् ।
कालिंद्या दक्षिणे भागे गव्यूत्यर्धं महीतले ८४।
इंद्रप्रस्थगताया यत्कालिंद्याः स्नानतः फलम् ।
तत्फलं तत्र कुंडे तु जायते नात्र संशयः ८५।
सूत उवाच-
यस्मिन्क्षेत्रे स्थितो जंतुस्तं क्षेत्रमनुवत्सरम् ।
प्रदक्षिणादिभिर्धर्मैः स्वापराधान्क्षमापयतेत् ८६।
प्रतिसंवत्सरं चैव परिक्रामति यो नरः ।
क्षेत्रापराधदोषैश्च न स लिप्येत्तु पातकैः ८७।
प्रदक्षिणमकुर्वाणः क्षेत्रसिद्धिं न विंदति ।
तस्मात्प्रदक्षिणा तीर्थे दातव्या च फलार्थिभिः ८८।
हरेर्नाम निसंजल्पन्प्रकरोति प्रदक्षिणाम् ।
पदेपदे स लभते कपिलादानजं फलम् ८९।
चैत्रकृष्णचतुर्दश्यां शक्रप्रस्थप्रदक्षिणाम् ।
यः करोति नरो धन्यः सर्वपापैः प्रमुच्यते ९०।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये इंद्रप्रस्थगत काशीगोकर्णशिवकांचीतीर्थसप्तक भीमकुंडवर्णनोनाम द्वाविंशत्यधिकद्विशततमोऽध्यायः २२२ ।