पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १४३

विकिस्रोतः तः
← अध्यायः १४२ पद्मपुराणम्
अध्यायः १४३
वेदव्यासः
अध्यायः १४४ →

एकधारं ततो गच्छेत्तीर्थं परमपावनम् ।
एकधारे नरः स्नात्वा एकरात्रमुपोषितः १।
अर्चयन्स्वामिदेवेशं कुलानां तारयेच्छतम् ।
स्वामितीर्थसमं ज्ञेयं यत्र तीर्थेऽवगाहनम् २।
रुद्रलोके नरो गच्छेत्तीर्थस्यास्य प्रभावतः ।
यत्र स्नात्वा च पीत्वा च ब्रह्मलोके च गच्छति ३।
त्रैलोक्ये पुण्यकर्माणस्तटेऽस्मिन्संवसंति हि ४।
न भयं विद्यते तेषां खड्गधारादिकं च यत् ।
सत्सर्वमाशु नश्येत तीर्थे ह्येकप्रधारके ५।
इति एकधारतीर्थवर्णनम् ।
सप्तधारं ततो गच्छेत्तीर्थानां तीर्थमुत्तमम् ।
सप्तसारस्वतं नाम यत्कृते मुनिभिः कृतम् ६।
त्रेतायुगे मंकितीर्थं कृतं मंकि महर्षिणा ।
द्वापरे पांडुपुत्रैस्तु सप्तधारं प्रवर्तितम् ७।
सप्तधारकतां प्राप्तं तीर्थं हरजटा च्युतम् ।
सप्तरूपाणि गंगाया यामि लोकेषु सप्तसु ८।
वहंति तानि पुण्यानि तीर्थेऽस्मिन्सप्तधारके ।
सप्तधारे कृतं श्राद्धं पितॄणां तृप्तिदायकम् ९।
शृणु देवि प्रवक्ष्यामि इतिहासं पुरातनम् ।
यच्छ्रुत्वा देवदेवेशि ब्रह्मलोकं व्रजेद्ध्रुवम् १०।
कौषीतकस्य पुत्रो वै मंकि नामेति विश्रुतः ।
विष्णुध्यानरतो नित्यं विष्णुलोकप्रपूजकः ११।
वेदाध्ययनकर्ता च अग्निहोत्रपरायणः ।
सुरूपा विश्वरूपेति स्त्रियौ द्वेस्तस्तु तद्गृहे १२।
ताभ्यां पुत्रविहीनाभ्यां दृष्ट्वा देविविशंकितः ।
किंकर्तव्यमिति ध्यायन्नति चिंतापरोऽभवत् १३।
स्थिरो वंशस्तु पुत्रेण ह्यन्यथा नरकं व्रजेत् ।
एवं चिंतां प्रकुर्वाणो न सुखं लभते क्वचित् १४।
तदा स्वगृहमुत्सृज्य गतो वै गुरुसन्निधौ ।
नमो वै गुरुवे तुभ्यं देवानामुपकारिणे १५।
त्वं नाथः सर्वलोकानां ब्राह्मणानां च रक्षकः ।
यज्ञानां त्वं प्रकर्त्ता च द्विजराज नमोस्तु ते १६।
अपुत्रोऽहं तु विप्रर्षे किं कर्त्तव्यमिति प्रभो ।
वद त्वं तु यथा सर्वं पुत्रो भवति निश्चितम् १७।
अपुत्रस्य गतिर्नास्ति स्वर्गे नैव च नैव च ।
येनकेनाप्युपायेन पुत्रस्य जननं चरेत् १८।
इति वाक्यं तु संस्मर्य्य ह्यागतस्तव सन्निधौ १९।
गुरुरुवाच।
गच्छ त्वं मुनिशार्दूल यत्र साभ्रमती नदी ।
तत्र गत्वा मुनिश्रेष्ठ पुत्रान्वै प्राप्स्यसे ध्रुवम् २०।
तद्वाक्यं तु समाकर्ण्य नमस्कृत्वा तु दंडवत् ।
स गतो विप्रराजस्तु नदीं साभ्रमतीं प्रति २१।
मंकिनामा तु विप्रर्षिस्तत्र गत्वा तपो महत् ।
अतप्यत तदा देवि यावद्वर्षचतुष्टयम् २२।
यत्र तीर्थं कृतं तेन मंकिना ब्रह्मवादिना ।
त्रेतायुगे तदा देवि तदा तीर्थं महाद्भुतम् २३।
जातं तत्र न संदेहः पुत्रदं सार्वकामिकम् ।
अद्यापि मंकितीर्थाभं न भूतं न भविष्यति २४।
स वै द्विजवरो मंकिः पुत्रान्प्राप्य यथासुखम् ।
भोगान्नानाविधान्भुक्त्वा स गतो मंदिरं मम २५।
एतदाख्यानकं दिव्यं पवित्रं परमं महत् ।
पुत्रसौख्यादिकं सर्वं लभते श्रवणादतः २६।
इति श्रीपाद्मे महापुराणे पंचापंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे सप्तधारतीर्थमहिमानाम त्रिचत्वारिंशदधिकशततमोऽध्यायः १४३।