पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १३३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १३२ पद्मपुराणम्
अध्यायः १३३
वेदव्यासः
अध्यायः १३४ →

पार्वत्युवाच
द्वीपेऽस्मिन्यानि तीर्थानि तानि मे वद सुव्रत
द्वीपानां द्वीपराजोऽयं सर्वदा भुवि निर्मितः
संख्यया त्वं वद स्वामिन्कृपां कृत्वा ममोपरि १
महादेव उवाच
सर्वगः सर्वभूतेषु द्रष्टव्यः सर्वतो भुवि
सप्तलोकेषु यत्किंचिद्दृश्यते सचराचरम् २
तत्वं तेन विना देवि न दृष्टं न श्रुतं मया
अतो विष्णुर्महादेवः केशवः क्लेशनाशनः
तीर्थरूपेण वर्तेत द्वीपे ह्यस्मिन्सुरेश्वरि ३
तानि तीर्थानि वक्ष्यामि सांप्रतं नात्र संशयः
प्रथमं पुष्करं क्षेत्रं तीर्थानां प्रवरं शुभम्
वाराणसी द्वितीयं तु क्षेत्रं मुक्तिप्रदायकम् ४
तृतीयं नैमिषं क्षेत्रमृषीणां पावनं स्मृतम्
प्रयागं वै चतुर्थं तु तीर्थानामुत्तमं स्मृतम् ५
कार्मुकं पंचमं प्रोक्तं उत्पन्नं गंधमादने
एकादशं कान्यकुब्जं यत्र तिष्ठति वामनः ६
सप्तमं विश्वकायं तु अवरे पर्वते शुभे
अष्टमं गौतमाख्यं च मंदरे निर्मितं पुरा ७
मदोत्कटं तु नवमं दशमं रथचैत्रकम्
एकादशं कान्यकुब्जं यत्र तिष्ठति वामनः ८
द्वादशं मलयं चैव कुब्जाम्रकमतः परम्
विश्वेश्वरं गिरिकर्णं केदारं गतिदायकम् ९
बाह्यं हिमवतः पृष्ठे गोकर्णे गोपकं तथा
स्थानेश्वरं हिमाद्रौ च बिल्वके बिल्वपत्रिकम् १०
श्रीशैले माधवं तीर्थं भद्रं भद्रेश्वरे तथा
वाराहे विजयं प्रोक्तं वैष्णवं वैष्णवे गिरौ ११
रौद्रं तु रुद्रकोटे तु पैत्र्यं कालिजरे गिरौ
कंपिले कापिलं तीर्थं मुकुटे कर्कोटकं तथा १२
शालग्रामोद्भवं तीर्थं गल्लिकायां सुरेश्वरि
नर्मदायां शिवाख्यं तु मायायां विश्वरूपकम् १३
उत्पलाक्षं सहस्राक्षं जातं वै रैवते गिरौ
गंगायां पितृतीर्थं च विष्णुपादोद्भवं तथा १४
विपाशायां विपापा च पाटले पुंड्रवर्द्धनम्
नारायणंसुपार्श्वेतुत्रिकूटेविष्णुमंदिरम् १५
विपुले विपुलं नाम कल्याणं मलयाचले
कौरवं कोटितीर्थे च सुगंधं गंधमादने १६
कुब्जाम्रके त्रिसंध्यं तु गंगांद्वारे हरिप्रियम्
शैलं विंध्यप्रदेशे तु बदर्यां सारस्वतं स्मृतम् १७
कालिद्यां कालरूपं च सह्ये वै सायकं स्मृतम्
चांद्रं चंद्रप्रदेशे तु रमणं तीर्थनायकम् १८
यमुनायां मृगाख्यं तु करवीरे कुरूद्भवम्
विनायके पर्वते वै उमाख्यं तीर्थमेव च १९
आरोग्यं भास्करे देशे महाकाले महेश्वरम्
तीर्थं अभयदं नामामृताख्यं विंध्यकंधरे २०
मंडपे विश्वरूपं च स्वाहाख्यं ईश्वरे पुरे
वैगलेयं प्रचंडायां चांडिकंमरकंटके २१
सोमेश्वरं तथा तीर्थे प्रभासे पुष्करं तथा
देवमात्रं सरस्वत्यां पारावततटे स्थितम् २२
महालयं महापद्मे पयोष्ण्यां पिंगलेश्वरम्
सिंहिकायां तथा तीर्थं सौरवेरविसंज्ञकम् २३
कार्तिकं कृत्तिकाक्षेत्रे शांकरं शंकरे गिरौ
उत्पलाख्यं ततो दिव्यं सुभद्रा सिंधुसंगमे २४
गाणपत्यं ततश्चैव पर्वतो विष्णुसंज्ञके
जालंधरे ततः प्रोक्तं तीर्थं विष्णुमुखं च यत् २५
तारे वै तारकं प्रोक्तं पर्वते विष्णुसंज्ञके
देवदारुवने पौंड्रं पौष्कं काश्मीरमंडले २६
भौमं हिमं हिमाद्रौ च तुष्टिकं पौष्टिकं पुनः
कपालमोचनं तीर्थं जातं मायापुरे तथा २७
शंखोद्धारं ततश्चैव देवं वै शंखधारकम्
पिंडे वै पिंडनामानं सिद्धे वैखानसं भवेत् २८
अच्छोदे विष्णुकामं तु धर्मकामार्थमोक्षदम्
औषध्यं चोत्तरेकूले कुशद्वीपे कुशोदकम् २९
मन्मथं हेमकूटे तु कुमुदे सत्यवादनम्
वदंत्यावाश्वकं तीर्थं विंध्ये वै मातृकं स्मृतम् ३०
चित्ते ब्रह्ममयं तीर्थं तीर्थानां पावनं स्मृतम्
एतेषां सर्वतीर्थानामुत्तमं शृणु सुंदरि ३१
विष्णोर्नाममयं तीर्थं न भूतं न भविष्यति
ब्रह्महा हेमहारी वा बालहा गोघ्न एव च ३२
मुच्यते नाममात्रेण प्रसादात्केशवस्य तु
कलौ द्वारवती रम्या धन्यो देवो जनार्दनः ३३
ये पश्यंति नरा देवं मुक्तिस्तेषां सुनिश्चला
एवं धन्यतमं देवं विष्णुं सर्वेश्वरं प्रभुम् ३४
चिंतयामि महादेवि विद्वत्संस्थो जनार्दनम्
अष्टोत्तरं तु तीर्थानां शतमेतदुदाहृतम् ३५
यो जपेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते
एषु तीर्थेषु यः स्नात्वा पश्येन्नारायणं हरिम् ३६
सर्वपापविनिर्मुक्तो याति विष्णोः सनातनम्
जगन्नाथं महातीर्थं लोकानां पावनं स्मृतम् ३७
ये गच्छंति नरश्रेष्ठास्तेपि यांति परां गतिम्
शताष्टकं महापुण्यं श्रावयेत्पितृकर्मणि ३८
इहलोके सुखं भुक्त्वा याति विष्णोः सनातनम्
गोदाने श्राद्धदाने वा अहन्यहनि वा पुनः ३९
देवार्चनविधौ विद्वान्परं ब्रह्माधिगच्छति ४०
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे जंबूद्वी
पतीर्थवर्णनंनाम त्रयस्त्रिंशाधिकशततमोऽध्यायः १३३