पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २४५
← अध्यायः २४४ | पद्मपुराणम् अध्यायः २४५ वेदव्यासः |
अध्यायः २४६ → |
श्रीपार्वत्युवाच-
रघुनाथस्य चरितं साधूक्तं हि त्वया विभो ।
श्रुत्वा धन्यास्मि देवेश त्वत्प्रसादान्महेश्वर १।
वसुदेवसुतस्यास्य कृष्णस्य चरितं महत् ।
श्रोतुमिच्छामि देवेश चरितं कल्मषापहम् २।
रुद्र उवाच-
शृणु देवि प्रवक्ष्यामि कृष्णस्यास्य महात्मनः ।
चरितं वासुदेवस्य सर्वेषां फलदं नृणाम् ३।
यदूनामन्वये देवि वसुदेव इतीरितः ।
देवमीढस्यपुत्रोऽभूत्सर्वधर्मविदांवरः ४।
देवकस्यैव दुहितां देवकीं देववर्णिनीम् ।
उपयेमे विधानेन मथुरायां नृपात्मजः ५।
उग्रसेनस्य पुत्रोऽभूत्कंसः शूरो महाबलः ।
तयो रथवरं तत्र चोदयामास सारथिः ६।
समागतेषु तेष्वेवं पथि रम्ये शुभावहे ।
अंतरिक्षेऽशरीरावाक्प्राह गंभीरया गिरा ७।
आकाशवागुवाच-
अस्यास्तवाष्टमो गर्भः कंस प्राणान्हरिष्यति ८।
रुद्र उवाच-
तच्छ्रुत्वा हंतुमारेभे कंसोऽपि भगिनीं तदा ।
तमब्रवीत्सुसंरब्धं वसुदेवः स्वबुद्धिना ९।
वसुदेव उवाच-
न हंतव्या महाभाग भगिनी धर्मतस्त्वया ।
गर्भानेव समुत्पन्नाञ्जहि राजन्महाबल १०।
रुद्र उवाच-
तथेत्याह तदा कंसो वसुदेवं च देवकीम् ।
निबध्य स्वगृहे रम्ये सर्वभोगे न्यवेशयत् ११।
एतस्मिन्नंतरे देवि पापिभारप्रपीडिता ।
जगाम धरणीदेवी सहसा ब्रह्मणोंतिकम् १२।
समेत्य जगतामीशं ब्रह्माणं परमेष्ठिनम् ।
प्राह गंभीरया वाचा धरणी लोकधारिणी १३।
धरण्युवाच-।
प्रजापते न शक्तास्मि धर्तुं लोकानिमान्प्रभो ।
राक्षसाः पापकर्माणः संस्थिता मयि सुव्रत १४।
जगतः सकलान्धर्मान्विध्वंसंतो महाबलाः ।
अधर्मवर्च्चसः सर्वे नराः पापविमोहिताः १५।
स्वल्पमल्पतरं धर्मं लोकेऽस्मिन्न च दृश्यते ।
धर्मेणैव धृता देव सत्यशौचदमेन च ।
तस्मादधर्मसंभूतं न लोकं धर्तुमुत्सहे १६।
रुद्र उवाच-
इत्युक्त्वा धरणीदेवी तत्रैवांतरधीयत ।
ततः सुरगणाः सर्वे ब्रह्मरुद्रपुरोगमाः १७।
क्षीराब्धेरुत्तरं कूलमधिगम्य जगत्पतिम् ।
तुष्टुवुः स्तुतिभिर्दिव्यैर्मुनयश्च महातपाः ।
ततः प्रसन्नः प्राहेशः सर्वांस्तान्मुनिसत्तमान् १८।
श्रीभगवानुवाच-
भो भो देवगणास्सर्वे किन्निमित्तमिहागताः ।
रुद्र उवाच-
ततः पितामहः प्राह देवदेवं जनार्दनम् १९।
ब्रह्मोवाच-
देवदेव जगन्नाथ पृथिवी भारपीडिता ।
राक्षसा बहवो लोके समुत्पन्ना दुरासदाः २०।
जरासंधश्च कंसश्च प्रलम्बो धेनुकादयः ।
दुरात्मानः प्रबाधंते सर्वलोकान्सनातनान् २१।
भारावतरणं कर्तुं पृथिव्यास्त्वमिहार्हसि ।
रुद्र उवाच-
एवमुक्तो हृषीकेशो ब्रह्मणा परमेष्ठिना ।
प्राह गंभीरया वाचा जगतीपतिरव्ययः २२।
श्रीभगवानुवाच-।
अवतीर्याथ लोकेस्मिन्यदूनामन्वये सुराः ।
अवनीभारमव्यग्रमपास्यामि महाबलाः २३।
रुद्र उवाच-
एवमुक्ताः सुरास्सर्वे नमस्कृत्वा जनार्दनम् ।
स्वान्स्वान्लोकान्समासाद्य परेशं तेन्वचिंतयन् ।
ततो नारायणीं मायां परमेशः समब्रवीत् २४।
श्रीभगवानुवाच-
हिरण्याक्षस्य षट्पुत्रान्समानीयावनीतले ।
वसुदेवस्य पत्न्यां तु देवक्यां सन्निवेशय २५।
अनंतांशः सप्तमोऽत्र संप्रविष्टस्तु माचिरम् ।
तस्याः सपत्न्यां रोहिण्यां ददस्व शुभदर्शने २६।
ततोऽष्टमे ममांशस्तु देवक्यां संभविष्यति ।
नंदगोपस्य पत्न्यां तु यशोदायां सनातनी २७।
तवांशभूता महानिद्रा विंध्यं गत्वा महाचलम् ।
तत्र संपूज्यमाना हि देवैरिंद्र पुरोगमैः ।
हन्याद्दैत्यान्महावीर्याञ्शुंभासुरपुरोगमान् २८।
रुद्र उवाच-
तथेत्युक्त्वा महामाया हिरण्याक्षसुतांस्तदा ।
पर्यायेण च देवक्यां षड्गर्भान्संन्यवेशयत् २९।
ताञ्जघान तदा कंसो जातमात्रान्महाबलः ।
ततस्तु सप्तमो गर्भो ह्यनंतांशेन चोदितः ३०।
वर्धमानं तु गर्भं तं रोहिण्यां समुपानयत् ।
गर्भसंकर्षणात्तस्यां जातः संकर्षणोऽव्ययः ३१।
कृष्णाष्टम्यां तु रोहिण्यां प्रौष्ठपद्यां शुभोदये ।
रोहिणी जनयामास पुत्रं संकर्षणं प्रभुम् ३२।
ततस्तु देवकी गर्भमापेदे भगवान्हरिः ।
आपन्नगर्भां तां दृष्ट्वा कंसो भयनिपीडितः ३३।
ततः सुरगणाः सर्वे हर्षनिर्भरमानसाः ।
तुष्टुवुर्देवकीं तत्र विमानस्था नभस्तले ३४।
ततस्तु दशमे मासि कृष्णे नभसि पार्वति ।
अष्टम्यामर्द्धरात्रे च तस्यां जातो जनार्दनः ३५।
इंदीवरदलश्यामः पद्मपत्रायतेक्षणः ।
चतुर्भुजः सुंदरांगो दिव्याभरणभूषितः ३६।
श्रीवत्सकौस्तुभोरस्को वनमालाविभूषितः ।
वसुदेवस्य जातोऽसौ वासुदेवः सनातनः ३७।
तं दृष्ट्वा जगतां नाथं कृष्णमानकदुंदुभिः ।
उवाच प्रांजलिर्भूत्वा नमस्कृत्य जगन्मयम् ३८।
वसुदेव उवाच-
जातोऽसि मे जगन्नाथ भक्तकल्पतरो प्रभो ।
त्वमेव सर्वदेवानामनादिः पुरुषोत्तमः ३९।
त्वमचिन्त्यमहद्भूतो योगिध्येयः सनातनः ।
मम पुत्रत्वमापन्नो धरण्यां धरणीधर ४०।
दृष्ट्वैतदद्भुतं रूपमैश्वरं पुरुषोत्तम ।
दानवाः पापकर्माणो न सहंते महौजसः ४१।
रुद्र उवाच-
इत्यर्थितः स्तुतस्तेन पद्मनाभः सनातनः ।
उपसंहृतवान्रूपं चतुर्भुजसमन्वितम् ४२।
मानुषेणैव भावेन द्विभुजेन व्यरोचत ।
येचांगरक्षकाः सर्वे दानवास्तत्र संस्थिताः ४३।
ते चापि मायया तस्या मोहितास्तमसावृताः।
एतस्मिन्नंतरे देवमादायानकदुंदुभिः ४४।
प्रययौ नगरात्तूर्णं सर्वदेवैरभिष्टुतः ।
पयोधरे वर्षमाणे नागराजो महाबलः ४५।
फणासहस्रेणाच्छाद्य भक्त्या देवं समन्वगात् ।
तौ गोपुरकपाटौ तु तत्पादस्पर्शनात्तदा ४६।
भिद्यमानौ सुविवृतौ तत्रस्थाश्च विमोहिताः ।
स्रोतस्विनी सुपूर्णाया यमुनापि महात्मनः ४७।
प्रवेशाज्जानुमात्रं तु जलं सा चाप्युपावहत् ।
उत्तीर्य यमुनां सोथाव्रजत्तत्तीरसंस्थितम् ४८।
संस्तूयमानस्त्रिदशैः प्रविवेश यदूत्तमः ।
तत्र नंदस्य पत्नी सा प्रसूता गोव्रजे शुभे ४९।
विमोहिता माययैव सुषुप्ता तमसा वृता ।
तस्यास्तु शयने देवं विनिक्षिप्य स यादवः ५० 6.245.50।
तां कन्यां समुपादाय प्रययौ मथुरां पुनः ।
पत्न्यै दत्वाऽथ तां बालामुवास सुसमाहितः ५१।
रुरोद बालभावात्सा देवकीशयनं गता ।
अथ बालाध्वनिं श्रुत्वा तद्गृहं साङ्गरक्षकाः ५२।
कंसायावेदयामासुर्देवकीप्रसवं शुभम् ।
कंसस्तूर्णमुपेत्यैनां जग्राह बालिकां तदा ५३।
चिक्षेप च शिलापृष्ठे सापि तूर्णं वियत्स्थिता ।
तस्योत्तमांगे स्वपदं दत्वा पूर्णमुखास्थिता ५४।
उवाचाष्टभुजादेवी तदा राक्षसपुंगवम् ।
देव्युवाच-
किं मयाक्षिप्तया मंद जातो यस्त्वां वधिष्यति ५५।
सर्वस्य जगतः स्रष्टा धर्ता हर्ता च यः प्रभुः ।
अस्मिन्लोके समुत्पन्नः स ते प्राणान्हरष्यिति ५६।
रुद्र उवाच-
इत्युक्त्वा तेजसा देवी सहसा पूरयन्नभः ।
जगाम देवगंधर्वैः स्तूयमाना हिमाचलम् ५७।
कंसस्तदोद्विग्नमनाः समाहूय स्वदानवान् ।
प्रलंबचाणूरमुखानुवाचभय पीडितः ५८।
कंस उवाच-
अस्माद्भयात्सुरगणा उपेत्य क्षीरसागरम् ।
आचचक्षुर्हरेः सर्वं रक्षो विध्वंसनं प्रति ५९।
तेषां तु वचनं श्रुत्वा धरण्यां धरणीधरः ।
मानुषेणैव भावेन समुत्पन्नो हि सोऽव्ययः ६०।
तदद्य सर्वे यूयं वै राक्षसाः कामरूपिणः ।
समुद्रिक्तबलान्बालान्मारयध्वमशंकिताः ६१।
रुद्र उवाच-
इत्यादिश्य ततः कंसो वसुदेवं च देवकीम् ।
आश्वास्य मोचयित्वाथ स्ववेश्मांतर्विवेश ह ।
वसुदेवस्ततो गत्वा नंदव्रजमनुत्तमम् ६२।
तेन संपूजितस्तत्र निक्षिप्य तनयं मुदा ।
उवाच नंदपत्नीं तां यशोदां यदुनंदनः ६३।
वसुदेव उवाच-
सुभगे मत्सुतमिमं रोहिणीजठरोद्भवम् ।
स्वपुत्रमिव रक्षस्व भिया कंसादिहागतम् ६४।
रुद्र उवाच-
तथेत्याह तदा तन्वी नंदपत्नी दृढव्रता ।
लब्ध्वैव युगलं पुत्रमुत्पुपोष मुदान्विता ६५।
निक्षिप्य तनयौ गेहं नंदगोपस्य यादवः ।
विश्रब्धः प्रययौ तूर्णं मथुरां कंसपालिताम् ६६।
ततो गर्गः शुभदिने वसुदेवेन नोदितः ।
नंदगोपव्रजं गत्वा तत्रस्थैः पूजितो द्विजः ६७।
विधिना जातकं कर्म कृत्वा देवस्य गोकुले ।
नाम चात्राकरोद्दिव्यं पुत्रयोर्वासुदेवयोः ६८।
संकर्षणो रौहिणेयो बलभद्रो महाबलः ।
राम इत्यादिनामानि पूर्वजस्याकरोद्दिवजः ६९।
श्रीधरः श्रीकरः श्रीमान्कृष्णोऽनंतो जगत्पतिः ।
वासुदेवो हृषीकेश इत्याद्यवरजस्य च ७०।
रामकृष्णाविति ख्यातिमस्मिँल्लोके गमिष्यतः ।
एवमुक्त्वा द्विजश्रेष्ठः संपूज्य पितृदेवताः ७१।
संपूज्यमानो गोपालैराययौ मथुरां पुनः ।
कंसेन प्रेषिता रात्रौ पूतनाबालघातिनी ७२।
विषलिप्तं स्तनं दत्वा कृष्णायामिततेजसे ।
कृष्णस्तु राक्षसीं ज्ञात्वा पपौ गाढं स्तनं भृशम् ७३।
प्राणैः सह महातेजा राक्षस्या यदुपुंगवः ।
सा विह्वलांगी सहसा विच्छिन्नस्नायुबंधना ७४।
पपात वेपमाना सा ममार च महास्वना ।
तस्याः शब्देन महता पूरितं च नभस्तलम् ७५।
त्रस्ताः सर्वे ततो गोपा दृष्ट्वा तां पतितां भुवि ।
कृष्णं च क्रीडमानं तं राक्षस्या महतोरसि ७६।
समुद्विग्नास्ततस्तूर्णमादाय तनयं तदा ।
रक्षोभिया तदा तस्मिन्गोपुरीषेण मूर्द्धनि ७७।
संमार्जयामास तदा गोवालेन तदाननम् ।
नंदगोपः समभ्येत्य सुतमादाय भामिनि ७८।
भगवन्नामभिस्तस्य सर्वांगेषु प्रमार्जनम् ।
कृत्वा तां तामसीं भीमां बहिर्विन्यस्य गोव्रजात् ७९।
ददाह गोपवृंदैश्च त्रासितैस्तत्र गोव्रजे ।
कदाच्छिकटस्याधः शयानो भगवान्हरिः ८०।
प्रसार्य चरणौ तत्र रुरोद मधुसूदनः ।
तस्य पादप्रहारेण शकटं परिवर्तितम् ८१।
विध्वस्तकुंभभाडं तद्विपरीतं पपात वै ।
ततो गोप्यश्च गोपाश्च दृष्ट्वा तच्छकटं महत् ८२।
विस्मयं परमं जग्मुः किमेतदिति शंकिताः ।
यशोदा च तदा तूर्णं बालं जग्राह विस्मिता ८३।
अल्पेनैव हि कालेन बालकौ तौ यदूत्तमौ ।
वर्द्धमानौ यशोदायाः स्तनपानेन पोषितौ ८४।
जानुभ्यामथ हस्ताभ्यां रिंगमाणौ विरेजतुः ।
मायावी राक्षसस्तत्र कृतश्च बटुवेषधृक् ८५।
कृष्णं हंतुं समारब्धो विचचार महीतले ।
ज्ञात्वा कृष्णस्तु तं रक्षो निजघान तलेन वै ८६।
राक्षसेनैव रूपेण निपपात ममार च ।
विचचार ततः सर्वं गोव्रजं मधुसूदनः ८७।
नवनीतं जहाराशु गोपीनां च गृहे गृहे ।
तदा यशोदा कुपिता दाम्ना मध्ये उलूखले ८८।
निबध्य कृष्णं प्रययौ विक्रेतुं गोरसादिकम् ।
कर्षमाणस्ततः कृष्णो दाम्ना बद्ध उलूखले ८९।
यमलार्जुनयोर्मध्ये जगाम धरणीधरः ।
उलूखलेन गोविंदः पातयामास तौ द्रुमौ ९०।
भग्नस्कंधौ निपतितौ स्वरेण धरणीतले ।
तेन शब्देन महता जग्मुस्तत्र महौजसः ९१।
गोपवृद्धास्ततो दृष्ट्वा विस्मयं परमं गताः ।
यशोदापि समुद्विग्ना विमुच्य धरणीधरम् ९२।
तं विस्मितं समादाय स्तनं प्रादान्महात्मने ।
यस्मिन्निबध्यमानस्तु दाम्ना मात्रा जगत्पतिः ९३।
तस्मिन्महर्षिभिः सर्वैर्दामोदर इतीरितः ।
तौ तु किंनरतां प्राप्तौ विमुक्तौ यमलार्जुनौ ९४।
गोपवृद्धास्ततः सर्वे नंदगोपपुरोगमाः ।
महोत्पातमिमं ज्ञात्वा स्थानांतरमुपाययुः ९५।
वृंदावने मनोरम्ये यमुनायास्तटे शुभे ।
निवासं चक्रिरे रम्यं गवांगोपीजनस्य च ९६।
तत्र तौ रामकृष्णौ तु वर्द्धमानौ महाबलौ ।
वत्सपालयुतौ वत्सान्पालयामासतुस्तदा ९७।
गोवत्समध्यगं कृष्णं बको नाम महासुरः ।
बकरूपेण तं हंतुमुद्युक्तोऽत्र यदूत्तमम् ९८।
तं दृष्ट्वा वासुदेवोऽपि लोष्टमुद्यम्य लीलया ।
ताडयामास पक्षांते पपातोर्व्यां महासुरः ९९।
ततः कतिपयाहस्तु गोवत्सान्पालयन्वने ।
छायायां जंबुवृक्षस्य प्रसुप्तौ पल्लवे मृदौ १०० 6.245.100।
एतस्मिन्नंतरे देवो ब्रह्मा देवगणैर्वृतः ।
द्रष्टुं कृष्णं समागम्य सुप्तौ दृष्ट्वा यदूत्तमौ १०१।
वत्सान्गोपशिशून्हृत्वा जगाम त्रिदिवं पुनः ।
प्रबुद्धौ तौ समालोक्य विनष्टाञ्शिशुवत्सकान् १०२।
गोवत्सागोपबालाश्च क्व गता इति विस्मितौ ।
ज्ञात्वा कृष्णस्तु तत्कर्म प्रजापतिकृतं तदा १०३।
तथैव ससृजे बालान्गोवत्सांश्च सनातनः ।
यथातूर्णं यथारूपं तथैव मधुसूदनः १०४।
ससर्ज वत्सान्गोपालानविता जगतां प्रभुः ।
दृष्ट्वा सायाह्नसमये गावस्त्वेषां च मातरः १०५।
स्वान्स्वान्वत्सानुपागम्य यथापूर्वं प्रवर्तिताः ।
एवं संवत्सरे काले गते तत्र महात्मनः १०६।
प्रजापतिः पुनस्तस्मै ददौ वत्सान्सबालकान् ।
कृतांजलिपुटो भूत्वा परिणीय प्रणम्य च ।
भयादुवाच गोविंदं ब्रह्मा त्रिभुवनेश्वरः १०७।
ब्रह्मोवाच-
नमो नमस्ते सर्वात्मंस्तत्वज्ञानस्वरूपिणे ।
नित्यानंदस्वरूपाय प्रियतात्मन्महात्मने १०८।
अणुर्बृहत्स्थूलतररूपः सर्वगतोऽव्ययः ।
अनादिमध्यांतरूप स्वरूपात्मन्नमोस्तु ते १०९।
नित्यज्ञानबलैश्वर्य वीर्यतेजोमयस्य च ।
महाशक्ते नमस्तुभ्यं पूर्णषाड्गुण्यमूर्तये ११०।
त्वं वेदपुरुषो ब्रह्मन्महापुरुषएव च ।
शरीरपुरुषत्वस्य छंदःपुरुष एव च १११।
चत्वारः पुरुषास्त्वं च पुराणः पुरुषोत्तम ।
विभूतयस्तव ब्रह्मन्पृथिव्यग्न्यनिलादयः ११२।
तव वाचा समुद्भूतौ क्ष्मा वह्नी जगदीश्वर ।
अंतरिक्षं च वायुश्च सृष्टौ प्राणेन ते विभो ११३।
चक्षुषा तव संसृष्टौ द्यौश्चादित्यस्तथाव्यय ।
दिशश्च चंद्रमाः सृष्टाः श्रोत्रेण तव चानघ ११४।
अपांस्रावश्च वरुणो मनसा ते महेश्वर ।
उक्ते महति मीमांसे यत्तद्ब्रह्मप्रकाशते ११५।
तथैव चाध्वरेष्वेतदेतदेव महाव्रते ।
छंदोगे ये नभस्येतद्दिव्ये तद्वायुरेव तत् ११६।
आकश एतदेवेदमोषधीष्वेवमेव च ।
नक्षत्रेषु च सर्वेषु ग्रहेष्वेतद्दिवाकरे ११७।
एवंभूतेष्वेवमेव ब्रह्मेत्याचक्षते श्रुतिः ।
तदेव परमं ब्रह्म प्रज्ञातं परितोमृतम् ११८।
हिरण्मयोऽव्ययो यज्ञः शुचिः शुचिषदित्यपि ।
वैदिकान्यभिधेयानि तथैतान्यस्य न क्वचित् ११९।
चक्षुर्मयं श्रोत्रमयं छंदोमय मनोमयम् ।
वाङ्मयं परमात्मानं परेशं शंसति श्रुतिः १२०।
इति सर्वोपनिषदामर्थस्त्वं कमलेक्षण ।
स्तोतुं न शक्तोऽयं त्वां तु सर्ववेदांतपारगम् १२१।
महापराधमेतत्ते वत्सापहरणं मया ।
कृतं तत्क्षम्यतां नाथ शरणागतवत्सल १२२।
महेश्वर उवाच-
एवं स्तुत्वा हरिं वेधाः प्रणम्य च पुनः पुनः ।
वत्सान्दत्वा पुनस्तस्मै प्रययौ स्वयमालयम् १२३।
हृदि कृत्वा सदा देवि बालरूपं हरिं विधिः ।
उवास त्रिदशैः सार्द्धं हृष्टपुष्टो महातपाः १२४।
कृष्णेन सृष्टा वत्सा वै पूर्ववत्सास्तथार्भकाः ।
अवापुरैक्यतां तत्र पश्यतां त्रिदिवौकसाम् १२५।
कृष्णस्तु वत्सपालैर्वै प्रययौ नंदगोकुलम् ।
ततः कतिपयाहस्सु गोपालैर्यदुपुंगवः १२६।
ह्रदं गत्वाऽथ कालिंद्यास्तत्रस्थं सुमहाविषम् ।
सहस्रशीर्षबलिनं नागराजानमच्युतः १२७।
निष्पिष्य फलसाहस्रं पादेनैकेन लीलया ।
प्राणसंशयमापन्नं चकार मधुसूदनः १२८।
स कालियो लब्धसंज्ञस्तमेव शरणं ययौ ।
ररक्ष भगवान्कृष्णो नागं त्यक्तविषं तदा १२९।
वैनतेयभयाद्भीतं स्वपदेनांक्य मूर्द्धसु ।
ह्रदाद्विवासयामास कालिंद्या यदुपुंगवः १३०।
त्यक्त्वा स तं ह्रदं तूर्णं पुत्रदारसमन्वितः ।
नमस्कृत्वाथ गोविंदं प्रययौ कालियस्तदा १३१।
विषदग्धास्तु ये पूर्वं तत्तीरस्थाश्च शाखिनः ।
कृष्णेन वीक्षितास्तूर्णं फलिनः पुष्पिणोऽभवन् १३२।
अथ कालेन कौमारमवाप्य मधुसूदनः ।
गोवृंदं पालयामास सर्वदेवमयः प्रभुः १३३।
स्वसमानवयोभिस्तु गोपालैस्तु यदूत्तमः ।
वृंदावने मनोरम्ये सरामो विचचार ह १३४।
तत्र हत्वा महाघोरं सर्परूपं महासुरम् ।
अपहत्य महाकायं मेरुमंदारगौरवम् १३५।
धेनुकस्य वनं प्राप्य तालहिंतालगह्वरम् ।
प्रविश्यतद्वनंरम्यंफलितंतालगह्वरम् ।
धेनुकं पर्वताकारं खररूपधरं सदा १३६।
पादौ गृह्य समुत्क्षिप्य तालेन विजघान ह ।
तत्क्षणादेव तत्पालास्तदंते रेमिरे तदा १३७।
निष्क्रम्य तद्वनात्तूर्णं भांडीरं वटमागताः ।
तत्र ते रामकृष्णाभ्यां चिक्रीडुर्बाललीलया १३८।
गोपवेषेण तत्रागात्प्रलंबोनाम राक्षसः ।
रामं स्वपृष्ठमारोप्य ययौ तूर्णं नभस्तलम् १३९।
मत्वा तं राक्षसं रामो मुष्टिना तस्य मूर्द्धनि ।
ताडयामास रोषेण विह्वलांगस्ततोऽपतत् १४०।
राक्षसेनैव रूपेण विनदन्भैरवं स्वनम् ।
भिन्नशीर्षतनुस्तत्र ममार रुधिरोक्षितः १४१।
ततः प्रदोषसमयेगोव्रजे नंदनंदनः ।
उवासगोपकन्याभिः क्रीडन्कौमोदवर्चसे १४२।
अरिष्टनामा दैत्येशो गत्वा तत्र वृषाकृतिः ।
कृष्णं हंतुं समागत्य जगर्ज च महास्वनम् १४३।
तं दृष्ट्वा विद्रुताः सर्वे गोपाला भयपीडिताः ।
कृष्णोऽपि दृष्ट्वा तं रौद्रमागतं दनुजाधिपम् १४४।
तालवृक्षं समुत्पाट्य शृंगमध्ये व्यपीडयत् ।
स तु भग्नशिरः शृंगो वमन्वै रुधिरं बहु १४५।
पपात भीमवेगेन निनदंस्त्यक्तजीवितः ।
इत्थं हत्वा महाकायमरिष्टं दनुजाधिपम् १४६।
आहूय गोपबालांश्च तत्रैवोवास गोव्रजे ।
ततः कतिपयाहस्सु केशी नाम महासुरः १४७।
हयकायेन गोविंदं हंतुं व्रजमुपाययौ ।
स गत्वा गोव्रजं रम्यमुच्चैर्हेषामथाकरोत् १४८।
तेन शब्देन महता पूरितं भुवनत्रयम् ।
भीताः सर्वे सुरगणाः शंकमाना युगक्षयम् १४९।
तत्रस्था मोहिताः सर्वे गोपागोप्यश्च विह्वलाः ।
लब्धसंज्ञास्तु ते सर्वे विद्रुताश्च समंततः १५० 6.245.150।
गोप्यस्तु शरणं जग्मुः कृष्णं त्राहीति चाब्रुवन् ।
न भेतव्यं न भेतव्यमित्याह भक्तवत्सलः १५१।
समाश्वास्य ततस्तूर्णं मुष्टिना वासवानुजः ।
ताडयामास शिरसि तस्य दैत्यस्य लीलया १५२।
विभिन्नदंतनेत्रोऽसौ विननाद महास्वनम् ।
महाशिलां समुत्क्षिप्य तस्यांगे वै न्यपातयत् १५३।
स तु चूर्णितसर्वांगो निनदन्भैरवं स्वनम् ।
पपात सहसा भूमौ ममार च महासुरः १५४।
केशिनं निहतं दृष्ट्वा दिवि देवगणा भृशम् ।
मुमुचुः पुष्पवर्षाणि साधुसाध्विति चाब्रुवन् १५५।
इत्थं शिशुत्वे वै दैत्यान्हरिर्हत्वा बलोत्कटान् ।
स मुमोद सुखेनैव बलरामसमन्वितः १५६।
इंदीवरदलश्यामः पद्मपत्रनिभेक्षणः ।
पीतांबरधरः स्रग्वी वनमालाविभूषितः १५७।
कौस्तुभोद्भासितोरस्कश्चित्रमाल्यानुलेपनः ।
विचित्राभरणैर्युक्तः कुंडलाभ्यां विराजितः १५८।
आमुक्ततुलसीमालः कस्तूरीतिलकांचितः ।
सुस्निग्धनीलकुटिल कबरीकृतकेशवान् १५९।
बद्धैर्नानाविधैः पुष्पैर्बर्हिबर्हावतंसकः ।
रक्तारविंदसदृश हस्तपादतलाधरः १६०।
पक्षमध्यगशीतांशु कलंकभ्रूलताननः ।
हारनूपुरकेयूरैः कटकाभ्यां विराजितः १६१।
वृंदावने महारम्ये फलपुष्पविराजिते ।
रम्यं निनादयन्वेणुं तत्रास्ते यदुनंदनः १६२।
अवधीरित कंदर्पकोटिलावण्यमच्युतम् ।
सर्वागोपस्त्रियो दृष्ट्वा मन्मथास्त्रेण पीडिताः १६३।
पुरा महर्षयः सर्वे दंडकारण्यवासिनः ।
दृष्ट्वा रामं हरिं तत्र भोक्तुमैच्छत्सुविग्रहम् १६४।
ते सर्वे स्त्रीत्वमापन्नाः समुद्भूतास्तु गोकुले ।
हरिं संप्राप्य कामेन ततो मुक्ता भवार्णवात् १६५।
क्रोधेनैव यथा दैत्याः समेत्य मधुसूदनम् ।
निधनं प्राप्य संग्रामे हता मुक्तिमवाप्नुयुः १६६।
कामक्रोधौ नृणां लोके निरयस्यैव कारणम् ।
हरिं समेत्य भावेन मुक्ता गोप्यः सुरद्विषः १६७।
कामाद्भयाद्वा द्वेषाद्वा ये भजंति जनार्दनम् ।
ते प्राप्नुवंति वैकुंठं किं पुनर्भक्तियोगतः १६८।
तस्य वेणुध्वनिं श्रुत्वा रजन्यां बल्लवांगनाः ।
शयनादुत्थिताः सर्वा विकीर्णांबरमूर्द्धजाः १६९।
त्यक्त्वा पतीन्सुतान्बधूंस्त्यक्त्वा लज्जां कुलं स्वकम् ।
जगत्पतिं समाजग्मुः कंदर्पशरपीडिताः १७०।
समेत्य गोप्यः सर्वास्तु भुजैरालिंग्य केशवम् ।
बुभुजुश्चाधरं देव्यः सुधामृतमिवामराः १७१।
ताभिः सर्वाभिरात्मेशः क्रीडयामास गोव्रजे ।
तेनापि ताः स्त्रियः सर्वा रेमिरे निर्भया व्रजे १७२।
इत्येवं रमयामासुरहन्यहनि केशवम् ।
वृंदावने मनोरम्ये कालिंदीपुलिने तथा १७३।
पार्वत्युवाच-
धर्मसंरक्षणार्थाय जगत्यामवतीर्य सः ।
परदाराभिगमनं कथं कुर्याज्जनार्दनः १७४।
रुद्र उवाच-
स्वशरीरे परेष्वंगभेदो नास्ति शुभानने ।
सर्वं जगच्च तस्यांगं पृथगत्र न विद्यते १७५।
स्त्रीपुंभेदो न वै तस्य पुरुषस्य महात्मनः ।
नैसर्गिकस्य भर्तृत्वादात्मेशत्वाज्जगत्पतेः १७६।
तथापहृतपाप्मत्व सामर्थ्याद्व्यापिनः प्रभोः ।
दोषोऽत्र नास्ति सुभगे देवस्य परमात्मनः १७७।
वसिष्ठ उवाच-
एवमुक्त्वा तु गिरिजां रुद्रः श्रीत्रिपुरान्तकः ।
कृष्णस्यशेषं चरितमाख्यातुं संप्रचक्रमे १७८।
रुद्र उवाच-
शरत्काले तु संप्राप्ते नंदगोपपुरोगमाः ।
गोपा महोत्सवं कर्तुमारब्धास्त्रिदशांपतेः १७९।
तदुत्सवं तु गोविंदो निवार्याथ शतक्रतोः ।
गोवर्द्धनाद्रिराजस्य कारयामास वीर्यवान् १८०।
ततः क्रुद्धः सहस्राक्षो नंदगोपस्य गोव्रजे ।
ववर्ष च महावृष्टिं सप्तरात्रं निरंतरम् १८१।
गोवर्द्धनं समुत्पाट्य महाशैलं जनार्दनः ।
गवां संरक्षणार्थाय धारयामास लीलया १८२।
तस्यच्छायां गिरेः प्राप्य गोपागोप्यश्च सुव्रते ।
अवसंश्च सुखेनैव हर्म्यांतरगता इव १८३।
ततः शक्रः सहस्राक्षो भीतः संभ्रांतचेतसा ।
वारयामास तद्वर्षं ययौ नंदस्य तद्व्रजम् १८४।
कृष्णोऽपि तं महाशैलं यथापूर्वं निवेशयत् ।
गोपवृद्धाश्च ते सर्वे नंदगोपपुरोगमाः १८५।
परिपूज्य च गोविंदं परं विस्मयमाययुः ।
ततः शतक्रतुर्देवः समेत्य मधुसूदनम् ।
तुष्टाव प्रांजलिर्भूत्वा हर्षगद्गदया गिरा १८६।
इन्द्र उवाच-
नमस्ते पुंडरीकाक्ष सर्वज्ञाति त्रिविक्रम ।
त्रिगुणातीत सर्वेश विश्वस्यात्मन्नमोस्तु ते १८७।
त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः क्रतुर्हविः ।
त्वमेव सर्वदेवानां पिता माता च केशव १८८।
अग्रे हिरण्यगर्भस्त्वं भूतस्य समवर्त्तत ।
त्वमेवैकः पतिरसि पुरुषस्त्वं हिरण्मयः १८९।
पृथिवीं द्यामिमां देव त्वमेव धृतवानसि ।
आत्मदः फलदो यश्च स्यादेवं जगदीश्वर १९०।
अवाप्तं तच्च त्रिदशैः प्रकाशं जगतांपतेः ।
अमृतं चैव मृत्युश्च छाया तव सनातन १९१।
तस्मै देवाय भवते विधेम हविषा वयम् ।
हेमवंत इमे यस्य समुद्भूता हिरण्मयाः १९२।
समुद्रा रसना यस्य वाहस्तस्यैव केशव ।
इमा दिशः प्रतिदिशो वायुर्यस्य तवाव्यय १९३।
तस्मै देवाय भवते विधेम हविषा वयम् ।
येन त्वया समारूढा पृथिवी वर्द्धता पुनः १९४।
स्वर्लोकः स्तंभितो येन त्वया ब्रह्मन्महेश्वर ।
त्वमंतरिक्षे रजसोवसानः सर्वगोव्ययः १९५।
तस्मै देवाय भवते विधेम हविषा वयम् ।
यं क्रंदसि राजमाने तप्तभासे गुणान्विते १९६।
अभ्यैक्षेतां च मनसा अवश्यं श्रीश्च सर्वदा ।
यत्रास्ति सूर उदितो विभाति परमे पदे १९७।
तस्मै देवाय भवते विधेम हविषा वयम् ।
यदापो बृहतीर्विश्व ब्रह्ममायं जनार्दनाः १९८।
गर्भं दधानाः सर्गेऽत्र जनयंतीरघौघकृत् ।
समवर्तत देवानामसुरेकोऽव्ययो विभुः १९९।
तस्मै देवाय भवते विधेम हविषा वयम् ।
या आपो महिना दक्षं पर्यपश्यत्प्रजापतिम् २००। 6.245.200।
यज्ञं दधानास्तत्रादौ जनयंतीर्हविः पुमान् ।
यो देवेष्वेक एवासीदधिदेवः परात्परः २०१।
तस्मै देवाय भवते विधेम हविषा वयम् ।
मा नो हिंसीज्जनिता यः पृथिव्या अव्ययः पुमान् २०२।
यो वा दिवं सत्यधर्मा जजानाव्यय ईश्वरः ।
यश्चंद्रो बृहतीरपो जजान सकलं जगत् २०३।
तस्मै देवाय भवते विधेम हविषा वयम् ।
एतानि विश्वजातानि बभूव परिता प्रभो २०४।
त्वदुत्पन्नप्रजाध्यक्ष भविष्यद्भूतमच्युतः ।
यजामस्त्वां च यत्कामास्तन्नो अस्तु समासतः २०५।
त्रयाणां पतयः स्याम तव कारुण्यवीक्षणात् ।
हिरण्मयाख्यः पुरुषो हिरण्यश्मश्रुकेशवान् २०६।
आप्रणखात्सर्वं हिरण्यं सविता तु हिरण्यभाक् ।
असौ सर्वगतो ब्रह्मा यस्त्वादित्ये व्यवस्थितः २०७।
तद्वै देवस्य सवितुर्वरेण्यं भर्ग उत्तमम् ।
सदा धीमहि ते रूपं धियो यो नः प्रभाति हि २०८ ।
नमस्ते पुंडरीकाक्ष श्रीश सर्वेश केशव ।
वेदांतवेद्य यज्ञेश यज्ञरूप नमोस्तु ते २०९।
नमस्ते वासुदेवाय गोपवेषाय ते नमः ।
तत्सर्वध्वंसनादेव अपराधं मया कृतम् २१०।
तत्क्षम्यतां जगन्नाथ घृणाब्धे पुरुषोत्तम ।
अल्पेनैव हि कालेन जहि कंसं दुरासदम् ।
देवानां हि हितं कृत्वा सुखेवस्थाय मेदिनीम् २११।
महादेव उवाच-
इति संस्तुत्य गोविंदं सर्वदेवेश्वरो हरिः ।
सुधामृतेनाभ्यषिंचद्दिव्यांबरविभूषणैः २१२।
अर्चयित्वा तु देवेशं जगाम त्रिदिवं पुनः ।
गोपवृद्धाश्च गोप्यश्च दृष्ट्वा तत्र शतक्रतुम् २१३।
तेन ते पूजिताश्चैव प्रहर्षमतुलं ययुः ।
रामकृष्णौ महावीर्यौ दिव्याभरणभूषितौ २१४।
नंदस्य गोव्रजे रम्ये सुसुखेनैव तस्थतुः ।
एतस्मिन्नंतरे देवि नारदो मुनिसत्तमः २१५ ।
सहसा मथुरां गत्वा कंसस्यांतिकमाविशत् ।
राज्ञा संपूजितास्तत्र समासीनः शुभासने २१६।
सर्वं विज्ञापयामास चेष्टितं शार्ङ्गिणस्तदा ।
देवतानां समुद्योगं जन्म वै केशवस्य च २१७।
तथा च वसुदेवेन पुत्रनिक्षेपणं व्रजे ।
निधनं राक्षसानां च सर्पराजविवासनम् २१८।
धारणं गिरिवर्यस्य शतक्रतुसमागमम् ।
निवेदयित्वा कंसस्य सर्वं निरवशेषतः २१९।
प्रययौ ब्रह्मभवनं पूजितस्तेन रक्षसा ।
कंसः समुद्विग्नमना मंत्रिभिः परिवेष्टितः २२०।
मंत्रयामास तैः साकमात्मनो निधनं प्रति ।
तत्र बुद्धिमतां श्रेष्ठमक्रूरं धर्मवत्सलम् ।
उवाचात्महितं कार्यं दानवेंद्रो महाबलः २२१।
कंस उवाच-
मद्भयात्त्रिदशाः सर्वे शतक्रतुपुरोगमाः ।
विष्णोः समीपमागत्य भयार्त्ताः शरणं गताः २२२।
स तेषामभयं दत्वा भगवान्भूतभावनः ।
उत्पन्नो देवकीगर्भे मां हंतुं मधुसूदनः २२३।
वसुदेवोऽपि दुष्टात्मा वंचयित्वा तु मां निशि ।
पुत्रं निक्षिप्तवान्गेहे नंदस्य सुदुरात्मनः २२४।
बालेनैव दुराधर्षो विजघान महासुरान् ।
मां हंतुमपि संनद्धो भवेदेव न संशयः २२५।
स तु हंतुं न वै शक्तः सेंद्रैरपि सुरासुरैः ।
उपायेनैव हंतव्यः समानीय मया तदा २२६।
मदोत्कटैस्तु मातंगैर्मल्लैश्च वरवाजिभिः ।
येनकेनाप्युपायेन हंतुं शक्यमिहैव तु २२७।
तस्मात्त्वं गोव्रजं गत्वा कृष्णं रामं च यादव ।
सर्वान्गोपालवृद्धांश्च नंदगोपपुरोगमान् ।
उपभोक्तुं धनुर्यागामिहानय यदूत्तम २२८।
महादेव उवाच-।
तथेत्युक्त्वा यदुश्रेष्ठो रथमारुह्य वीर्यवान् ।
प्रययौ गोकुलं रम्यं कृष्णं संदर्शनोत्सुकः २२९।
महाभागवतश्रेष्ठो गवां मध्ये व्यवस्थितम् ।
ददर्श कृष्णमक्लिष्टमक्रूरो विनयान्वितः २३०।
नीलनीरदसंकाशं सर्वाभरणभूषितम् ।
पद्मपत्रं विशालाक्षं दीर्घबाहुमनामयम् २३१।
पीतवस्त्रेण संवीतं सर्वावयवसुंदरम् ।
कौस्तुभोद्भासितोरस्कं रत्नकुंडलशोभितम् २३२।
तुलसीवनमालाढ्यं वन्यपुष्पावतंसकम् ।
गोपकन्यापरिवृतं दृष्ट्वा तत्र जनार्दनम् २३३।
पुलकांकितसर्वांगो हर्षाश्रुप्लुतलोचनः ।
अवरुह्य रथात्तस्मात्प्रणनाम यदूद्वहः २३४।
हर्षात्समेत्य गोपालं परिणीय प्रणम्य च ।
रक्तारविंदसदृशौ वज्रचक्राङ्कचिह्नितौ २३५।
स्वमूर्ध्नि धृत्वा पादाब्जौ प्रणनाम पुनः पुनः ।
कैलासशिखराभासं नीलांबरधरं प्रभुम् २३६।
शरत्पूर्णेंदुसदृशं मुक्तादामविभूषितम् ।
बलरामं ततो दृष्ट्वा प्रणनाम स यादवः २३७।
हर्षेणोत्थाप्य तौ वीरौ परिगृह्य यदूत्तमौ ।
गृहमाजग्मतुर्वीरौ तेनाक्रूरेण वृष्णिना २३८।
नंदगोपस्तु तं दृष्ट्वा यदुश्रेष्ठं समागतम् ।
अभिगम्य महातेजा निवेश्य परमासने २३९।
अर्चयामास विधिवदर्घ्यपाद्यादिभिर्मुदा ।
वस्त्रैः समर्हणैर्दिव्यैरर्चयामास भक्तितः २४०।
अक्रूरो रामकृष्णाभ्यां वस्त्राण्याभरणानि च ।
प्रददौ नंदगोपाय यशोदायै च यादवः २४१।
पृष्ट्वा कुशलमव्यग्रमासीनस्तु कुशासने ।
राजकार्याणि सर्वाणि संपृष्टोवाच बुद्धिमान् २४२।
अक्रूर उवाच-
एष कृष्णो महातेजास्साक्षान्नारायणोऽव्ययः ।
देवतानां हितार्थाय साधूनां रक्षणाय च २४३।
भूभारकविनाशाय धर्मसंस्थापनाय च ।
कंसादीनां तु दैत्यानां सर्वेषां निधनाय च २४४।
संप्रार्थितः सुरगणैर्मुनिभिश्च महात्मभिः ।
देवकीजठरे जातः प्रावृट्काले महानिशि २४५।
भयात्कंसस्य देवेशमानीयानकदुंदुभिः ।
तव गेहे तदा रात्रौ पुत्रं निःक्षिप्तवान्हरिम् २४६।
तस्मिन्नेव तु कालेऽपि यशोदा तु यशस्विनी ।
कन्यां मायांशसंभूतां प्रसूता तु शुभाननाम् २४७।
तया संमोहितं सर्वमिदं व्रजकुलं शुभम् ।
मूर्च्छिताया यशोदायाः शयने यदुपुङ्गवम् २४८।
कृष्णं निक्षिप्य तां कन्यामादाय स्वगृहं ययौ ।
तां तु निक्षिप्य देवक्याः शयने बहिरागमत् २४९।
सा रुरोद ततः क्षिप्र देवकीशयने स्थिता ।
तच्छ्रुत्वा सहसा कंसः कन्यामादाय सुव्रत २५० 6.245.250।
भ्रामयित्वा शिलापृष्ठे चिक्षेपोत्पत्य वीर्यवान् ।
समुत्थाय च सा कन्या सायुधाष्टभुजान्विता ।
गगनस्था रुषा कंसं प्राह गंभीरया गिरा २५१।
कन्योवाच-
योऽनंतः सर्वदेवानामीश्वरः पुरुषोत्तमः ।
यातस्तव वधार्थाय गोव्रजे दानवाधम २५२।
अक्रूर उवाच-
इत्युक्त्वा सा महामाया हिमवंतं समाययौ ।
तदाप्रभृति दुष्टात्मा भयादुद्विग्नमानसः २५३।
दानवान्प्रेषयामास निधनाय महात्मनः ।
बालेनैव हताः सर्वे लीलयानेन धीमता २५४।
अत्यद्भुतानि कर्माणि कृतवान्परमेश्वरः ।
गोवर्द्धनादिधरणं नागराजविवासनम् २५५।
समागमं महेंद्रस्य निधनं सर्वरक्षसाम् ।
श्रुत्वा देवर्षिणा ख्यातमतीव भयपीडितः २५६।
इतो नीत्वा महाबाहू रामकृष्णौ दुरासदौ ।
मदोत्कटैर्महानागैर्मल्लैर्वा हंतुमुद्यतः २५७।
कृष्णस्यानयनार्थाय प्रेरयामास मामिह ।
वसुदेवस्य दुष्टात्मा निग्रहं कृतवानसौ २५८।
एतत्सर्वं समाख्यातं चेष्टितं सुदुरात्मनः ।
उपभोक्तुं धनुर्यागं यूयं सर्वे व्रजौकसः २५९।
दध्याज्यादिगृहीत्वा वै श्वोभूते गंतुमर्हथ ।
सहिता रामकृष्णाभ्यां गोपाः सर्वे तदंतिकम् २६०।
कृष्णेन निहतः कंसो भविष्यति न संशयः ।
परित्यज्य भयं तस्माद्गमिष्यध्वं नृपाज्ञया २६१।
ईश्वर उवाच-
इत्युक्त्वा स तदाक्रूरस्तूष्णीमासीत्सुबुद्धिमान् ।
तस्य तद्वचनं श्रुत्वा दारुणं रोमहर्षणम् २६२।
नंदगोपमुखाः सर्वे गोपवृद्धा भयातुराः ।
अभाषिरे महादुःखसागरे शोकमोहिताः २६३।
तानाश्वास्य हरिस्तत्र दृष्ट्वा कमललोचनः ।
न भीः कार्येति संप्राह राक्षसं प्रति वीर्यवान् २६४।
विनाशाय प्रयास्यामि कंसस्यास्य दुरात्मनः ।
मथुरां सह रामेण भवद्भिः सह संगतः २६५।
तत्र हत्वा दुरात्मानं कंसं दानवपुंगवम् ।
सर्वांश्च राक्षसान्हत्वा पालयिष्यामि मेदिनीम् २६६।
तस्माच्छोकं परित्यज्य गच्छध्वं मथुरां पुरीम् ।
एवमुक्तास्तु हरिणा गोपानंदपुरोगमाः २६७।
मुहुर्मुहुः परिष्वज्य मूर्द्धघ्राणं प्रचक्रिरे ।
अप्रमेयानि कर्माणि विचार्य सुमहात्मनः २६८।
अक्रूरवचनाच्चैव गोपाः सर्वे गतव्यथाः ।
दुग्धदध्याज्ययुक्तानि शुचीनि विविधानि च २६९।
पक्वान्नानि सुहृद्यानि स्वादूनि मधुराणि च ।
अक्रूराय ददौ सौम्यं यशोदा भोजनं बहु २७०।
सहितो रामकृष्णाभ्यां नंदाद्यैर्गोपसत्तमैः ।
सुहृद्भिर्बालवृद्धैश्च भवने समलंकृते २७१।
दत्तं यशोदया सौम्यं भोजनं कलुषापहम् ।
बुभुजे यादवश्रेष्ठो ह्यन्नं रोगापहं शुभम् २७२।
भोजयित्वा यथान्यायं दत्त्वा च मनमंभसा ।
सकर्पूरं सतांबूलं ददौ तस्मै दृढव्रता २७३।
अस्तंयाते दिनकरे संध्यामन्वास्य यादवः ।
सहितो रामकृष्णाभ्यां भुक्त्वा क्षीरान्नमुत्तमम् २७४।
ताभ्यामेव तदाक्रूरः शयनं समुपाविशत् ।
तस्मिंस्तु भवने श्रेष्ठे रम्ये दीपविराजिते २७५।
श्लक्ष्णे विचित्रपर्यंके नानापुष्पविराजिते ।
तस्मिन्शेते हरिः कृष्णः शेषे नारायणो यथा २७६।
तं दृष्ट्वा सहसाऽक्रूरो हर्षाश्रुपुलकांकितः ।
विहाय तामसीं निद्रां सुश्रेयः समुदीक्ष्य वै २७७।
पादसंवाहनं विष्णोश्चक्रे भागवतोत्तमः ।
एतावता मे साफल्यं जीवितं च सुजीवितम् २७८।
इदं त्रैलोक्यमैश्वर्यमिदं वै सुखमुत्तमम् ।
इदं राज्यमिदं धर्म्यमिदं मोक्षसुखं परम् २७९।
न शक्यं मनसा स्मर्तुं शिवब्रह्मादिदैवतैः ।
सनकाद्यैर्मुनींद्रैस्तु वसिष्ठाद्यैर्महर्षिभिः २८०।
तच्छ्रीशस्य पदद्वंद्वं शरदंबुरुहोज्ज्वलम् ।
संस्पृष्टमिंदिरा लक्ष्म्या कराभ्यां सुसुखं परम् २८१।
दिष्ट्या लब्धं मया विष्णोः श्रीपादाब्जयुगं शुभम् ।
व्यतीता सा क्षणाद्रात्रिस्तब्रह्मानंदगौरवात् २८२।
ततः प्रभाते विमले दिवि देवगणोत्तमैः ।
संस्तूयमानो बुबुधे तस्मात्तु शयनाद्धरिः २८३।
उपस्पृश्य यथान्यायं सह रामेण धीमता ।
पपात पादयोर्मातुः प्रयाणं चाभ्यरोचयत् २८४।
समुत्थाप्य यशोदा तु दुःखहर्षसमन्विता ।
अश्रुपूर्णमुखी पुत्रौ प्रेम्णा संपरिषस्वजे २८५।
आशिषं प्रददौ देवी तनयाभ्यां दृढव्रता ।
विससर्ज महावीरौ समालिङ्ग्य मुहुर्मुहुः २८६।
अक्रूरोऽपि यशोदायै प्रणम्य प्राह सांजलि २८७।
अक्रूर उवाच-
प्रयास्यामि महाभागे प्रसादं कुरु मेऽनघे ।
एष कृष्णो महाबाहुः कंसं हत्वा महाबलम् २८८।
सर्वस्य जगतो राजा भविष्यति न संशयः ।
तस्माच्छोकं परित्यज्य सुखी भव वरानने २८९।
ईश्वर उवाच-
इत्युक्तया तयाऽक्रूरो विसृष्टो यदुसत्तमः ।
सहितो रामकृष्णाभ्यामारुरोह रथोत्तमम् २९०।
प्रययौ मथुरां शीघ्रं स्तूयमानोऽप्सरोगणैः ।
नंदगोपमुखाः सर्वे गोपवृद्धास्तमन्वयुः २९१।
पुनर्गृहीत्वा दध्याज्यं फलानि विविधानि च ।
तं प्रयांतं हरिं दृष्ट्वा गोकुलाद्गोपयोषितः २९२।
अनुजग्मुर्विनिष्क्रांतं रथस्थं मधुसूदनम् ।
निवर्त्तयामास हरिस्ताः सर्वा गोपयोषितः २९३।
शोकसंतप्तहृदया विलेपुः कमलेक्षणम् ।
हा कृष्ण कृष्ण कृष्णेति गोविंदेत्यरुदन्मुहुः २९४।
अश्रुपूर्णेक्षणादीना रुदंत्यस्तत्र संस्थिताः ।
अथाक्रूरो रथं दिव्यं चोदयामास गोव्रजात् २९५।
सहितो रामकृष्णाभ्यां मथुरां प्रति यादवः ।
उत्तीर्य यमुनां शीघ्रं कूले स्थाप्य रथोत्तमम् २९६।
अवरुह्य रथात्तस्मात्स्नातुं तत्रोपचक्रमे ।
तथा चावश्यकं कर्तुं निमज्ज्याथ जले शुभे २९७।
तत्राघमर्षणं सम्यग्जपन्भागवतोत्तमः ।
ददर्श तौ जले तत्र रामकृष्णौ शुभान्वितौ २९८।
शरत्कोटींदुसंकाशं नीलांबरधरं प्रभुम् ।
दिव्यचंदनदिग्धांगं मौक्तिकाभरणच्छविम् २९९।
रक्तारविंदनयनं पुडंरीकावतंसकम् ।
रामं ददर्श कृष्णं च नीलनीरदसन्निभम् ३०० 6.245.300।
दिव्यपीतांबरधरं पुंडरीकायतेक्षणम् ।
हरिचंदनलिप्तांगं नानारत्नविभूषितम् ३०१।
दृष्ट्वा तत्र यदुश्रेष्ठो विस्मयं परमंगतः ।
उत्थाय स्यंदने तत्र तौ ददर्श महाबलौ ३०२।
पुनरप्यत्र निर्मज्ज्य जपन्मंत्रद्वयं हरिम् ।
सुधाब्धौ शेषपर्यंके रमया सहितं हरिम् ३०३।
सनकाद्यैस्तूयमानं सर्वैर्देवैरुपासितम् ।
दृष्ट्वा तस्मिन्जले देवं विस्मयं परमं ययौ ।
तुष्टावाथ यदुश्रेष्ठो हरिं सर्वगमीश्वरम् ३०४।
अक्रूर उवाच-
कालात्मने नमस्तुभ्यमनादिनिधनाय च ।
अव्यक्ताय नमस्तुभ्यमविकाराय ते नमः ३०५।
भूतभर्त्रे नमस्तुभ्यं भूतव्याघ्र नमो नमः ।
नमस्ते सर्वभूतानां नियन्त्रे परमात्मने ३०६।
विकारायाविकाराय प्रत्यक्षपुरुषाय च ।
गुणभर्त्रे नमस्तुभ्यं नियमाय नमो नमः ३०७।
देशकालादिनिर्भेदरहिताय परात्मने ।
अनंताय नमस्तुभ्यमच्युताय नमो नमः ३०८।
गोविंदाय नमस्तुभ्यं त्रयीनाथाय शार्ङ्गिणे ।
नारायणाय विश्वाय वासुदेवाय ते नमः ३०९।
विष्णवे पुरुरूपाय शाश्वताय नमो नमः ।
पद्मनेत्राय नित्याय शंखचक्रधराय च ३१०।
उद्यत्कोटिरविप्रख्य भूषणांचित वर्चसे ।
हरये सर्वलोकानामीश्वराय नमो नमः ३११।
सवित्रे सर्वजगतां बीजाय परमात्मने ।
संकर्षणाय कृष्णाय प्रद्युम्नाय नमो नमः ३१२।
अनिरुद्धाय धात्रे च विधात्रे विश्वयोनये ।
सहस्रमूर्त्तये तुभ्यं बहुमूर्द्धांघ्रिबाहवे ३१३।
सहस्रनाम्ने नित्याय पुरुषाय नमो नमः ।
नमस्ते नागपर्यंकशायिने सौम्यरूपिणे ३१४।
केशवाय नमस्तुभ्यं पीतवस्त्रधराय च ।
लक्ष्मीघनकुचाश्लेष विमर्दोज्ज्वलवर्चसे ।
श्रीधराय नमस्तुभ्यं श्रीशायानंतरूपिणे ३१५।
ईश्वर उवाच-
स्नानकाले पठेद्यस्तु देवं ध्यायन्सनातनम् ।
इमं स्तवं नरो भक्त्या महद्भिर्मुच्यते ह्यघैः ३१६।
सर्वतीर्थफलं प्राप्य विष्णुसायुज्यमाप्नुयात् ।
एवमंतर्जले देवं स्तुत्वा भागवतोत्तमः ३१७।
अर्चयामास स जलैः कुसुमैश्च सुगंधिभिः ।
कृतकृत्यस्तदाक्रूरो निर्गत्य यमुनाजलात् ३१८।
समेत्य रामकृष्णौ तु प्रणनाम शुभान्वितः ।
तं दृष्ट्वा प्राह गोविंदो विनीतं विस्मितं हरिः ३१९।
श्रीकृष्ण उवाच-
किमाश्चर्यं जले तस्मिन्दृष्टवानसि यादव ।
ईश्वर उवाच-
अक्रूरस्तु यदुश्रेष्ठं प्राह कृष्णं सुतेजसम् ३२०।
अक्रूर उवाच-
तव सर्वगतस्येश महिम्नो जगतः प्रभो ।
किमाश्चर्यं हृषीकेश जगत्सर्वं त्वमेव हि ३२१।
त्वमापस्त्वं नभो वह्निस्त्वं भूमिरनिलस्तथा ।
चतुर्विधमिमं सर्वं जगत्स्थावरजंगमम् ३२२।
त्वत्तो नान्यद्वासुदेव जीमूतादमृतं यथा ।
त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारो हविस्तथा ३२३।
त्वमेव सर्वदेवानामीश्वरः शाश्वतोऽव्ययः ।
नाकारणात्कारणाद्वा करणाकारणात्परः ३२४।
धर्मत्राणाय देवेश शरीरग्रहणं तव ।
मत्स्यकूर्मवराहादि वैभवत्वमुपागतः ३२५।
पासि सर्वमिमं लोकं त्वमेव त्वन्मयं विभो ३२६।
ईश्वर उवाच-
इति संस्तुत्य गोविंदं प्रणम्य जगतां पतिम् ।
आरुरोह रथं दिव्यं ताभ्यां सह यदूत्तमः ३२७।
ततस्तूर्णं समासाद्य मथुरां देवनिर्मिताम् ।
रामकृष्णौ पुरद्वारि निवेश्यांतःपुरं ययौ ३२८।
तयोरागमनं तस्य निवेद्य नृपतेस्तदा ।
राज्ञा संपूजितस्तेन ततः स्वगृहमाविशत् ३२९।
अथ सायाह्नसमये रामकृष्णौ महाबलौ ।
परस्परं करौ गृह्य मथुरायां समागतौ ३३०।
गछन्तौ च महावीर्यौ राजमार्गे यदूत्तमौ ।
ददृशतुर्महात्मानौ रजकं वस्त्ररंजकम् ३३१।
दिव्यवस्त्रवृतं राजगेहमायांतमच्युतः ।
ययाचे तानि वस्त्राणि सह रामेण वीर्यवान् ३३२।
न दत्तवांस्तदा तस्मै रुषा वै वस्त्ररंजकः ।
बहूनि कटुवाक्यानि प्राह तत्राध्वनि स्थितः ३३३।
ताडयामास तं कृष्णस्तलेनैव महाबलः ।
तत्रैव निहतो मार्गे वमन्वै रुधिरं बहु ३३४।
तानि वस्त्राणि रम्याणि गोपालैः सह बांधवैः ।
धारयामासतुर्वीरौ यथाहं रामकेशवौ ३३५।
मालाकारगृहं प्राप्य तेन दृष्टौ नमस्कृतौ ।
सुगंधिभिर्दिव्यपुष्पैः पूज्यमानौ मुदान्वितौ ३३६।
ददतुस्तौ वरं तस्मै वांछितं यदुपुंगवौ ।
समागतौ पुनर्वीथ्यामायांतीं च शुभाननाम् ३३७।
कुब्जां स्त्रियं महाभागौ धृतचंदनभाजनाम् ।
वक्रांगपृष्ठां वनितां दृष्ट्वा गंधमयाचतम् ३३८।
प्रहसंती तदा ताभ्यां ददौ चंदनमुत्तमम् ।
आदाय चंदनं दिव्यमुपलिप्य यथेच्छया ३३९।
तस्यैकांततरं रूपं दत्त्वाऽध्वनि समागतौ ।
निरीक्ष्यमाणौ योषिद्भिः सुकुमारौ शुभाननौ ३४०।
विवेशतुर्महात्मानौ यज्ञशालां सहानुगैः ।
दृष्ट्वा समर्चितं दिव्यं कार्मुकं तत्र केशवः ३४१।
लीलयैव गृहीत्वाऽथ बभंज मधुसूदनः ।
बिभज्यमानं तच्चापं श्रुत्वा कंसः सुविह्वलः ३४२।
आहूय मल्लान्सूतांस्तु प्रमुखान्दैत्यपुंगवान् ।
विमृश्य मंत्रिभिः प्राह चाणूरं दैत्यपुंगवः ३४३।
कंस उवाच-
रामकृष्णौ समायातौ सर्व दैत्यविनाशकौ ।
प्रभाते मल्लयुद्धेन हन्यतामविशंकया ३४४।
येनकेनाप्युपायेन हंतव्यौ बलदर्पितौ ।
मदोत्कटैर्गजैर्वापि मल्लमुख्यैश्च यत्नतः ३४५।
ईश्वर उवाच-
इत्यादिश्य ततो राजा सानुजः सचिवैः सह ।
आरुरोह भयात्तूर्णं दिव्यप्रासादमूर्द्धनि ३४६।
द्वारेषु सर्वमार्गेषु गजान्मत्तानयोजयत् ।
मल्लान्मदोत्कटान्नागान्स्थापयामास सर्वतः ३४७।
ज्ञात्वा कृष्णोऽपि तत्सर्वं सह रामेण धीमता ।
उवास रजनीं तत्र यज्ञगेहे सहानुगैः ३४८।
ततो रजन्यां व्युष्टायां प्रभाते विमले सति ।
शयनादुत्थितौ वीरौ रामकृष्णौ कृतोदकौ ३४९।
स्वलंकृतौ च तौ भुक्त्वा संग्रामाभिमुखोत्सुकौ ।
विनिर्गतौ गृहात्तस्मात्सिंहाविव महागुहात् ३५० 6.245.350।
राजद्वारि स्थितं नागं हिमाद्रिशिखरोपमम् ।
नाम्ना कुवलयापीडं कंसस्य जयवर्द्धनम् ३५१।
देवकुंजरदर्पघ्नं महाकायं मदोत्कटम् ।
दृष्ट्वा तं च महानागं पंचास्य इव केशवः ३५२।
करेणैव करं गृह्य सम्यगुत्प्लुत्य लीलया ।
भ्रामयित्वाथ चिक्षेप धरण्यां धरणीधरः ३५३।
स तु चूर्णितसर्वांगो निनदन्भैरवं स्वनम् ।
पपात सहसा भूमौ ममार च महागजः ३५४।
हत्वा दंतौ समुत्पाट्य गृहीत्वा रामकेशवौ ।
मल्लैरायोधनं कर्तुं रंगं विविशतुस्तदा ३५५।
तत्रस्था दानवा दृष्ट्वा गोविंदस्य पराक्रमम् ।
भीताः प्रविद्रुताःसर्वे राज्ञोंतःपुरमाययुः ३५६।
कपाटौ सुदृढौ बध्वा तत्र तस्थुः सहस्रशः ।
दृढबंधकपाटांस्तु दृष्ट्वा कृष्णस्तु लीलया ३५७।
ताडयित्वा पदेनैव पातयामास वीर्यवान् ।
तौ भग्नौ पातितौ तत्र सेनानीके व्यवस्थिते ३५८।
तत्रस्था निहताः सर्वे चूर्णितांगशिरोधराः ।
ततः प्रविश्य भवनं कंसस्यास्य महाबलौ ३५९।
भ्रामयंतौ महाभाग शृंगौ पीनौ रणोत्सुकौ ।
ददृशाते महात्मानौ मल्लौ चाणूरमुष्टिकौ ३६०।
कंसोऽपि दृष्ट्वा गोविंदं रामं च सुमहाबलम् ।
भयमाविश्य चाणूरं प्राह मल्लवरं तदा ३६१।
कंस उवाच-
अस्मिन्नवसरे मल्ल जहि गोपालबालकौ ।
विभज्य तव राज्यार्द्धमहं दास्याम्ययत्नतः ३६२।
ईश्वर उवाच-
तस्मिन्नवसरे कृष्णो मल्लाभ्यां दृश्यते महान् ।
मध्ये वने च संग्रामे महामेरुरिवापरः ३६३।
कंसस्य दृष्टिविषये संवर्त्ताग्निरिवाच्युतः ।
स्त्रीणां च साक्षान्मदनः पित्रोः शिशुरिवापरः ३६४।
त्रिदशानां हरिरिव गोपालानां सखा यथा ।
बहुरूपेण ददृशुस्तत्र सर्वगतं हरिम् ३६५।
वसुदेवस्तथाऽक्रूरो नंदगोपो महामतिः ।
अन्यं प्रासादमारुह्य ददृशुः कदनं महत् ३६६।
स्त्रीभिरंतःपुरस्थाभिर्देवकी तत्र संस्थिता ।
मुखं पुत्रस्य ददृशे साश्रुपूर्णेक्षणा शुभा ३६७।
ताभिराश्वासिता देवी भवनांतरमाविशत् ।
ततो देवगणाः सर्वे विमानस्था नभस्तले ३६८।
तुष्टुवुर्जयशब्देन पुंडरीकाक्षमच्युतम् ।
जहि कंसमिति प्राहुरुच्चैर्देवा मरुद्गणाः ३६९।
एतस्मिन्नंतरे तत्र तूर्यघोषनिनादिते ।
आसेदतुर्महामल्लौ यदुसिंहौ महाबलौ ३७०।
चाणूरेण तु गोविंदो मुष्टिकेन हलायुधः ।
युयुधाते महात्मानौ नीलश्वेताद्रि सन्निभौ ३७१।
मल्लयुद्धविधानेन मुष्टिभिः पादताडनैः ।
बभूव कदनं घोरं देवानां च भयावहम् ३७२।
चाणूरेण चिरं कालं क्रीडित्वाऽथ जनार्दनः ।
निष्पिष्य गांत्रं मल्लस्य पातयामास लीलया ३७३।
स पपात महीपृष्ठे संवमन्रुधिरं बहु ।
ममार च महामल्लो देवदानवदुःखदः ३७४।
मुष्टिकेन तथा रामश्चिरकालमयुध्यत ।
मुष्टिभिस्ताडयामास तस्य वक्षसि वीर्यवान् ३७५।
भिन्नास्थि स्नायुबंधोऽसौ पपात धरणीतले ।
ततस्तु दुद्रुवुः सर्वे मल्ला दृष्ट्वा पराक्रमम् ३७६।
कंसो महद्भयं तीव्रमाविशद्वेदनातुरः ।
एतस्मिन्नंतरे वीरौ रामकृष्णौ दुरासदौ ३७७।
आरोहतुर्महात्मानौ चैत्यप्रासादमूर्जितम् ।
ताडयित्वा तलेनैव कंसं मूर्ध्नि जनार्दनः ३७८।
अपातयद्धरा पृष्ठे प्रासादशिखराद्धरिः ।
स तु निर्भिन्नसर्वांगो धरण्यां त्यक्तजीवितः ३७९।
कृष्णेन निहते कंसे रामोऽपि सुमहाबलः ।
तस्यानुजं सुनामानं मुष्टिनैव जघान ह ३८०।
धरण्यां पातयामासानुजं च धरणीधरः ।
हत्वा कंसं दुरात्मानं सानुजं रामकेशवौ ३८१।
पित्रोः समीपमागम्य भक्त्या चैव प्रणेमतुः ।
देवकीवसुदेवश्च परिष्वज्य मुहुर्मुहुः ३८२।
स्नेहेन मूर्ध्न्युपाघ्राणं चक्रतुः पुत्रलालसौ ।
तयोरुपरि देवक्याः स्तनौ क्षीरं ववर्षतुः ३८३।
तत आश्वास्य पितरौ रामकृष्णौ बहिर्गतौ ।
एतस्मिन्नंतरे देवि देवदुंदुभयो दिवि ३८४।
विनेदुः पुष्पवर्षाणि ववृषुस्त्रिदशेश्वराः ।
स्तुत्वा मरुद्गणैर्दिव्यैर्नमस्कृत्य जनार्दनम् ३८५।
परं हर्षमनुप्राप्य लोकान्स्वान्स्वान् प्रपेदिरे ।
नंदगोपं नमस्कृत्य गोपवृद्धांश्च केशवः ३८६।
रामेण सह धर्मात्मा मुदा संपरिषस्वजे ।
बहुरत्नधनं तस्मै ददौ प्रीत्या जनार्दनः ३८७।
सर्वांस्तान्गोपवृद्धांश्च वस्त्रैराभरणादिभिः ।
बहुभिर्धनधान्यैश्च पूजयामास केशवः ३८८।
विसृष्टास्तेन कृष्णेन नंदगोपपुरोगमाः ।
प्रययुर्गोव्रजं दिव्यं हर्षशोकसमन्विताः ३८९।
मातामहं समासाद्य रामकृष्णौ दुरासदौ ।
बंधाद्विमोचयित्वाथ समाश्वास्य मुहुर्मुहुः ३९०।
चक्रे तस्याभिषेकं तु तद्राज्ये मधुसूदनः ।
अकारयद्द्विजश्रेष्ठैः स कंसस्योर्ध्वदैहिकम् ३९१।
अक्रूरप्रमुखान्राज्ये संस्थाप्य यदुपुंगवान् ।
राजानमुग्रसेनं तु कृत्वा धर्मेण मेदिनीम् ।
पालयामास धर्मात्मा वसुदेवसुतो हरिः ३९२।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे श्रीकृष्णचरिते कंसवधोनाम पंचचत्वारिंशदधिकद्विशततमोऽध्यायः २४५ ।