पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २४४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २४३ पद्मपुराणम्
अध्यायः २४४
वेदव्यासः
अध्यायः २४५ →

शंकर उवाच-
अथ रामस्तु वैदेह्या राज्यभोगान्मनोरमान्
बुभुजे वर्षसाहस्रं पालयन्सर्वतोदिशः १
अंतःपुरजनास्सर्वे राक्षसस्य गृहे स्थिताम्
गर्हयंति स्म वैदेहीं तथा जानपदा जनाः २
लोकापवादभीत्या च रामः शत्रुनिवारकः
दर्शयन्मानुषं धर्ममंतर्वत्नीं नृपात्मजाम् ३
वाल्मीकेराश्रमे पुण्ये गंगातीरे महावने
विससर्ज महातेजा गर्भिणीं मुनिसंसदि ४
सा भर्तुः परतंत्रा हि उवास मुनिवेश्मनि
अर्चिता मुनिपत्नीभिर्वाल्मीकमुनि रक्षिता ५
तत्रैवासूत यमलौ नाम्ना कुशलवौ सुतौ
तौ च तत्रैव मुनिना संस्कृतौ च ववर्धतुः ६
रामोऽपि भ्रातृभिस्सार्द्धं पालयामास मेदिनीम्
यमादिगुणसम्पन्नस्सर्वभोगविवर्जितः ७
अर्चयन्सततं विष्णुमनादिनिधनं हरिम्
ब्रह्मचर्यपरो नित्यं शशास पृथिवीं नृपः ८
शत्रुघ्नो लवणं हत्वा मथुरां देवनिर्मिताम्
पालयामास धर्मात्मा पुत्राभ्यां सह राघवः ९
गंधर्वान्भरतो हत्वा सिंधोरुभयपार्श्वतः
स्वात्मजौ स्थापयामास तस्मिन्देशे महाबलौ १०
पश्चिमे मद्रदेशे तु मद्रान्हत्वा च लक्ष्मणः
स्वसुतौ च महावीर्यौ अभिषिच्य महाबलः ११
गत्वा पुनरयोध्यां तु रामपादावुपस्पृशत्
ब्राह्मणस्य मृतं बालं कालधर्ममुपागतम् १२
जीवयामास काकुत्स्थः शूद्रं हत्वा च तापसम्
ततस्तु गौतमीतीरे नैमिषे जनसंसदि १३
इयाज वाजिमेधं च राघवः परवीरहा
कांचनीं जानकीं कृत्वा तया सार्द्धं महाबलः १४
चकार यज्ञान्बहुशो राघवः परमार्थवित्
अयुतान्यश्वमेधानि वाजपेयानि च प्रभुः १५
अग्निष्टोमं विश्वजितं गोमेधं च शतक्रतुम्
चकार विविधान्यज्ञान्परिपूर्णसदक्षिणान् १६
एतस्मिन्नंतरे तत्र वाल्मीकिः सुमहातपाः
सीतामानीय काकुत्स्थमिदं वचनमब्रवीत् १७
वाल्मीकिरुवाच-
अपापां मैथिलीं राम त्यक्तुं नार्हसि सुव्रत
इयं तु विरजा साध्वी भास्करस्य प्रभा यथा
अनन्या तव काकुत्स्थ कस्मात्त्यक्ता त्वयानघ १८
राम उवाच-
अपापां मैथिलीं ब्रह्मन्जानामि वचनात्तव
रावणेन हृता साध्वी दण्डके विजने पुरा १९
तं हत्वा समरे सीतां शुद्धामग्निमुखागताम्
पुनर्यातोस्म्ययोध्यायां सीतामादाय धर्मतः २०
लोकापवादः सुमहानभूत्पौरजनेषु च
त्यक्ता मया शुभाचारा तद्भयात्तव सन्निधौ २१
तस्माल्लोकस्य संतुष्ट्यै सीता मम परायणा
पार्थिवानां महर्षीणां प्रत्ययं कर्तुमर्हति २२
महेश्वर उवाच-
एवमुक्ता तदा सीता मुनिपार्थिवसंसदि
चकारप्रत्ययं देवी लोकाश्चर्यकरं सती २३
दर्शयंस्तस्य लोकस्य रामस्यानन्यतां सती
अब्रवीत्प्रांजलिः सीता सर्वेषां जनसंसदि २४
सीतोवाच-
यथाऽहं राघवादन्यं मनसापि न चिंतये
तथा मे धरणी देवी विवरन्दातुमर्हति २५
यथैव सत्यमुक्तं मे वेद्मि रामात्परं न च
तथा स्वपुत्र्यां वैदेह्यां धरणी सहसा इयात् २६
महेश्वर उवाच-
ततो रत्नमयं पीठं पृष्ठे धृत्वा खगेश्वरः
रसातलात्तदा वीरो विज्ञाय जननीं तदा २७
ततस्तु धरणीदेवी हस्ताभ्यां गृह्य मैथिलीम्
स्वागतेनाभिनंद्यैनामासने संन्यवेशयत् २८
सीतां समागतां दृष्ट्वा दिवि देवगणा भृशम्
पुष्पवृष्टिमविच्छिन्नां दिव्यां सीतामवाकिरन् २९
सापि दिव्याप्सरोभिस्तु पूज्यमाना सनातनी
वैनतेयं समारुह्य तस्मान्मार्गाद्दिवं ययौ ३०
दासीगणैः पूर्वभागे संवृता जगदीश्वरी
संप्राप्य परमं धाम योगिगम्यं सनातनम् ३१
रसातलप्रविष्टां तु तां दृष्ट्वा सर्वमानुषाः
साधुसाध्विति सीतेयमुच्चैः सर्वे प्रचुक्रुशुः ३२
रामः शोकसमाविष्टः संगृह्य तनयावुभौ
मुनिभिः पार्थिवेंद्रैश्च साकेतं प्रविवेश ह ३३
अथ कालेन महता मातरः संशितव्रताः
कालधर्मं समापन्ना भर्तुः स्वर्गं प्रपेदिरे ३४
दशवर्षसहस्राणि दशवर्षशतानि च
चकार राज्यं धर्मेण राघवः संशितव्रतः ३५
कस्यचित्त्वथकालस्य राघवस्य निवेशनम्
कालस्तापसरूपेण संप्राप्तो वाक्यमब्रवीत् ३६
काल उवाच-
राम राम महाबाहो धात्रा संप्रेषितोऽस्म्यहम्
यद्ब्रवीमि रघुश्रेष्ठ तच्छृणुष्व महामते ३७
द्वन्द्वमेव हि कार्यं स्यादावयोः परिभाषितम्
तदंतरे प्रविष्टोयस्स वद्ध्यो हि भविष्यति ३८
महेश्वर उवाच-
तथेति च प्रतिश्रुत्य रामो राजीवलोचनः
द्वास्थं कृत्वा तु सौमित्रिं कालो वाक्यमभाषत
वैवस्वतोऽब्रवीद्वाक्यं रामं दशरथात्मजम् ३९
काल उवाच-
शृणु राम यथावृत्तं समागमनकारणात्
दशवर्षसहस्राणि दशवर्षशतानि च ४०
वसामि मानुषे लोके हत्वा राक्षसपुंगवौ
एवमुक्तः सुरगणैरवतीर्णोसि भूतले ४१
तदयं समयः प्राप्तः स्वर्लोकं गमितुं त्वया
सनाथा हि सुरास्सर्वे भवंत्वद्य त्वयानघ ४२
महेश्वर उवाच-
एवमस्त्विति काकुत्स्थो रामः प्राह महामुनिम्
एतस्मिन्नंतरे तत्र दुर्वासास्तु महातपाः ४३
राजद्वारमुपागम्य लक्ष्मणं वाक्यमब्रवीत्
दुर्वासा उवाच-
मां निवेदय काकुत्स्थं शीघ्रं गत्वा नृपात्मज ४४
महेश्वर उवाच-
तमब्रवील्लक्ष्मणस्तु असांनिध्यमिति द्विज
ततः क्रोधसमाविष्टः प्राह तं मुनिसत्तमः ४५
दुर्वासा उवाच-
शापं दास्यामि काकुत्स्थं रामं न यदि दर्शये
महेश्वर उवाच-
तस्माच्छापभयाद्विप्रं राघवाय न्यवेदयत्
तत्रैवांतर्दधे कालः सर्वभूतभयावहः ४६
पूजयामास तं प्राप्तमृषिं दुर्वाससं नृपः
अग्रजस्य प्रतिज्ञा तं विज्ञाय रघुसत्तमः ४७
तत्याज मानुषं रूपं लक्ष्मणः सरयूजले
विसृज्य मानुषं रूपं प्रविवेश स्वकां तनुम् ४८
फणासहस्रसंयुक्तः कोटींदुसमवर्चसः
दिव्यमाल्यांबरधरो दिव्यगंधानुलेपनः ४९
नागकन्यासहस्रैस्तु संवृतः समलंकृतः
विमानं दिव्यमारुह्य प्रययौ वैष्णवं पदम् ५० 6.244.50
लक्ष्मणस्य गतिं सर्वां विदित्वा रघुसत्तमः
स्वयमप्यथ काकुत्स्थः स्वर्गं गंतुमभीप्सितः ५१
अभिषिच्याथ काकुत्स्थः स्वात्मजौ च कुशीलवौ
विभज्य रथनागाश्वं सधनं प्रददौ तयोः ५२
कुशवत्यां कुशं तं च शरवत्यां लवं तथा
स्थापयामास धर्मेण राज्ये स्वे रघुसत्तमः ५३
अभिप्रायं तु विज्ञाय रामस्य विदितात्मनः
आजग्मुर्वानराः सर्वे राक्षसाः सुमहाबलाः ५४
विभीषणोऽथ सुग्रीवो जाम्बवान्मारुतात्मजः
नीलो नलः सुषेणश्च निषादाधिपतिर्गुहः ५५
अभिषिच्य सुतौ वीरौ शत्रुघ्नश्च महामनाः
सर्व एते समाजग्मुरयोध्यां रामपालिताम् ५६
ते प्रणम्य महात्मानमूचुः प्रांजलयस्तथा
वानरप्रभृतय ऊचुः -
स्वर्लोकं गंतुमुद्युक्तं ज्ञात्वा त्वां रघुसत्तम ५७
आगताः स्म वयं सर्वे तवानुगमनं प्रति
न शक्ताः स्म क्षणं राम जीवितुं त्वां विना प्रभो
तस्मात्त्वया विशालाक्ष गच्छामस्त्रिदशालयम् ५८
महेश्वर उवाच-
तैरेवमुक्तः काकुत्स्थो बाढमित्यब्रवीत्ततः
अथोवाच महातेजा राक्षसेंद्रं विभीषणम् ५९
राम उवाच-
राज्यं प्रशास धर्मेण मा प्रतिज्ञां वृथा कृथाः
यावच्चंद्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी
तावद्रमस्व सुप्रीतो काले मम पदं व्रज ६०
महेश्वर उवाच-
इत्युक्त्वाथ स काकुत्स्थः स्वाड्गं विष्णुं सनातनम्
श्रीरंगशायिनं सौम्यमिक्ष्वाकुकुलदैवतम् ६१
संप्रीत्या प्रददौ तस्मै रामो राजीवलोचनः
हनुमंतमथोवाच राघवः शत्रुसूदनः ६२
राम उवाच-
मत्कथाः प्रचरिष्यंति यावल्लोके हरीश्वर
तावत्त्वमास मेदिन्यां काले मां व्रज सुव्रत ६३
महेश्वर उवाच-
तमेवमुक्त्वा काकुत्स्थो जांबवंतमथाब्रवीत्
राम उवाच-
द्वापरे समनुप्राप्ते यदूनामन्वये पुनः ६४
भूभारस्य विनाशाय समुत्पत्स्याम्यहं भुवि
करिष्ये तत्र संग्रामं स्वयं भल्लूकसत्तम ६५
महेश्वर उवाच-
तमेवमुक्त्वा काकुत्स्थः सर्वांस्तानृक्षवानरान्
उवाच वाचा गच्छध्वमिति रामो महाबलः ६६
मंत्रिणो नैगमाश्चैव भरतः कैकयीसुतः
राघवस्यानुगमने निश्चितास्ते समाययुः ६७
ततः शुक्लांबरधरो ब्रह्मचारी ययौ परम्
कुशान्गृहीत्वा पाणिभ्यां संसक्तः प्रययौ परम् ६८
रामस्य दक्षिणे पार्श्वे पद्महस्ता रमा गता
तथैव धरणीदेवी दक्षिणेतरगा तथा ६९
वेदाः सांगाः पुराणानि सेतिहासानि सर्वतः
ॐकारोऽथ वषट्कारः सावित्री लोकपावनी ७०
अस्त्रशस्त्राणि च तदा धनुराद्यानि पार्वति
अनुजग्मुस्तथा रामं सर्वे पुरुषविग्रहाः ७१
भरतश्चैव शत्रुघ्नः सर्वे पुरनिवासिनः
सपुत्रदाराः काकुत्स्थमनुजग्मुः सहानुगाः ७२
मंत्रिणो भृत्यवर्गाश्च किंकरा नैगमास्तथा
वानराश्चैव ऋक्षाश्च सुग्रीवसहितास्तदा ७३
सपुत्रदाराः काकुत्स्थमन्वगच्छन्महामतिम्
पशवः पक्षिणश्चैव सर्वे स्थावरजंगमाः ७४
अनुजग्मुर्महात्मानं समीपस्था नरोत्तमाः
ये च पश्यंति काकुत्स्थं स्वपथांतर्गतं प्रभुम् ७५
ते तथानुगता रामं निवर्त्तंते न केचन
अथ त्रियोजनं गत्वा नदीं पश्चान्मुखीं स्थिताम् ७६
सरयूं पुण्यसलिलां प्रविवेश सहानुगः
ततः पितामहो ब्रह्मा सर्वदेवगणावृतः ७७
तुष्टाव रघुशार्दूलमृषिभिः सार्द्धमक्षरैः
अब्रवीत्तत्र काकुत्स्थं प्रविष्टं सरयूजले ७८
ब्रह्मोवाच-
आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तोऽसि मानद
भ्रातृभिस्सहदेवाभैः प्रविशस्व निजां तनुम् ७९
वैष्णवीं तां महातेजां देवाकारां सनातनीम्
त्वं हि लोकगतिर्देव न त्वां केचित्तु जानते ८०
त्वामचिंत्यं महात्मानमक्षरं सर्वसंग्रहम्
यमिच्छसि महातेजस्तां तनुं प्रविशस्व भोः ८१
महेश्वर उवाच-
तस्मिन्सूर्यकराकीर्णे पुष्पवृष्टिनिपातिते
उत्सृज्य मानुषं रूपं स्वां तनुं प्रविवेश ह ८२
अंशाभ्यां शंखचक्राभ्यां शत्रुघ्नभरतावुभौ
तदा तेन महात्मानौ दिव्यतेजस्समन्वितौ ८३
शंखचक्रगदाशार्ङ्गपद्महस्तश्चतुर्भुजः
दिव्याभरणसम्पन्नो दिव्यगंधानुलेपनः ८४
दिव्यपीतांबरधरः पद्मपत्रनिभेक्षणः
युवा कुमारः सौम्यांगः कोमलावयवोज्ज्वलः ८५
सुस्निग्धनीलकुटिलकुंतलः शुभलक्षणः
नवदूर्वांकुरः श्यामः पूर्णचंद्र निभाननः ८६
देवीभ्यां सहितः श्रीमान्विमानमधिरुह्य च
तस्मिन्सिंहासने दिव्ये मूले कल्पतरोः प्रभुः ८७
निषसाद महातेजाः सर्वदेवैरभिष्टुतः
राघवानुगता ये च ऋक्षवानरमानुषाः ८८
स्पृष्ट्वैव सरयूतोयं सुखेन त्यक्तजीविताः
रामप्रसादात्ते सर्वे दिव्यरूपधराः शुभाः ८९
दिव्यमाल्यांबरधरा दिव्यमंगलवर्चसः
आरुरोह विमानं तदसंख्यास्तत्र देहिनः ९०
सर्वैः परिवृतः श्रीमान्रामो राजीवलोचनः
पूजितः सुरसिद्धौघैर्मुनिभिस्तु महात्मभिः ९१
आययौ शाश्वतं दिव्यमक्षरं स्वपदं विभुः
यः पठेद्रामचरितं श्लोकं श्लोकार्धमेव वा ९२
शृणुयाद्वा तथा भक्त्या स्मरेद्वा शुभदर्शने
कोटिजन्मार्जितात्पापाज्ज्ञानतोऽज्ञानतः कृतात् ९३
विमुक्तो वैष्णवं लोकं पुत्रदारसबांधवैः
समाप्नुयाद्योगगम्यमनायासेन वै नरः ९४
एतत्ते कथितं देवि रामस्य चरितं महत्
धन्योऽस्म्यहं त्वया देवि रामचंद्रस्य कीर्त्तनात्
किमन्यच्छ्रोतुकामासि तद्ब्रवीमि वरानने ९५
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे श्रीरामचरितकथनंनाम चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः२४४