पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २४३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २४२ पद्मपुराणम्
अध्यायः २४३
वेदव्यासः
अध्यायः २४४ →

शंकर उवाच-
अथ तस्मिन्दिने पुण्ये शुभलग्ने शुभान्विते
मंगलस्याभिषेकार्थं मंगलं चक्रिरे जनाः १
वसिष्ठो वामदेवश्च जाबालिरथ कश्यपः
मार्कंडेयश्च मौद्गल्यः पर्वतो नारदस्तथा २
एते महर्षयस्तत्र जपहोमपुरस्सरम्
अभिषेकं शुभं चक्रुर्मुनयो राजसत्तमम् ३
नानारत्नमये दिव्ये हेमपीठे शुभान्विते
निवेश्य सीतया सार्द्धं श्रिया इव जनार्दनम् ४
सौवर्णकलशैर्दिव्यैर्नानारत्नमयैः शुभैः
सर्वतीर्थोदकैः पुण्यैर्माङ्गल्यद्रव्यसंयुतैः ५
दूर्वाग्रतुलसीपत्रपुष्पगंधसमन्वितैः
मंत्रपूतजलैः शुद्धैर्मुनयः संशितव्रताः ६
अजपन्वैष्णवान्सूक्तान्चतुर्वेदमयान्शुभान्
अभिषेकं शुभं चक्रुः काकुत्स्थं जगतः पतिम् ७
तस्मिन्शुभतमे लग्ने देवदुंदुभयो दिवि
विनेदुः पुष्पवर्षाणि ववृषुश्च समंततः ८
दिव्यांबरैर्भूषणैश्च दिव्यगंधानुलेपनैः
पुष्पैर्नानाविधैर्दिव्यैर्देव्या सह रघूद्वहः ९
अलंकृतश्च शुशुभे मुनिभिर्वेदपारगैः
छत्रं च चामरं दिव्यं धृतवान्लक्ष्मणस्तदा १०
पार्श्वे भरतशत्रुघ्नौ तालवृंतौ विरेजतुः
दर्पणं प्रददौ श्रीमान्राक्षसेंद्रो विभीषणः ११
दधार पूर्णकलशं सुग्रीवो वानरेश्वरः
जाम्बवांश्च महातेजाः पुष्पमालां मनोहराम् १२
वालिपुत्रस्तु तांबूलं सकर्पूरं ददौ हरेः
हनुमान्दीपकां दिव्यां सुषेणश्च ध्वजं शुभम् १३
परिवार्य महात्मानं मंत्रिणः समुपासिरे
सृष्टिर्जयंतो विजयः सौराष्ट्रो राष्ट्रवर्द्धनः १४
अकोपो धर्मपालश्च सुमंत्रो मंत्रिणः स्मृताः
राजानश्च नरव्याघ्रा नानाजनपदेश्वराः १५
पौराश्च नैगमा वृद्धा राजानं पर्युपासत
ऋक्षैश्च वानरेंद्रैश्च मंत्रिभिः पृथिवीश्वरैः १६
राक्षसैर्द्विजमुख्यैश्च किंकरैश्च समावृतः
परे व्योम्नि यथा लीनो दैवतैः कमलापतिः १७
तथा नृपवरः श्रीमान्साकेते शुशुभे तदा
इंदीवरदलश्यामं पद्मपत्रनिभेक्षणम् १८
आजानुबाहुं काकुत्स्थं पीतवस्त्रधरं हरिम्
कंबुग्रीवं महोरस्कं विचित्राभरणैर्युतम् १९
देव्या सह समासीनमभिषिक्तं रघूत्तमम्
विमानस्थाः सुरगणा हर्षनिर्भरमानसाः २०
तुष्टुवुर्जयशब्देन गंधर्वाप्सरसां गणाः
अभिषिक्तस्ततो रामो वसिष्ठाद्यैर्महर्षिभिः २१
शुशुभे सीतया देव्या नारायण इव श्रिया
अतिमर्त्यतयाभीत उपासितुं पदांबुजम् २२
दृष्ट्वा तुष्टाव हृष्टात्मा शंकरो हृष्टमागतः
कृतांजलिपुटो भूत्वा सानंदो गद्गदाकुलः
हर्षयन्सकलान्देवान्मुनीनपि च वानरान् २३
महादेव उवाच-
नमो मूलप्रकृतये नित्याय परमात्मने
सच्चिदानंदरूपाय विश्वरूपाय वेधसे २४
नमो निरंतरानंद कन्दमूलाय विष्णवे
जगत्त्रयकृतानंद मूर्त्तये दिव्यमूर्त्तये २५
नमो ब्रह्मेंद्रपूज्याय शंकराभयदाय च
नमो विष्णुस्वरूपाय सर्वरूपनमोनमः २६
उत्पत्तिस्थितिसंहारकारिणे त्रिगुणात्मने
नमोस्तु निर्गतोपाधिस्वरूपाय महात्मने २७
अनया विद्यया देव्या सीतयोपाधिकारिणे
नमः पुंप्रकृतिभ्यां च युवाभ्यां जगतां कृते २८
जगन्मातापितृभ्यां च जनन्यै राघवाय च
नमः प्रपंचरूपिण्यै निष्प्रपंचस्वरूपिणे २९
नमो ध्यानस्वरूपिण्यै योगिध्येयात्ममूर्त्तये
परिणामापरीणामरिक्ताभ्यां च नमोनमः ३०
कूटस्थबीजरूपिण्यै सीतायै राघवाय च
सीता लक्ष्मीर्भवान्विष्णुः सीता गौरी भवान्शिवः ३१
सीता स्वयं हि सावित्रि भवान्ब्रह्मा चतुर्मुखः
सीता शची भवान्शक्रः सीता स्वाहानलो भवान् ३२
सीता संहारिणी देवी यमरूपधरो भवान्
सीता हि सर्वसम्पत्तिः कुबेरस्त्वं रघूत्तम ३३
सीता देवी च रुद्राणी भवान्रुद्रो महाबलः
सीता तु रोहिणी देवी चंद्रस्त्वं लोकसौख्यदः ३४
सीता संज्ञा भवान्सूर्यः सीता रात्रिर्दिवा भवान्
सीतादेवी महाकाली महाकालो भवान्सदा ३५
स्त्रीलिङ्गेषु त्रिलोकेषु यत्तत्सर्वं हि जानकी
पुन्नाम लांछितं यत्तु तत्सर्वं हि भवान्प्रभो ३६
सर्वत्र सर्वदेवेश सीता सर्वत्र धारिणी
तदात्वमपिचत्रातुंतच्छक्तिर्विश्वधारिणी ३७
तस्मात्कोटिगुणं पुण्यं युवाभ्यां परिचिह्नितम्
चिह्नितं शिवशक्तिभ्यां चरितं तव शांतिदम् ३८
आवां राम जगत्पूज्यौ मम पूज्यौ सदा युवाम्
त्वन्नामजापिनी गौरी त्वन्मंत्रजपवानहम् ३९
मुमूर्षोर्मणिकर्ण्यां तु अर्द्धोदकनिवासिनः
अहं दिशामि ते मंत्रं तारकं ब्रह्मदायकम् ४०
अतस्त्वं जानकीनाथ परब्रह्मासि निश्चितम्
त्वन्मायामोहितास्सर्वे न त्वां जानंति तत्वतः ४१
ईश्वर उवाच-
इत्युक्तः शंभुना रामः प्रसादप्रवणोऽभवत्
दिव्यरूपधरः श्रीमानद्भुताद्भुतदर्शनः ४२
तथा तं रूपमालोक्य नरवानरदेवताः
न द्रष्टुमपिशक्तास्ते तेजसं महदद्भुतम् ४३
भयाद्वै त्रिदशश्रेष्ठाः प्रणेमुश्चातिभक्तितः
भीता विज्ञाय रामोऽपि नरवानरदेवताः
मायामानुषतां प्राप्य स देवानब्रवीत्पुनः ४४
रामचंद्र उवाच-
शृणुध्वं देवता यो मां प्रत्यहं संस्तुविष्यति
स्तवेन शंभुनोक्तेन देवतुल्यो भवेन्नरः ४५
विमुक्तः सर्वपापेभ्यो मत्स्वरूपं समश्नुते
रणे जयमवाप्नोति न क्वचित्प्रतिहन्यते ४६
भूतवेतालकृत्याभिर्ग्रहैश्चापि न बाध्यते
अपुत्रो लभते पुत्रं पतिं विंदति कन्यका ४७
दरिद्रः श्रियमाप्नोति सत्ववाञ्शीलवान्भवेत्
आत्मतुल्यबलः श्रीमाञ्जायते नात्र संशयः ४८
निर्विघ्नं सर्वकार्येषु सर्वारंभेषु वै नृणाम्
यंयं कामयते मर्त्यः सुदुर्लभमनोरथम् ४९
षण्मासात्सिद्धिमाप्नोति स्तवस्यास्य प्रसादतः
यत्पुण्यं सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम्
तत्फलं कोटिगुणितं स्तवेनानेन लभ्यते ५०
ईश्वर उवाच-
इत्युक्त्वा रामचंद्रोऽसौ विससर्ज महेश्वरम्
ब्रह्मादि त्रिदशान्सर्वान्विससर्ज समागतान् ५१
अर्चिता मानवाः सर्वे नरवानरदेवताः
विसृष्टा रामचंद्रेण प्रीत्या परमया युताः ५२
इत्थं विसृष्टाः खलु ते च सर्वे सुखं तदा जग्मुरतीवहृष्टाः
परं पठंतः स्तवमीश्वरोक्तं रामं स्मरंतो वरविश्वरूपम् ५३

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वर संवादे विश्वदर्शनं नाम त्रिचत्वारिंशदधिकद्विशततमोऽध्यायः २४३