सामग्री पर जाएँ

पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २४२

विकिस्रोतः तः
← अध्यायः २४१ पद्मपुराणम्
अध्यायः २४२
वेदव्यासः
अध्यायः २४३ →

रुद्र उवाच-
स्वायम्भुवो मनुः पूर्वं द्वाशार्णं महामनुम् ।
जजाप गोमतीतीरे नैमिषे विमले शुभे १।
तेन वर्षसहस्रेण पूजितः कमलापतिः ।
मत्तो वरं वृणीष्वेति तं प्राह भगवान्हरिः २।
ततः प्रोवाच हर्षेण मनुः स्वायम्भुवो हरिम् ।
मनुरुवाच-
पुत्रत्वं भज देवेश त्रीणि जन्मानि चाच्युत ३।
त्वां पुत्रलालसत्वेन भजामि पुरुषोत्तमम् ।
रुद्र उवाच-
इत्युक्तस्तेन लक्ष्मीशः प्रोवाच सुमहागिरा ४।
विष्णुरुवाच-
भविष्यति नृपश्रेष्ठ यत्ते मनसि कांक्षितम् ।
ममैव च महत्प्रीतिस्तव पुत्रत्वहेतवे ५।
स्थितिप्रयोजने काले तत्र तत्र नृपोत्तम ।
त्वयि जाते त्वहमपि जातोस्मि तव सुव्रत ६।
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्म्मसंस्थापनार्थाय संभवामि तवानघ ७।
रुद्र उवाच-
एवं दत्वा वरं तस्मै तत्रैवांतर्दधे हरिः ।
अस्याभूत्प्रथमं जन्म मनोः स्वायंभुवस्य च ८।
रघूणामन्वये पूर्वं राजा दशरथो ह्यभूत् ।
द्वितीयो वसुदेवोऽभूद्वृष्णीनामन्वये विभुः ९।
कलेर्दिव्यसहस्राब्दप्रमाणस्यांत्यपादयोः ।
शंभलग्रामकं प्राप्य ब्राह्मणः संजनिष्यति १०।
कौशल्या समभूत्पत्नी राज्ञो दशरथस्य हि ।
यदोर्वंशस्य सेवार्थं देवकी नाम विश्रुता ११।
हरिव्रतस्य विप्रस्य भार्य्या देवप्रभा पुनः ।
एवं मातृत्वमापन्ना त्रीणि जन्मानि शार्ङ्गिणः १२।
पूर्वं रामस्य चरितं वक्ष्यामि तव सुव्रते ।
यस्य स्मरणमात्रेण विमुक्तिः पापिनामपि १३।
हिरण्यकहिरण्याक्षौ द्वितीयं जन्मसंश्रितौ ।
कुंभकर्ण दशग्रीवावजायेतां महाबलौ १४।
पुलस्त्यस्य सुतो विप्रो विश्रवानाम धार्मिकः ।
तस्य पत्नी विशालाक्षी राक्षसेंद्र सुताऽनघे १५।
सुकेशितनया सा स्यात्सुमाली दानवस्य च ।
केकसी नाम कन्यासीत्तस्य भार्या दृढव्रता १६।
कामोद्रिक्ता तु सा देवी संध्याकाले महामुनिम् ।
रमयामास तन्वंगी यथेष्टं शुभदर्शना १७।
कामात्संध्याभवाद्यत्वात्तस्यां जातौ महाबलौ ।
रावणः कुंभकर्णश्च राक्षसौ लोकविश्रुतौ १८।
कन्या शूर्पणखा नाम जातातिविकृतानना ।
कस्यचित्त्वथ कालस्य तस्यां जातो विभीषणः १९।
सुशीलो भगवद्भक्तः सत्यवाग्धर्म्मवाञ्शुचिः ।
रावणः कुंभकर्णश्च हिमवत्पर्वतोत्तमे २०।
महोग्रतपसा मां वै पूजयामासतुर्भृशम् ।
रावणस्त्वथ दुष्टात्मा स्वशिरःकमलैः शुभैः २१।
पूजयामास मां देवि दारुणेनैव कर्म्मणा ।
ततस्तमब्रुवं सुभ्रूः प्रहृष्टेनांतरात्मना २२।
वरं वृणीष्व मे वत्स यत्ते मनसि वर्त्तते ।
ततः प्रोवाच दुष्टात्मा देवदानव रक्षसाम् २३।
अवध्यत्वं प्रदेहीति सर्वलोकजिगीषया ।
ततोऽहं दत्तवांस्तस्मै राक्षसाय दुरात्मने २४।
देवदानवयक्षाणामवध्यत्वं वरानने ।
राक्षसोऽसौ महावीर्यो वरदानात्तु गर्वितः २५।
त्रींल्लोकान्पीडयामास देवदानवमानुषान् ।
तेन संबाध्यमानाश्च देवा ब्रह्मपुरोगमाः २६।
भयार्त्ताः शरणं जग्मुरीश्वरं कमलापतिम् ।
ज्ञात्वाथ वेदनां तेषामभयाय सनातनः २७।
उवाच त्रिदशान्सर्वान्ब्रह्मरुद्रपुरोगमान् ।
श्रीभगवानुवाच-
राज्ञो दशरथस्याहमुत्पत्स्यामि रघोः कुले २८।
वधिष्यामि दुरात्मानं रावणं सह बांधवम् ।
मानुषं वपुरास्थाय हन्मि दैवतकंटकम् २९।
नंदिशापाद्भवंतोऽपि वानरत्वमुपागताः ।
कुरुध्वं मम साहाय्यं गंधर्वाप्सरसोत्तमाः ३०।
रुद्र उवाच-
इत्युक्ता देवतास्सर्वा देवदेवेन विष्णुना ।
वानरत्वमुपागम्य जज्ञिरे पृथिवीतले ३१।
भार्गवेण प्रदत्ता तु महीसागरमेखला ।
दत्ता महर्षिभिः पूर्वं रघूणां सुमहात्मनाम् ३२।
वैवस्वतमनोः पुत्रो राज्ञां श्रेष्ठो महाबलः ।
इक्ष्वाकुरिति विख्यातस्सर्वधर्म्मविदांवरः ३३।
तदन्वये महातेजा राजा दशरथो बली ।
अजस्य नृपतेः पुत्रः सत्यवान्शीलवान्शुचिः ३४।
स राजा पृथिवीं सर्वां पालयामास वीर्य्यतः ।
राज्येषु स्थापयामास सर्वान्पार्थिवसत्तमान् ३५।
कोशलस्य नृपस्याथ पुत्री सर्वांगशोभना ।
कौशल्या नाम तां कन्यामुपयेमे स पार्थिवः ३६।
मागधस्य नृपस्याथ तनया च शुचिस्मिता ।
सुमित्रा नाम नाम्ना च द्वितीया तस्य भामिनी ३७।
तृतीया केकयस्याथ नृपतेर्दुहिता तथा ।
भार्य्याभूत्पद्मपत्राक्षी केकयी नाम नामतः ३८।
ताभिः स्म राजा भार्याभिस्तिसृभिर्धर्मसंयुतः ।
रमयामास काकुत्स्थः पृथिवीं चानुपालयन् ३९।
अयोध्यानाम नगरी सरयूतीर संस्थिता ।
सर्वरत्नसुसंपूर्णा धनधान्यसमाकुला ४०।
प्राकारगोपुरैर्जुष्टा हेमप्राकारसंकुला ।
उत्तमैर्नागतुरगैर्महेंद्रस्य यथा पुरी ४१।
तस्यां राजा स धर्मात्मा उवास मुनिसत्तमैः ।
पुरोहितेन विप्रेण वसिष्ठेन महात्मना ४२।
राज्यं चकारयामास सर्वं निहतकंटकम् ।
यस्मादुत्पत्स्यते तस्यां भगवान्पुरुषोत्तमः ४३।
तस्मात्तु नगरी पुण्या साप्ययोध्येति कीर्तिता ।
नगरस्य परं धाम्नो नाम तस्याप्यभूच्छुभे ४४।
यत्रास्ते भगवान्विष्णुस्तदेव परमं पदम् ।
तत्र सद्यो भवेन्मोक्षः सर्वकर्म्मनिकृंतनः ४५।
जाते तत्र महाविष्णौ नराः सर्वे मुदं ययुः ।
स राजा पृथिवीं सर्वां पालयित्वा शुभानने ४६।
अयजद्वैष्णवेष्ट्या च पुत्रार्थी हरिमच्युतम् ।
तेन संपूजितः श्रीशो राजा सर्वगतो हरिः ४७।
वैष्णवेन तु यज्ञेन वरदः प्राह केशवः ।
तस्मिन्नाविरभूदग्नौ यज्ञरूपो हरिस्तदा ४८।
शुद्धजाम्बूनदप्रख्यः शंखचक्रगदाधरः ।
शुक्लांबरधरः श्रीमान्सर्वभूषणभूषितः ४९।
श्रीवत्सकौस्तुभोरस्को वनमालाविभूषितः ।
पद्मपत्रविशालाक्षश्चतुर्बाहुरुदारधीः ५०।
सव्यांकस्थ श्रिया सार्द्धमाविरासीद्रमेश्वरः ।
वरदोस्मीति तं प्राह राजानं भक्तवत्सलः ५१।
तं दृष्ट्वा सर्वलोकेशं राजा हर्षसमाकुलः ।
ववंदे भार्य्यया सार्द्धं प्रहृष्टेनांतरात्मना ५२।
प्रांजलिः प्रणतो भूत्वा हर्षगद्गदया गिरा ।
पुत्रत्वं मे भजेत्याह देवदेवं जनार्दनम् ५३।
ततः प्रसन्नो भगवान्प्राह राजानमच्युतः ।
विष्णुरुवाच-
उत्पत्स्येऽहं नृपश्रेष्ठ देवलोकहिताय वै ५४।
परित्राणाय साधूनां राक्षसानां वधाय च ।
मुक्तिं प्रदातुं लोकानां धर्म्मसंस्थापनाय च ५५।
महादेव उवाच-
इत्युक्त्वा पायसं दिव्यं हेमपात्रस्थितं शृतम् ।
लक्ष्म्याहस्तस्थितं शुभ्रं पार्थिवाय ददौ हरिः ५६।
विष्णुरुवाच-
इदं वै पायसं राजन्पत्नीभ्यस्तव सुव्रत ।
देहि ते तनयास्तासु उत्पत्स्यन्ते मदंगजाः ५७।
महादेव उवाच-
इत्युक्त्वा मुनिभिः सर्वैः स्तूयमानो जनार्दनः ।
स्वात्मानं दर्शयित्वाथ तथैवांतरधीयत ५८।
स राजा तत्र दृष्ट्वा च पत्नीं ज्येष्ठां कनीयसीम् ।
विभज्य पायसं दिव्यं प्रददौ सुसमाहितः ५९।
एतस्मिन्नन्तरे पत्नी सुमित्रा तस्य मध्यमा ।
तत्समीपं प्रयाता सा पुत्रकामा सुलोचना ६०।
तां दृष्ट्वा तत्र कौशल्या कैकेयी च सुमध्यमा ।
अर्द्धमर्द्धं प्रददतुस्ते तस्यै पायसं स्वकम् ६१।
तत्प्राश्य पायसं दिव्यं राजपत्न्यः सुमध्यमाः ।
संपन्नगर्भाः सर्वास्ता विरेजुः शुभ्रवर्च्चसः ६२।
तासां स्वप्नेषु देवेशः पीतवासा जनार्दनः ।
शंखचक्रगदापाणिराविर्भूतस्तदा हरिः ६३।
अस्मिन्काले मनोरम्ये मधुमासि शुचिस्मिते ।
शुक्ले नवम्यां विमले नक्षत्रेऽदितिदैवते ६४।
मध्याह्नसमये लग्ने सर्वग्रहशुभान्विते ।
कौसल्या जनयामास पुत्रं लोकेश्वरं हरिम् ६५।
इंदीवरदलश्यामं कोटिकंदर्प्पसन्निभम् ।
पद्मपत्रविशालाक्षं सर्वाभरणशोभितम् ६६।
श्रीवत्सकौस्तुभोरस्कं सर्वाभरणभूषितम् ।
उद्यद्दिनकरप्रख्यकुण्डलाभ्यां विराजितम् ६७।
अनेकसूर्य्यसंकाशं तेजसा महता वृतम् ।
परेशस्य तनो रम्यं दीपादुत्पन्नदीपवत् ६८।
ईशानं सर्वलोकानां योगिध्येयं सनातनम् ।
सर्वोपनिषदामर्थमनंतं परमेश्वरम् ६९।
जगत्सर्गस्थितिलये हेतुभूतमनामयम् ।
शरण्यं सर्वभूतानां सर्वभूतमयं विभुम् ७०।
समुत्पन्ने जगन्नाथे देवदुंदुभयो दिवि ।
विनेदुः पुष्पवर्षाणि ववर्षुः सुरसत्तमाः ७१।
प्रजापतिमुखा देवा विमानस्था नभस्तले ।
तुष्टुवुर्मुनिभिः सार्द्धं हर्षपूर्णांगविह्वलाः ७२।
जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः ।
ववुः पुण्यशिवा वाताः सुप्रभोभूद्दिवाकरः ७३।
जज्वलुश्चाग्नयः शांता विमलाश्च दिशोदश ।
ततस्स राजा हर्षेण पुत्रं दृष्ट्वा सनातनम् ७४।
पुरोधसा वसिष्ठेन जातकर्म्मतदाऽकरोत् ।
नाम चास्मै ददौ रम्यं वसिष्ठो भगवांस्तदा ७५।
श्रियः कमलवासिन्या रमणोऽयं महान्प्रभुः ।
तस्माच्छ्रीराम इत्यस्य नाम सिद्धं पुरातनम् ७६।
सहस्रनाम्नां श्रीशस्य तुल्यं मुक्तिप्रदं नृणाम् ।
विष्णुमासि समुत्पन्नो विष्णुरित्यभिधीयते ७७।
एवं नामास्य दत्वाथ वसिष्ठो भगवानृषिः ।
परिणीय नमस्कृत्य स्तुत्वा स्तुतिभिरेव च ७८।
संकीर्त्य नामसाहस्रं मंगलार्थं महात्मनः ।
विनिर्ययौ महातेजास्तस्मात्पुण्यतमाद्गृहात् ७९।
राजाथ विप्रमुख्येभ्यो ददौ बहुधनं मुदा ।
गवामयुतदानं च कारयामास धर्म्मतः ८०।
ग्रामाणां शतसाहस्रं ददौ रघुकुलोत्तमः ।
वस्त्रैराभरणैर्दिव्यैरसंख्येयैर्धनैरपि ८१।
विष्णोस्संतुष्टये तत्र तर्प्पयामास भूसुरान् ।
कौसल्या च सुतं दृष्ट्वा रामं राजीवलोचनम् ८२।
फुल्लहस्तारविंदाभं पद्महस्ताम्बुजान्वितम् ।
तस्य श्रीपादकमले पद्माब्जे च वरानने ८३।
शंखचक्रगदापद्मध्वजवस्त्रादिचिह्निते ।
दृष्ट्वा वक्षसि श्रीवत्सं कौस्तुभं वनमालया ८४।
तस्यांगे सा जगत्सर्वं सदेवासुरमानुषम् ।
स्मितवक्त्रे विशालाक्षी भुवनानि चतुर्दश ८५।
निश्वासे तस्य वेदांश्च सेतिहासान्महात्मनः ।
द्वीपानब्धीन्गिरींस्तस्य जघने वरवर्णिनि ८६।
नाभ्यां ब्रह्मशिवौ तस्य कर्णयोश्च दिशः शुभाः ।
नेत्रयोर्वह्निसूर्यौ च घ्राणे वायुं महाजवम् ८७।
सर्वोपनिषदामर्थं दृष्ट्वा तस्य विभूतयः ।
कृत्स्ना भीता वरारोहा प्रणम्य च पुनः पुनः।
हर्षाश्रुपूर्णनयना प्रांजलिर्वाक्यमब्रवीत् ८८।
कौशल्योवाच-
धन्यास्मि देवदेवेश लब्ध्वा त्वां तनयं प्रभो ।
प्रसीद मे जगन्नाथ पुत्रस्नेहं प्रदर्शय ८९।
ईश्वर उवाच-
एवमुक्तो हृषीकेशो मात्रा सर्वगतो हरिः ।
मायामानुषतां प्राप्य शिशुभावाद्रुरोद सः ९०।
अथ प्रमुदिता देवी कौशल्या शुभलक्षणा ।
पुत्रमालिंग्य हर्षेण स्तन्यं प्रादात्सुमध्यमा ९१।
तस्याः स्तन्यं पपौ देवो बालभावात्सनातनः ।
उवास मातुरुत्संगे जगद्भर्ता महाविभुः ९२।
देशे तस्मिञ्छुशुभे रम्ये सर्वकामप्रदे नृणाम् ।
उत्सवं चक्रिरे पौरा हृष्टा जनपदा नराः ९३।
कैकेय्यां भरतो जज्ञे पांचजन्यांशचोदितः ।
सुमित्रा जनयामास लक्ष्मणं शुभलक्षणम् ९४।
शत्रुघ्नं च महाभागा देवशत्रुप्रतापनम् ।
अनंतांशेन संभूतो लक्ष्मणः परवीरहा ९५।
सुदर्शनांशाच्छत्रुघ्नः संजज्ञेऽमितविक्रमः ।
ते सर्वे ववृधुस्तत्र वैवस्वतमनोः कुले ९६।
संस्कृतास्ते सुताः सम्यग्वसिष्ठेन महौजसा ।
अधीतवेदास्ते सर्वे श्रुतवंतस्तथा नृपाः ९७।
सर्वशास्त्रार्थतत्वज्ञा धनुर्वेदे च निष्ठिताः ।
बभूवुः परमोदारा लोकानां हर्षवर्द्धनाः ९८।
युग्मं बभूवतुस्तत्र राजानौ रामलक्ष्मणौ ।
तथा भरतशत्रुघ्नौ तयोर्युग्मं बभूव ह ९९।
अथ लोकेश्वरी लक्ष्मीर्जनकस्य निवेशने ।
शुभक्षेत्रे हलोद्धाते सुनासीरे शुभेक्षणे १००।
बालार्ककोटिसंकाशा रक्तोत्पलकराम्बुजा ।
सर्वलक्षणसंपन्ना सर्वाभरणभूषिता १०१।
धृत्वा वक्षसि चार्वङ्गी मालामम्लानपङ्कजाम् ।
सीतामुखे समुत्पन्ना बालभावेन सुंदरी १०२।
तां दृष्ट्वा जनको राजा कन्यां वेदमयीं शुभाम् ।
उद्धृत्यापत्यभावेन पुपोष मिथिलापतिः १०३।
जनकस्य गृहे रम्ये सर्वलोकेश्वरप्रिया ।
ववृधे सर्वलोकस्य रक्षणार्थं सुरेश्वरी १०४।
एतस्मिन्नंतरे देवि कौशिको लोकविश्रुतः ।
सिद्धाश्रमे महापुण्ये भागीरथ्यास्तटे शुभे १०५।
क्रतुप्रवरमारेभे यष्टुं तत्र महामुनिः ।
वर्त्तमानस्य तस्यास्य यज्ञस्याथ द्विजन्मनः १०६।
क्रतुविध्वंसिनोऽभूवन्रावणस्य निशाचराः ।
कौशिकश्चिंतयित्वाथ रघुवंशोद्भवं हरिम् १०७।
आनेतुमैच्छद्धर्मात्मा लोकानां हितकाम्यया ।
स गत्वा नगरीं रम्यामयोध्यां रघुपालिताम् १०८।
नृपश्रेष्ठं दशरथं ददर्श मुनिसत्तमः ।
राजापि कौशिकं दृष्ट्वा प्रत्युत्थाय कृतांजलिः १०९।
पुत्रैः सह महातेजा ववंदे मुनिसत्तमम् ।
धन्योऽहमस्मीति वदन्हर्षेण रघुनंदनं ११०।
अर्चयामास विधिना निवेश्य परमासने ।
परिणीय नमस्कृत्य किं करोमीत्युवाच तम् १११।
ततः प्रोवाच हृष्टात्मा विश्वामित्रो महातपाः ।
विश्वामित्र उवाच-
देहि मे राघवं राजन्रक्षणार्थं क्रतोर्मम ११२।
साफल्यमस्तु मे यज्ञे राघवस्य समीपतः ।
तस्माद्रामं रक्षणार्थं दातुमर्हसि भूपते ११३।
ईश्वर उवाच-
तच्छ्रुत्वा मुनिवर्य्यस्य वाक्यं सर्वविदां वरः ।
प्रददौ मुनिवर्य्याय राघवं सह लक्ष्मणम् ११४।
आदाय राघवं तत्र विश्वामित्रो महातपाः ।
स्वमाश्रममभिप्रीतः प्रययौ द्विजसत्तमः ११५।
ततः प्रहृष्टास्त्रिदशाः प्रयाते रघुसत्तमे ।
ववृषुः पुष्पवर्षाणि तुष्टुवुश्च महौजसः ११६।
अथाजगाम हृष्टात्मा वैनतेयो महाबलः ।
अदृश्यभूतो भूतानां संप्राप्य रघुसत्तमम् ११७।
ताभ्यां दिव्ये च धनुषी तूणौ चाक्षयसायकौ ।
दिव्यान्यस्त्राणि शस्त्राणि दत्वा च प्रययौ द्विजः ११८।
तौ रामलक्ष्मणौ वीरौ कौशिकेन महात्मना ।
गच्छंती ज्ञापितारण्ये राक्षसी घोरदर्शना ११९।
नाम्ना तु ताडका देवि भार्या सुंदस्य रक्षसः ।
जघ्नतुस्तां महावीरौ बाणैर्दिव्यधनुश्च्युतैः १२०।
निहता राघवेणाथ राक्षसी घोरदर्शना ।
त्यक्त्वा तनुं घोररूपां दिव्यरूपा बभूव सा १२१।
जाज्वल्यमानावपुषा सर्वाभरणविभूषिता ।
प्रययौ वैष्णवं लोकं प्रणम्य च रघूत्तमौ १२२।
तां हत्वा राघवः श्रीमान्कौशिकस्याश्रमं शुभम् ।
प्रविवेश महातेजा लक्ष्मणेन महात्मना १२३।
ततः प्रहृष्टा मुनयः प्रत्युद्गम्य रघूत्तमम् ।
निवेश्य पूजयामासुरर्घाद्यैः परमात्मने १२४।
कौशिकः कृतदीक्षस्तु यंष्टुं यज्ञमनुत्तमम् ।
आरेभे मुनिभिः सार्द्धं विधिना मुनिसत्तमः १२५।
वर्त्तमाने महायज्ञे मारीचो नाम राक्षसः ।
भ्रात्रा सुबाहुना तत्र विघ्नं कर्तुमवस्थितः १२६।
दृष्ट्वा तौ राक्षसौ घोरौ राघवः परवीरहा ।
जघानैकेन बाणेन सुबाहुं राक्षसेश्वरम् १२७।
पवनास्त्रेण महता मारीचं स निशाचरम् ।
सागरे पातयामास शुष्कपर्णमिवानिलः १२८।
स रामस्य महावीर्य्यं दृष्ट्वा राक्षससत्तमः ।
न्यस्तशस्त्रस्तपस्तप्तुं प्रययौ महादाश्रमम् १२९।
विश्वामित्रो महातेजाः समाप्ते महति क्रतौ ।
प्रहृष्टमनसा तत्र पूजयामास राघवम् १३०।
समाश्लिष्य महात्मानं काकपक्षधरं हरिम् ।
नीलोत्पलदलश्यामं पद्मपत्रायतेक्षणम् १३१।
उपाघ्राय तदा मूर्ध्नि तुष्टाव मुनिसत्तमः ।
एतस्मिन्नंतरे राजा मिथिलाया अधीश्वरः १३२।
वाजपेयं क्रतुं यष्टुमारेभे मुनिसत्तमैः ।
तं द्रष्टुं प्रययुस्सर्वे विश्वामित्रपुरोगमाः १३३।
मुनयो रघुशार्दूल सहिताः पुण्यचेतसः ।
गच्छतस्तस्य रामस्य पदाब्जेन महात्मनः १३४।
अभूत्सा पावनी भूमिः समाक्रांता महाशिला ।
सापि शप्ता पुरा भर्त्रा गौतमेन द्विजन्मना १३५।
अहल्या रघुनाथस्य पादस्पर्शाच्छुभाऽभवत् ।
अथ संप्राप्य नगरीं मिथिलां मुनिसत्तमाः १३६।
राघवाभ्यां तु सहिता बभूवुः प्रीतमानसाः ।
समागतान्महाभागान्दृष्ट्वा राजा महाबलः १३७।
प्रत्युद्गम्य प्रणम्याथ पूजयामास मैथिलः ।
रामं पद्मविशालाक्षमिंदीवरदलप्रभम् १३८।
पीताम्बरधरं श्लक्ष्णं कोमलावयवोज्ज्वलम् ।
अवधीरित कंदर्प्पकोटिलावण्यमुत्तमम् १३९।
सर्वलक्षणसम्पन्नं सर्वाभरणभूषितम् ।
स्वस्य हृत्पद्ममध्ये यः परेशस्य तनुर्हरिः १४०।
उत्पन्नो दीपवद्दीपात्सौशील्यादिगुणैः परैः ।
तं दृष्ट्वा रघुनाथं स जनको हृष्टमानसः १४१।
परेशमेव तं मेने रामं दशरथात्मजम् ।
पूजयामास काकुत्स्थं धन्योस्मीति ब्रुवन्नृपः १४२।
प्रसादं वासुदेवस्य विष्णोर्मेने नरेश्वरः ।
प्रदातुं दुहितां तस्मै मनसा चिंतयन्प्रभुः १४३।
आत्मजौ रघुवंशस्य ज्ञात्वा तत्र नृपोत्तमः ।
पूजयामास धर्मेण वस्त्रैराभरणैः शुभैः १४४।
ऋषीन्समर्चयामास मधुपर्कादिपूजनैः ।
ततोऽवसाने यज्ञस्य रामो राजीवलोचनः १४५।
भंक्त्वा शैवं धनुर्दिव्यं जितवान्जनकात्मजाम् ।
अथासौ वीर्यशुल्केन महता परितोषितः १४६।
मुदा धरणिजां तस्मै प्रददौ मिथिलाधिपः ।
केशवाय श्रियमिव यथापूर्वं महार्णवः १४७।
स दूतं प्रेषयामास राघवं मिथिलाधिपः ।
पुत्राभ्यां सह धर्मात्मा मिथिलायां विवेश ह १४८।
वसिष्ठवामदेवाद्यैः प्रीतैः सह महीपतिः ।
उवास नगरे रम्ये जनकस्य रघूत्तमः १४९।
तस्मिन्नेव शुभे काले रामस्य धरणीसुताम् ।
विवाहमकरोद्राजा मिथिलेन समर्चितः १५०।
लक्ष्मणस्योर्मिलां नाम कन्यां जनकसंभवाम् ।
जनकस्यानुजस्याथ तनये शुभवर्चसी १५१।
मांडवी श्रुतकीर्त्तिश्च सर्वलक्षणलक्षिते ।
भरतस्य च सौमित्रेर्विवाहमकरोन्नृपः १५२।
निर्वर्त्यौद्वाहिकं तत्र राजा दशरथो बली ।
अयोध्यां प्रस्थितः श्रीमान्पौरैर्जनपदैर्वृतः १५३।
पारिबर्हं समादाय मैथिलेन च पूजितः ।
ससुतः सस्नुषः साश्वः सगजः सबलानुगः १५४।
तदध्वनि महावीर्य्यो जामदग्निः प्रतापवान् ।
गृहीत्वा परशुं चापं संक्रुद्ध इव केसरी १५५।
अभ्यधावच्च काकुत्स्थं योद्धुकामो नृपांतकः ।
संप्राप्य राघवं दृष्ट्वा वचनं प्राह भार्गवः १५६।
परशुराम उवाच-
रामराम महाबाहो शृणुष्व वचनं मम ।
बहुशः पार्थिवान्हत्वा संयुगे भूरिविक्रमान् १५७।
ब्राह्मणेभ्यो महीं दत्वा तपस्तप्तुमहं गतः ।
तव वीर्यबलं श्रुत्वा त्वया योद्धुमिहागतः १५८।
इक्ष्वाकवो न वध्या मे मातामहकुलोद्भवाः ।
वीर्य्यं क्षत्रबलं श्रुत्वा न शक्यं सहितुं मम १५९।
रौद्रं चापं दुराधर्षं भज्यमानां त्वया नृप ।
तस्माद्वदान्य युद्धं मे दीयतां रघुसत्तम १६०।
इदं तु वैष्णवं चापं तेन तुल्यमरिंदम ।
आरोपय स्ववीर्येण निर्जितोस्मि त्वयैव हि १६१।
अथवा त्यज शस्त्राणि पुरस्ताद्बलिनो मम ।
शरणं भज काकुत्स्थ कातरोस्यथ चेतसी १६२।
ईश्वर उवाच-
एवमुक्तस्तु काकुत्स्थो भार्गवेण प्रतापवान् ।
तच्चापं तस्य जग्राह तच्छक्तिं वैष्णवीमपि १६३।
शक्त्या वियुक्तस्स तदा जामदग्निः प्रतापवान् ।
निर्वीर्यो नष्टतेजाभूत्कर्म्महीनो यथा द्विजः १६४।
विनष्टतेज संदृष्ट्वा भार्गवं नृपसत्तमाः ।
साधुसध्विति काकुत्स्थं प्रशशंसुर्मुहुर्मुहुः १६५।
काकुत्स्थस्तन्महच्चापं गृहीत्वारोप्य लीलया ।
संधाय बाणं तच्चापे भार्गवं प्राह विस्मितम् १६६।
राम उवाच-
अनेन शरमुख्येन किं कर्त्तव्यं तव द्विज ।
छेद्मि लोकमिमं चाधः स्वर्गं वा हन्मि ते तपः १६७।
ईश्वर उवाच-
तन्दृष्ट्वा घोरसंकाशं बाणं रामस्य भार्गवः ।
ज्ञात्वा तं परमात्मानं प्रहृष्टो राममब्रवीत् १६८।
परशुराम उवाच-
रामराम महाबाहो न वेद्मि त्वां सनातनम् ।
जानाम्यद्यैव काकुत्स्थ तव वीर्य्यगुणादिभिः १६९।
त्वमादिपुरुषः साक्षात्परब्रह्मपरोऽव्ययः ।
त्वमनंतो महाविष्णुर्वासुदेवः परात्परः १७०।
नारायणस्त्वं श्रीशस्त्वमीश्वरस्त्वं त्रयीमयः ।
त्वं कालस्त्वं जगत्सर्वमकाराख्यस्त्वमेव च १७१।
स्रष्टा धाता च संहर्त्ता त्वमेव परमेश्वरः ।
त्वमचिंत्यो महद्भूतरूपस्त्वं तु मनुर्महान् १७२।
चतुःषट्पंचगुणवांस्त्वमेव पुरुषोत्तमः ।
त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारस्त्रयीमयः १७३।
व्यक्ताव्यक्तस्वरूपस्त्वं गुणभृन्निर्ग्गुणः परः ।
स्तोतुं त्वाहमशक्तश्च वेदानामप्यगोचरम् १७४।
यच्चापलत्वं कृतवांस्त्वां युयुत्सुतया प्रभो ।
तत्क्षंतव्यं त्वया नाथ कृपया केवलेन तु १७५।
तव शक्त्या नृपान्सर्वाञ्जित्वा दत्वा महीं द्विजान् ।
त्वत्प्रसादवशादेव शांतिमाप्नोति नैष्ठिकीम् १७६।
ईश्वर उवाच-
एवमुक्त्वा तु काकुत्स्थं जामदग्निर्महातपाः ।
परिणीय नमस्कृत्वा राघवं लोकरक्षकम् १७७।
शतक्रतुकृतं स्वर्गं तदस्त्राय न्यवेदयत् ।
राघवोऽथ महातेजा ववंदे तं महामुनिम् १७८।
विधिवत्पूजयामास पाद्यार्घाचमनादिभिः ।
तेन संपूजितस्तत्र जामदग्निर्महातपाः १७९।
तपस्तप्तुं ययौ रम्यं नरनारायणाश्रमम् ।
राजा दशरथः सोऽथ पुत्रैर्दारसमन्वितैः १८०।
स्वां पुरीं सुमुहूर्त्तेन प्रविवेश महाबलः ।
राघवो लक्ष्मणश्चैव शत्रुघ्नो भरतस्तथा १८१।
स्वान्स्वान्दारानुपागम्य रेमिरे हृष्टमानसाः ।
तत्र द्वादश वर्षाणि सीतया सह राघवः १८२।
रमयामास धर्मात्मा नारायण इव श्रिया ।
तस्मिन्नेव तु राजाथ काले दशरथः सुतम् १८३।
ज्येष्ठं राज्येन संयोक्तुमैच्छत्प्रीत्या महीपतिः ।
तस्य भार्याथ कैकेयी पुरा दत्तवरा प्रिया १८४।
अयाचत नृपश्रेष्ठं भरतस्याभिषेचनम् ।
विवासनं च रामस्य वत्सराणि चतुर्दश १८५।
स राजा सत्यवचनाद्रामं राज्यादथोः सुतम् ।
विवासयामास तदा दुःखेन हतचेतनः १८६।
शक्तोऽपि राघवस्तस्मिन्राज्यं संत्यज्य धर्मतः ।
दशग्रीववधार्थाय पितुर्वचनहेतुना १८७।
वनं जगाम काकुत्स्थो लक्ष्मणेन च सीतया ।
राजा पुत्रवियोगार्त्तः शोकेन च ममार सः १८८।
नियुज्यमानो भरतस्तस्मिन्राज्ये समंत्रिभिः ।
नैच्छद्राज्यं स धर्म्मात्मा सौभ्रात्रमनुदर्शयन् १८९।
वनमागम्य काकुत्स्थमयाचद्भ्रातरं ततः ।
रामस्तु पितुरादेशान्नैच्छद्राज्यमरिंदमः १९०।
स्वपादुके ददौ तस्मै भक्त्या सोऽप्यग्रहीत्तथा ।
रामस्य पादुके राज्यमवाप्य भरतः शुभे १९१।
प्रत्यहं गंधपुष्पैश्च पूजयन्कैकयीसुतः ।
तपश्चरणयुक्तेन तस्मिंस्तस्थौ नृपोत्तमः १९२।
यावदागमनं तस्य राघवस्य महात्मनः ।
तावद्व्रतपराः सर्वे बभूवुः पुरवासिनः १९३।
राघवश्चित्रकूटाद्रौ भरद्वाजाश्रमे शुभे ।
रमयामास वैदेह्या मन्दाकिन्या जले शुभे १९४।
कदाचिदंके वैदेह्याः शेते रामो महामनाः ।
ऐंद्रिः काकस्समागम्य तस्मिन्नेव चचार ह १९५।
स दृष्ट्वा जानकीं तत्र कंदर्प्पशरपीडितः ।
विददार नखैस्तीक्ष्णैः पीनोन्नतपयोधरम् १९६।
तं दृष्ट्वा वायसं रामः कुशं जग्राह पाणिना ।
ब्रह्मणास्त्रेण संयोज्य चिक्षेप धरणीधरः १९७।
तं तृणं घोरसंकाशं ज्वालारचितविग्रहम् ।
दृष्ट्वा काकः प्रदुद्राव विमुंचन्कातरं स्वरम् १९८।
तं काकं प्रत्यनुययौ रामस्यास्त्रं सुदारुणम् ।
वायसस्त्रिषुलोकेषु बभ्राम भयपीडितः १९९।
यत्र यत्र ययौ काकः शरणार्थी स वायसः ।
तत्र तत्र तदस्त्रं तु प्रविवेश भयावहम् २००।
ब्रह्माणमिंद्रं रुद्रं च यमं वरुणमेव च ।
शरणार्थी जगामाशु वायसः शस्त्रपीडितः २०१।
तं दृष्ट्वा वायसं सर्वे रुद्राद्या देव दानवाः ।
न शक्ताः स्म वयं त्रातुमिति प्राहुर्मनीषिणः ।
अथ प्रोवाच भगवान्ब्रह्मा त्रिभुवनेश्वरः २०२।
ब्रह्मोवाच-
भो भो बलिभुजां श्रेष्ठ तमेव शरणं व्रज ।
स एव रक्षकः श्रीमान्सर्वेषां करुणानिधिः २०३।
रक्षत्येव क्षमासारो वत्सलं शरणागतान् ।
ईश्वरः सर्वभूतानां सौशील्यादिगुणान्वितः २०४।
रक्षिता जीवलोकस्य पिता माता सखा सुहृत् ।
शरणं व्रज देवेशं नान्यत्र शरणं द्विज २०५।
महादेव उवाच-
इत्युक्तस्तेन बलिभुग्ब्रह्मणा रघुनंदनम् ।
उपेत्य सहसा भूमौ निपपात भयातुरः २०६।
प्राणसंशयमापन्नं दृष्ट्वा सीताथ वायसम् ।
त्राहित्राहीति भर्तारमुवाच विनयाद्विभुम् २०७।
पुरतः पतितं देवी धरण्यां वायसं तदा ।
तच्छिरः पादयोस्तस्य योजयामास जानकी २०८।
समुत्थाप्य करेणाथ कृपापीयूषसागरः ।
ररक्ष रामो गुणवान् वायसं दययार्दितः २०९।
तमाह वायसं रामो मा भैरिति दयानिधिः ।
अभयं ते प्रदास्यामि गच्छ गच्छ यथासुखम् २१०।
प्रणम्य राघवायाथ सीतायै च मुहुर्मुहुः ।
स्वर्ल्लोकं प्रययावाशु राघवेण च रक्षितः २११।
ततो रामस्तु वैदेह्या लक्ष्मणेन च धीमता ।
उवास चित्रकूटाद्रौ स्तूयमानो महर्षिभिः २१२।
तस्मिन्संपूज्यमानस्तु भरद्वाजेन राघवः ।
जगामात्रेस्सुविपुलमाश्रमं रघुसत्तमः २१३।
समागतं रघुवरं दृष्ट्वा मुनिवरोत्तमः ।
भार्यया सह धर्म्मात्मा प्रत्युद्गम्य मुदा युतः २१४।
आसने सुशुभे मुख्ये निवेश्य सह सीतया ।
अर्घ्यपाद्याचमनीयं च वस्त्राणि विविधानि च २१५।
मधुपर्कन्ददौ प्रीत्या भूषणं चानुलेपनम् ।
तस्य पत्न्यनसूया तु दिव्यांबरमनुत्तमम् २१६।
सीतायै प्रददौ प्रीत्या भूषणानि द्युमंति च ।
दिव्यान्नपानभक्षाद्यैर्भोजयामास राघवम् २१७।
तेन संपूजितस्तत्र भक्त्या परमया नृपः ।
उवास दिवसं तत्र प्रीत्या रामस्सलक्ष्मणः २१८।
प्रभाते विमले रामः समुत्थाय महामुनिम्।
परिणीय प्रणम्याथ गमनायोपचक्रमे २१९।
अनुज्ञातस्ततस्तेन रामो राजीवलोचनः ।
प्रययौ दंडकारण्यं महर्षिकुलसंकुलम् २२०।
तत्रातिभीषणं घोरं विराधं नाम राक्षसम् ।
हत्वाथ शरभंगस्य प्रविवेशाश्रमं शुभम् २२१।
स तु दृष्ट्वाथ काकुत्स्थं सद्यः संक्षीणकल्मषः ।
प्रययौ ब्रह्मलोकं तु गंधर्वाप्सरसान्वितम् २२२।
सुतीक्ष्णस्याप्यगस्त्यस्य ह्यगस्त्यभ्रातुरेव च ।
क्रमेण प्रययौ रामस्तैश्च संपूजितस्तथा २२३।
पंचवट्यां ततो रामो गोदावर्यास्तटे शुभे ।
उवास सुचिरं कालं सुखेन परमेण च २२४।
तत्र गत्वा मुनिश्रेष्ठास्तापसा धर्मचारिणः ।
पूजयामासुरात्मेशं रामं राजीवलोचनम् २२५।
भयं विज्ञापयामासुस्तं च रक्षोगणेरितम् ।
तानाश्वास्य तु काकुस्थो ददौ चाभयदक्षिणाम् २२६।
ते तु संपूजितास्तेन स्वाश्रमान्संप्रपेदिरे ।
तस्मिंस्त्रयोदशाब्दानि रामस्य परिनिर्य्ययुः २२७।
गोदावर्य्यास्तटे रम्ये पंचवट्यां मनोरमे ।
कस्यचित्त्वथ कालस्य राक्षसी घोररूपिणी २२८।
रावणस्य स्वसा तत्र प्रविवेश दुरासदा ।
सा तु दृष्ट्वा रघुवरं कोटिकंदर्प्पसन्निभम् २२९।
इंदीवरदलश्यामं पद्मपत्रायतेक्षणम् ।
प्रोन्नतांसं महाबाहुं कम्बुग्रीवं महाहनुम् २३०।
संपूर्णचंद्रसदृशं सस्मिताननपंकजम् ।
भृंगावलिनिभैः स्निग्धैः कुटिलैः शीर्षजैर्वृतम् २३१।
रक्तारविंदसदृशं पद्महस्ततलांकितम् ।
निष्कलंकेन्दुसदृशं नखपंक्तिविराजितम् २३२।
स्निग्धकोमलदूर्वाभं सौकुमार्य्यनिधिं शुभम् ।
पीतकौशेयवसनं सर्वाभरणभूषितम् २३३।
युवाकुमारवयसं जगन्मोहनविग्रहम् ।
दृष्ट्वा तं राक्षसी रामं कंदर्प्पशरपीडिता २३४।
अब्रवीत्समुपेत्याथ रामं कमललोचनम् ।
राक्षस्युवाच-
कस्त्वं तापसवेषेण वर्त्तसे दंडके वने २३५।
आगतोऽसि किमर्थं च राक्षसानां दुरासदे ।
शीघ्रमाचक्ष्व तत्त्वेन नानृतं वक्तुमर्हसि २३६।
महेश्वर उवाच-
इत्युक्तः स तदा रामः संप्रहस्याब्रवीद्वचः ।
राम उवाच-।
राज्ञो दशरथस्याहं पुत्रो राम इतीरितः ।
असौ ममानुजो धन्वी लक्ष्मणो नाम चानघः २३७।
पत्नी चेयं च मे सीता जनकस्यात्मजा प्रिया ।
पितुर्वचननिर्देशादहं वनमिहागतः २३८।
विचरामो महारण्यमृषीणां हितकाम्यया ।
आगतासि किमर्थं त्वमाश्रमं मम सुंदरि २३९।
का त्वं कस्य कुले जाता सर्वं सत्यं वदस्व मे ।
महेश्वर उवाच-
इत्युक्ता सा तु रामेण प्राह वाक्यमशंकिता २४०।
राक्षस्युवाच-
अहं विश्रवसः पुत्री रावणस्य स्वसा नृप ।
नाम्ना शूर्पणखा नाम त्रिषु लोकेषु विश्रुता २४१।
इदं च दंडकारण्यं भ्रात्रा दत्तं मम प्रभो ।
भक्षयन्नृषिसंघान्वै विचरामि महावने २४२।
त्वां तु दृष्ट्वा मुनिवरं कंदर्पशरपीडिता ।
रंतुकामा त्वया सार्द्धमागतास्मि सुनिर्भया २४३।
मम त्वं नृपशार्दूल भर्ता भवितुमर्हसि ।
इमां तव सतीं सीतां ग्रसितुं भूप कामये २४४।
वनेषु गिरिमुख्येषु रमयामि त्वया सह ।
महेश्वर उवाच-।
इत्युक्त्वा राक्षसी सीतां ग्रसितुं वीक्ष्य चोद्यताम् २४५।
श्रीरामः खड्गमुद्यम्य नासाकर्णौ प्रचिच्छिदे २४६।
रुदंती सभयं शीघ्रं राक्षसी विकृतानना ।
खरालयं प्रविश्याह तस्य रामस्य चेष्टितम् २४७।
स तु राक्षससाहस्रैर्दूषणत्रिशिरो वृतः ।
आजगाम भृशं योद्धुं राघवं शत्रुसूदनः २४८।
तान्रामः कानने घोरे बाणः कालांतकोपमैः ।
निजघान महाकायान्राक्षसांस्तत्र लीलया २४९।
खरं त्रिशिरसं चैव दूषणं तु महाबलम् ।
रणे निपातयामास बाणैराशीविषोपमैः २५०।
निहत्य राक्षसान्सर्वान्दंडकारण्यवासिनः ।
पूजितः सुरसंघैश्च स्तूयमानो महर्षिभिः २५१।
उवास दंडकारण्ये सीतया लक्ष्मणेन च ।
राक्षसानां वधं श्रुत्वा रावणः क्रोधमूर्च्छितः २५२।
आजगाम जनस्थानं मारीचेन दुरात्मना ।
संप्राप्य पंचवट्यां तु दशग्रीवः स राक्षसः २५३।
मायाविना मरीचेन मृगरूपेण रक्षसः ।
अपहृत्याश्रमाद्दूरे तौ तु दशरथात्मजौ २५४।
जहार सीतां रामस्य भार्यां स्ववधकांक्षया ।
ह्रियमाणां तु तां दृष्ट्वा जटायुर्गृध्रराड्बली २५५।
रामस्य सौहृदात्तत्र युयुधे तेन रक्षसा ।
तं हत्वा बाहुवीर्येण रावणं शत्रुवारणः २५६।
प्रविवेश पुरीं लंकां राक्षसैर्बहुभिर्वृताम् ।
अशोकवनिकामध्ये निःक्षिप्य जनकात्मजाम् २५७।
निधनं रामबाणेन कांक्षयन्स्वगृहं विशत् ।
रामस्तु राक्षसं हत्वा मारीचं मृगरूपिणम् २५८।
पुनराविश्य तत्राथ भ्रात्रा सौमित्रिणा ततः ।
राक्षसापहृतां भार्यां ज्ञात्वा दशरथात्मजः २५९।
प्रभूतशोकसंतप्तो विललाप महामतिः ।
मार्गमाणो वने सीतां पथि गृध्रं महाबलम् २६०।
विच्छिन्नपादपक्षं च पतितं धरणीतले ।
रुधिरापूर्णसर्वांगं दृष्ट्वा विस्मयमागतः २६१।
पप्रच्छ राघवं श्रीमान्केन किं त्वं जिघांसितः ।
गृध्रस्तु राघवं दृष्ट्वा मंदमंदमुवाच ह २६२।
गृध्र उवाच-
रावणेन हृता राम तव भार्यां बलीयसा ।
तेन राक्षसमुख्येन संग्रामे निहतोस्म्यहम् २६३।
महेश्वर उवाच-
इत्युक्त्वा राघवस्याग्रे सहसा त्यक्तजीवितः ।
संस्कारमकरोद्रामस्तस्य ब्रह्मविधानतः २६४।
स्वपदं च ददौ तस्मै योगिगम्यं सनातनम् ।
राघवस्य प्रसादेन स गृध्रः परमं पदम् २६५।
हरेः सामान्यरूपेण मुक्तिं प्राप खगोत्तमः ।
माल्यवंतं ततो गत्वा मतंगस्याश्रमे शुभे २६६।
अभिगम्य महाभागां शबरीं धर्मचारिणीम् ।
सा तु भागवतश्रेष्ठा दृष्ट्वा तौ रामलक्ष्मणौ २६७।
प्रत्युद्गम्य नमस्कृत्वा निवेश्य कुशविष्टरे ।
पादप्रक्षालनं कृत्वा वन्यैः पुष्पैः सुगंधिभिः २६८।
अर्चयामास भक्त्या वै हर्षनिर्भरमानसा ।
फलानि च सुगंधीनि मूलानि मधुराणि च २६९।
निवेदयामास तदा राघवाभ्यां दृढव्रता ।
फलान्यास्वाद्य काकुत्स्थस्तस्यै मुक्तिं ददौ पराम् २७०।
ततः पंपासरो गत्वा राघवः शत्रुसूदनः ।
जघान राक्षसं तत्र कबंधं घोररूपिणम् २७१।
तं निहत्य महावीर्यो ददाह स्वर्गतश्च सः ।
ततो गोदावरीं गत्वा रामो राजीवलोचनः २७२।
पप्रच्छ सीतां गंगे त्वं किं तां जानासि मे प्रियाम् ।
न शशंस तदा तस्मै सा गंगा तमसावृता २७३।
शशाप राघवः क्रोधाद्रक्ततोया भवेति ताम् ।
ततो भयात्समुद्विग्ना पुरस्कृत्य महामुनीन् २७४।
कृतांजलिपुटा दीना राघवं शरणं गता ।
ततो महर्षयस्सर्वे रामं प्राहुस्सनातनम् २७५।
ऋषय ऊचुः-
त्वत्पादकमलोद्भूता गंगा त्रैलोक्यपावनी ।
त्वमेव हि जगन्नाथ तां शापान्मोक्तुमर्हसि २७६।
महेश्वर उवाच-
ततः प्रोवाच धर्मात्मा रामः शरणवत्सलः ।
राम उवाच-
शबर्याः स्नानमात्रेण संगता शुभवारिणा ।
मुक्ता भवतु मच्छापाद्गंगेयं पापनाशिनी २७७।
एवमुक्त्वा तु काकुत्स्थः शबरीतीर्थमुत्तमम् ।
गंगा गयासमं चक्रे शार्ङ्गकोट्या महाबलः २७८।
महाभागवतानां च तीर्थं यस्योदकेऽभवत् ।
तच्छरीरं जगद्वंद्यं भविष्यति न संशयः २७९।
एवमुक्त्वा तु काकुत्स्थ ऋष्यमूकं गिरिं ययौ ।
ततः पंपासरस्तीरे वानरेण हनूमता २८०।
संगतस्तस्य वचनात्सुग्रीवेण समागतः ।
सुग्रीववचनाद्धत्वा वालिनं वानरेश्वरम् २८१।
सुग्रीवमेव तद्राज्ये रामोसावभ्यषेचयत् ।
स तु संप्रेषयामास दिदृक्षुर्जनकात्मजाम् २८२।
हनुमत्प्रमुखान्वीरान्वानरान्वानराधिपः ।
स लंघयित्वा जलधिं हनूमान्मारुतात्मजः २८३।
प्रविश्य नगरीं लंकां दृष्ट्वा सीतां दृढव्रताम् ।
उपवासकृशां दीनां भृशं शोकपरायणाम् २८४।
मलपंकेन दिग्धांगीं मलिनाम्बरधारिणीम् ।
निवेदयित्वाऽभिज्ञानं प्रवृत्तिं च निवेद्य ताम् २८५।
सप्तमंत्रिसुतांस्तत्र रावणस्य सुतं तथा ।
तोरणस्तंभमुत्पाट्य निजघान स्वयं कपिः २८६।
समाश्वास्य च वैदेहीं बभंजोपवनं तदा ।
वनपालान्किंकरांश्च पंचसेनाग्रनायकान् २८७।
रावणस्य सुतेनाथ निगृहीतो यदृच्छया ।
दृष्ट्वा च राक्षसेंद्रं तु संभाषित्वा तथैव च २८८।
ददाह नगरीं लंकां स्वलांगूलाग्निना कपिः ।
तया दत्तमभिज्ञानं गृहीत्वा पुनरागमत् २८९।
सोऽभिगम्य महातेजा रामं कमललोचनम् ।
न्यवेदयद्वानरेंद्रो दृष्टा सीतेति तत्वतः २९०।
सुग्रीवसहितो रामो वानरैर्बहुभिर्वृतः ।
महोदधेस्तटं गत्वा तत्रानीकं न्यवेशयत् २९१।
रावणस्यानुजो भ्राता विभीषण इतीरितः ।
धर्मात्मा सत्यसंधश्च महाभागवतोत्तमः२९२।
ज्ञात्वा समागतं रामं परित्यज्य स्वपूर्वजम् ।
राज्यं सुतांश्च दारांश्च राघवं शरणं ययौ २९३।
परिगृह्य च तं रामो मारुतेर्वचनात्प्रभुः ।
तस्मै दत्वाऽभयं सौम्यं रक्षो राज्येऽभ्यषेचयत् २९४।
ततस्समुद्रं काकुत्स्थस्तर्तुकामः प्रपद्य वै ।
सुप्रसन्नजलं तं तु दृष्ट्वा रामो महाबलः २९५।
शार्ङ्गमादाय बाणौघैः शोषयामास वारिधिम् ।
ततस्तु सरितामीशः काकुत्स्थं करुणानिधिम् २९६।
प्रपद्य शरणं देवमर्चयामास वारिधिः ।
पुनरापूर्य जलधिं वरुणास्त्रेण राघवः २९७।
उदधेर्वचनात्सेतुं सागरे मकरालये ।
गिरिभिर्वानरानीतैर्नलः सेतुमकारयत् २९८।
ततो गत्वा पुरीं लंकां सन्निवेश्य महाबलम् ।
सम्यगायोधनं चक्रे वानराणां च रक्षसाम् २९९।
ततो दशास्यतनयः शक्रजिद्राक्षसो बली ।
बबंध नागपाशैश्च तावुभौ रामलक्ष्मणौ ३००।
वैनतेयः समागत्य तान्यस्त्राणि प्रमोचयत् ।
राक्षसा निहतास्सर्वे वानरैश्च महाबलैः ३०१।
रावणस्यानुजं वीरं कुंभकर्णं महाबलम् ।
निजघान रणे रामो बाणैरग्निशिखोपमैः ३०२।
ब्रह्मास्त्रेणेन्द्रजित्क्रुद्धः पातयामास वानरान् ।
हनूमता समानीतो महौषधि महीधरः ३०३।
तस्यानीतस्य च स्पर्शात्सर्व एव समुत्थिताः ।
ततो रामानुजो वीरः शक्रजेतारमाहवे ३०४।
निपातयामास शरैर्वृत्रं वज्रधरो यथा ।
निर्ययावथ पौलस्त्यो योद्धुं रामेण संयुगे ३०५।
चतुरंगबलैः सार्द्धं मंत्रिभिश्च महाबलः ।
समंततोभवद्युद्धं वानराणां च रक्षसाम् ३०६।
रामरावणयोश्चैव तथा सौमित्रिणा सह ।
शक्त्या निपातयामास लक्ष्मणं राक्षसेश्वरः ३०७।
ततः क्रुद्धो महातेजा राघवो राक्षसांतकः ।
जघान राक्षसान्वीराञ्शरैः कालांतकोपमैः ३०८।
प्रदीप्तैर्बाणसाहस्रैः कालदंडोपमैर्भृशम् ।
छादयामास काकुत्स्थो दशग्रीवं च राक्षसम् ३०९।
स तु निर्भिन्नसर्वांगो राघवास्त्रैर्निशाचरः ।
भयात्प्रदुद्राव रणाल्लंकां प्रति निशाचरः ३१०।
जगद्राममयं पश्यन्निर्वेदाद्गृहमाविशत् ।
ततो हनूमता नीतो महौषधिमहागिरिः ३११।
तेन रामानुजस्तूर्णं लब्धसंज्ञोऽभवत्तदा ।
दशग्रीवस्ततो होममारेभे जयकांक्षया ३१२।
ध्वंसितं वानरेंद्रैस्तदभिचारात्मकं रिपोः ।
पुनर्युद्धाय पौलस्त्यो रामेण सह निर्ययौ ३१३।
दिव्यस्यन्दनमारुह्य राक्षसैर्बहुभिर्युतः ।
ततः शतमखो दिव्यं रथं हर्यश्वसंयुतम् ३१४।
राघवाय ससूतं हि प्रेषयामास बुद्धिमान् ।
रथं मातलिना नीतं समारुह्य रघूत्तमः ३१५।
स्तूयमानं सुरगणैर्युयुधे तेन रक्षसा ।
ततो युद्धमभूद्धोरं रामरावणयोर्महत् ३१६।
सप्ताह्निकमहोरात्रं शस्त्रास्त्रैरतिभीषणम् ।
विमानस्थाः सुरास्सर्वे ददृशुस्तत्र संयुगम् ३१७।
दशग्रीवस्य चिच्छेद शिरांसि रघुसत्तमः ।
समुत्थितानि बहुशो वरदानात्कपर्दिनः ३१८।
ब्राह्ममस्त्रं महारौद्रं वधायास्य दुरात्मनः ।
ससर्ज राघवस्तूर्णं कालाग्निसदृशप्रभम् ३१९।
तदस्त्रं राघवोत्सृष्टं रावणस्य स्तनांतरम् ।
विदार्य धरणीं भित्त्वा रसातलतले गतम् ३२०।
संपूज्यमानं भुजगै राघवस्य करं ययौ ।
स गतासुर्महादैत्यः पपात च ममार च ३२१।
ततो देवगणास्सर्वे हर्षनिर्भरमानसाः ।
ववृषुः पुष्पवर्षाणि महात्मनि जगद्गुरौ ३२२।
जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः ।
ववुः पुण्यास्तथा वाताः सुप्रभोऽभूद्दिवाकरः ३२३।
तुष्टुवुर्मुनयः सिद्धा देवगंधर्वकिन्नराः ।
लंकायां राक्षसश्रेष्ठमभिषिच्य विभीषणम् ३२४।
कृतकृत्यमिवात्मानं मेने रघुकुलोत्तमः ।
रामस्तत्राब्रवीद्वाक्यमभिषिच्य विभीषणम् ३२५।
राम उवाच-
यावच्चंद्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ।
यावन्ममकथालोके तावद्राज्यं विभीषणे ३२६।
गत्वा मम पदं दिव्यं योगिगम्यं सनातनम् ।
सपुत्रपौत्रः सगणः संप्राप्नुहि महाबलः ३२७।
ईश्वर उवाच-
एवं दत्वा वरं तस्मै राक्षसाय महाबलः ।
संप्राप्य मैथिलीं तत्र परुषं जनसंसदि ३२८।
उवाच राघवः सीतां गर्हितं वचनं बहु ।
सा तेन गर्हिता साध्वी विवेश चानलं महत् ३२९।
ततो देवगणास्सर्वे शिवब्रह्मपुरोगमाः ।
दृष्ट्वा तु मातरं वह्नौ प्रविशंतीं भयातुराः ।
समागम्य रघुश्रेष्ठं सर्वे प्रांजलयोऽब्रुवन् ३३०।
देवा ऊचुः-
रामराम महाबाहो शृणु त्वं चातिविक्रम ।
सीतातिविमला साध्वी तव नीत्यानपायिनी ३३१।
अत्याज्या तु वृथा सा हि भास्करेण प्रभा यथा ।
सेयं लोकहितार्थाय समुत्पन्ना महीतले ३३२।
माता सर्वस्य जगतः समस्तजगदाश्रया ।
रावणः कुंभकर्णश्च भृत्यौ पूर्वपरायणौ ३३३।
शापात्तौ सनकादीनां समुत्पन्नौ महीतले ।
तयोर्विमुक्त्यै वैदेही गृहीता दण्डके वने ३३४।
तावुभौ वै वधं प्राप्तौ त्वया राक्षसपुंगवौ ।
तौ विमुक्तौ दिवं यातौ पुत्रपौत्रसहानुगौ ३३५।
त्वं विष्णुस्त्वं परं ब्रह्म योगिध्येयः सनातनः ।
त्वमेव सर्वदेवानामनादिनिधनोऽव्ययः ३३६।
त्वं हि नारायणः श्रीमान्सीता लक्ष्मीः सनातनी ।
माता सा सर्वलोकानां पिता त्वं परमेश्वर ३३७।
नित्यैवैष जगन्माता तव नित्यानपायिनी ।
यथा सर्वगतस्त्वं हि तथा चेयं रघूत्तम ३३८।
तस्माच्छुद्धसमाचारां सीतां साध्वीं दृढव्रताम् ।
गृहाण सौम्य काकुत्स्थ क्षीराब्धेरिव मा चिरम् ३३९।
ईश्वर उवाच-
एतस्मिन्नंतरे तत्र लोकसाक्षी स पावकः ।
आदाय सीतां रामाय प्रददौ सुरसन्निधौ ।
अब्रवीत्तत्र काकुत्स्थं वह्निः सर्वशरीरगः ३४०।
वह्निरुवाच-
इयं शुद्धसमाचारा सीता निष्कल्मषा विभो ।
गृहाण मा चिरं राम सत्यं सत्यं तवाब्रुवन् ३४१।
ईश्वर उवाच-
ततोऽग्निवचनात्सीतां परिगृह्य रघूद्वहः ।
बभूव रामः संहृष्टः पूज्यमानः सुरोत्तमैः ३४२।
राक्षसैर्निहता ये तु संग्रामे वानरोत्तमाः ।
पितामहवरात्तूर्णं जीवमानाः समुत्थिताः ३४३।
ततस्तु पुष्पकं नाम विमानं सूर्यसन्निभम् ।
भ्रात्रा गृहीतं संग्रामे कौबेरं राक्षसेश्वरः ३४४।
तद्राघवाय प्रददौ वस्त्राण्याभरणानि च ।
तेन संपूजितः श्रीमान्रामचंद्रः प्रतापवान् ३४५।
आरुरोह विमानाग्र्यं वैदेह्या भार्यया सह ।
लक्ष्मणेन च शूरेण भ्रात्रा दशरथात्मजः ३४६।
ऋक्षवानरसंघातैः सुग्रीवेण महात्मना ।
विभीषणेन शूरेण राक्षसैश्च महाबलैः ३४७।
यथाविमाने वैकुंठे नित्यमुक्तैर्महात्मभिः ।
तथा सर्वे समारुह्य ऋक्षवानरराक्षसाः ३४८।
अयोध्यां प्रस्थितो रामः स्तूयमानः सुरोत्तमैः ।
भरद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः ३४९।
भरतस्यांतिके तत्र हनूमंतं व्यसर्जयत् ।
स निषादालयं गत्वा गुहं दृष्ट्वाऽथ वैष्णवम् ३५०।
राघवागमनं तस्मै प्राह वानरपुंगवः ।
नंदिग्रामं ततो गत्वा दृष्ट्वा तं राघवानुजम् ३५१।
न्यवेदयत्तथा तस्मै रामस्यागमनोत्सवम् ।
भरतश्चागतं श्रुत्वा वानरेण रघूत्तमम् ३५२।
प्रर्हर्षमतुलं लेभे सानुजः ससुहृज्जनः ।
पुनरागत्य काकुत्स्थं हनूमान्मारुतात्मजः ३५३।
सर्वं शशंस रामाय भरतस्य च वर्तितम् ।
राघवस्तु विमानाग्र्यादवरुह्य सहानुजः ३५४।
ववंदे भार्यया सार्द्धं भारद्वाजं तपोनिधिम् ।
स तु संपूजयामास काकुत्स्थं सानुजं मुनिः ३५५।
पक्वान्नैः फलमूलाद्यैर्वस्त्रैराभरणैरपि ।
तेन संपूजितस्तत्र प्रणम्य मुनिसत्तमम् ३५६।
अनुज्ञातः समारुह्य पुष्पकं सानुगस्तदा ।
नंदिग्रामं ययौ रामः पुष्पकेण सुहृद्वृतः ३५७।
मंत्रिभिः पौरमुख्यैश्च सानुजः केकयीसुतः ।
प्रत्युद्ययौ नृपवरैः सबलैः पूर्वजं मुदा ३५८।
संप्राप्य रघुशार्दूलं ववंदे सानुगैर्वृतः ।
पुष्पकादवरुह्याथ राघवः शत्रुतापनः ३५९।
भरतं चैव शत्रुघ्नमुपसंपरिषस्वजे ।
पुरोहितं वसिष्ठं च मातृवृद्धांश्च बांधवान् ३६०।
प्रणनाम महातेजाः सीतया लक्ष्मणेन च ।
विभीषणं च सुग्रीवं जाम्बवंतं तथांगदम् ३६१।
हनुमंतं सुषेणं च भरतः परिषस्वजे ।
भ्रातृभिः सानुगैस्तत्र मंगलस्नानपूर्वकम् ३६२।
दिव्यमाल्यांबरधरो दिव्यगंधानुलेपनः ।
आरुरोह रथं दिव्यं सुमंत्राधिष्ठितं शुभम् ३६३।
संस्तूयमानस्त्रिदशैर्वैदेह्या लक्ष्मणेन च ।
भरतश्चैव सुग्रीवः शत्रुघ्नश्च विभीषणः ३६४।
अङ्गदश्च सुषेणश्च जाम्बवान्मारुतात्मजः ।
नीलो नलश्च सुभगः शरभो गंधमादनः ३६५।
अन्ये च कपयः शूरा निषादाधिपतिर्गुहः ।
राक्षसाश्च महावीर्याः पार्थिवेंद्रा महाबलाः ३६६।
गजानश्वानथो सम्यगारुह्य बहुशः शुभान् ।
नानामंगलवादित्रैः स्तुतिभिः पुष्कलैस्तथा ३६७।
ऋक्षवानररक्षोभिर्निषादवरसैनिकैः ।
प्रविवेश महातेजाः साकेतं पुरमव्ययम् २६८।
आलोक्य राजनगरीं पथि राजपुत्रो राजानमेव पितरं परिचिंतयानः ।
सुग्रीवमारुतिविभीषणपुण्यपादसंचारपूतभवनं प्रविवेश रामः ३६९।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे रामस्यायोध्याप्रवेशोनाम द्विचत्वारिंशदधिकद्विशततमोऽध्यायः २४२ ।