पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २४६

विकिस्रोतः तः
← अध्यायः २४५ पद्मपुराणम्
अध्यायः २४६
वेदव्यासः
अध्यायः २४७ →

श्रीमहेश्वर उवाच-
अथोपनयनं नाम चकारानकदुंदुभिः ।
पुत्रयोर्वेदविधिना तस्मिन्वै रामकृष्णयोः १।
आचार्येण हि गर्गेण संस्कृतौ रामकेशवौ ।
पंडितैर्वैष्णवैर्दिव्यैः स्नापनैर्विमलैः शुभैः २।
कृतसंस्कारकर्माणौ रामकृष्णौ महाबलौ ।
सांदीपनेर्गृहं गत्वा नमस्कृत्य महात्मनः ३।
अधीत्य वेदशास्त्राणि तस्मात्तौ द्विजपुंगवात् ।
मृतं पुत्रं समानीय ददतुस्तस्य दक्षिणाम् ४।
आशिषो वचनं लब्ध्वा गुरोस्तस्मान्महात्मनः ।
तस्मै प्रणम्य मथुरां जग्मतुर्यदुपुंगवौ ५।
अथ कृष्णेन निहतं श्रुत्वा कंसं दुरासदम् ।
श्वशुरस्तस्य नृपतेर्जरासंधो महाबलः ६।
अक्षौहिणीसहस्रैस्तु सेनानीकैर्महाबलैः ।
कृष्णं हंतुं समागत्य रुरोध मथुरां पुरीम् ७।
रामकृष्णौ महावीर्यौ विनिर्गत्य पुरोत्तमात् ।
गजवाजिसमाकीर्णं तद्बलौघमपश्यताम् ८।
सस्मार वासुदेवस्तु पूर्वं रूपं सनातनम् ।
तस्य स्मरणमात्रेण दारुको विष्णुसारथिः ९।
सुग्रीवपुष्पकं नाम समानीय महारथम् ।
वाजिभिर्दिव्यपुष्पाद्यैरुह्यमानं सनातनम् १०।
दिव्यायुधैरुपेतं तं शंखचक्रगदादिभिः ।
वैनतेयपताकेन शोभितं देवदुर्जयम् ११।
अवनीं प्राप्य गोविंदं प्रणम्य हरिसारथिः ।
प्रददौ स्यंदनं शुभ्रं सायुधाश्वसमन्वितम् १२।
दृष्ट्वा हर्षेण कृष्णोऽपि परिणीय महारथम् ।
आरुरोहाग्रजेनैव स्तूयमानो मरुद्गणैः १३।
चतुर्भुजं वपुर्भूत्वा शंखचक्रगदासिभृत् ।
किरीटी कुंडली स्रग्वी संग्रामाभिमुखं ययौ १४।
बलदेवोऽपि मुशलं लांगलं गृह्य वीर्यवान् ।
तत्सैन्यं हंतुमारेभे महेश्वर इवापरः १५।
दारुकश्च रथं शीघ्रं नोदयामास तद्रणे ।
तृणगुल्मलताक्रांते काननेऽग्निमिवानिलः १६।
ततो गदाभिः परिघैः शक्तिभिर्मुद्गरैस्तथा ।
तद्रथं छादयामासुर्जरासंधस्य सैनिकाः १७।
चक्रेणैव हरिस्तूर्णं तानि चिच्छेद लीलया ।
बहूनि तृणकाष्ठानि महावह्निरिवार्चिषा १८।
ततः शार्ङ्गं समादाय सायकैरक्षयैः शितैः ।
चिच्छेद तानि सैन्यानि न प्राज्ञायत किंचन १९।
चक्रच्छिन्नास्यकमलाः केचित्तत्र महाबलाः ।
गदया चूर्णिताः केचित्केचिदन्यैर्महारणे २०।
केचिच्चैवासिनाछिन्नास्तथान्ये शरताडिताः ।
लांगलाग्रहतग्रीवा मुशलाहतमस्तकाः २१।
क्षणेन तद्बलं सर्वं निहत्य मधुसूदनः ।
शंखं दध्मौ यदुश्रेष्ठो लयाशनि निभस्वनम् २२।
शंखरावविनिर्भिन्नहृदयास्ते महाबलाः ।
योधाः साश्वाः सनागाश्च पतितास्त्यक्तजीविताः २३।
अक्षौहिणीसहस्रं तु साश्वं सरथकुंजरम् ।
कृष्णेनैकेन निहतं निःशेषं तदभूद्बलम् २४।
निहतं वासुदेवेन प्रहरार्द्धेन शार्ङ्गिणा ।
ततो देवगणाः सर्वे हर्षनिर्भरचेतसः २५।
ववृषुः पुष्पवर्षाणि साधुसाध्विति चाब्रुवन् ।
सर्वमप्यवनीभारं विमुच्य धरणीधरः २६।
संस्तूयमानस्त्रिदशैर्बभौ संग्राममूर्द्धनि ।
निहतं स्वबलं दृष्ट्वा जरासंधोऽतिवीर्यवान् २७।
योद्धुमभ्याययौ तूर्णं बलदेवेन दुर्मतिः ।
तयोर्युद्धमभूद्धोरं संग्रामेष्वनिवर्तिनोः २८।
रामो लांगलमादाय रथं तस्य ससारथिम् ।
विनिपात्य रणे शूरो गृहीत्वा तं महाबलम् २९।
उद्यम्य मुशलं तूर्णं तं हंतुमुपचक्रमे ।
प्राणसंशयमापन्नं जरासंधं नृपोत्तमम् ३०।
कृतं रामेण बलिना सिंहेनेव महागजम् ।
दृष्ट्वा कृष्णोग्रजं प्राह न हंतव्य इति प्रभुः ३१।
मोचयामास धर्मात्मा जरासंधं महामतिः ।
विमुच्य कृष्णवाक्येन शत्रुं संकर्षणोऽव्ययः ३२।
सानुजो रथमारुह्य मथुरां प्रविवेश ह ।
स कालयवनं प्राप्य महावीर्यं बलान्वितम् ३३।
पुत्रयोर्वसुदेवस्य समाचष्ट पराक्रमम् ।
दानवानां वधं चैव कंसस्य निधनं तथा ३४।
अक्षौहिणीनां च वधं तथा स्वस्य पराजयम् ।
सर्वं निवेदयामास कृष्णस्य चरितं महत् ३५।
तच्छ्रुत्वा यवनः क्रुद्धो महाबलपराक्रमैः ।
म्लेच्छकोटिसहस्रैस्तु संवृतो मदसंयुतैः ३६।
मगधाधिपतेस्तस्य सहायार्थं महाबलः ।
तेनैव सहितस्तूर्णं जगाम मथुरां पुरीम् ३७।
बलैराच्छाद्य पृथिवीं नानाजनपदान्विताम् ।
संनिवेश्य महासैन्यं रुरोध मथुरां पुरीम् ३८।
कृष्णोऽपि चिंतयित्वाऽथ पौराणां कुशलं तदा ।
ययाचे सागरं भूमिं निवासार्थं जनस्य च ३९।
त्रिंशद्योजनविस्तीर्णां ददौ कृष्णस्य सागरः ।
असृजत्पयसां मध्ये तत्र द्वारवतीं पुरीम् ४०।
बहुप्रासादसंयुक्तां हेमप्राकारतोरणाम् ।
नानामणिमयैर्दिव्यैर्गृहपंक्तिभिरावृताम् ४१।
उद्यानैश्च तथा रम्यैस्तडागैर्बहुभिर्युताम् ।
असृजत्पुंडरीकाक्षो यथेंद्रस्यामरावतीम् ४२।
सुषुप्तान्मथुरायां तु पौरांस्तत्र जनार्दनः ।
उद्धृत्य सहसा रात्रौ द्वारावत्यां निवेशयत् ४३।
प्रबुद्धास्ते जनाः सर्वे पुत्रदारसमन्विताः ।
हेमहर्म्यतलेविष्टा विस्मयं परमं ययुः ४४।
बहुभिर्धनधान्यैश्च दिव्यवस्त्रविभूषणैः ।
परिपूर्णैरिवाभोगैर्गृहमुख्यैः समावृताः ४५।
तस्मिन्प्रहृष्टाः संतस्थुर्दिवि देवगणा इव ।
यवनेन तदा योद्धुं रामकृष्णौ महाबलौ ४६।
विनिर्ययतुरात्मेशौ मथुराया बहिस्तदा ।
रामो लांगलमादाय मुशलं च महारथः ४७।
जघान समरे क्रुद्धो यवनानां महद्बलम् ।
कृष्णस्तु शार्ङ्गमासज्य बाणैरग्निशिखोपमैः ४८।
निर्ददाह बलं सर्वं म्लेच्छानां देवकीसुतः ।
निहतं स्वबलं दृष्ट्वा स कालयवनो बली ४९।
युयुधे वासुदेवेन गदया यवनेश्वरः ।
कृष्णोऽपि कदनं तेन कृत्वा चिरमनामयः ५० 6.246.50।
विमुखः प्राद्रवत्तस्मात्संग्रामात्कमलेक्षणः ।
सोनुयातोऽतिवेगेन तिष्ठतिष्ठेति चाब्रुवन् ५१।
वेगात्कृष्णो गिरिगुहां प्रविवेश महामतिः ।
तत्र प्रसुप्तो राजाऽसौ मुचुकुंदो महामुनिः ५२।
अदृश्यस्तस्य नृपतेः संस्थितो भगवान्हरिः ।
यवनोऽपि महावीरो गदामुद्यम्य पाणिना ५३।
कृष्णं हंतु समारब्धो गुहां तां प्रविवेश ह ।
दृष्ट्वा शयानं राजानं मत्वा कृष्णं जनार्दनम् ५४।
पादेन ताडयामास मुचुकुंदं महामुनिम् ।
ततः प्रबुद्धो भगवान्मुचुकुंदो महामुनिः ५५।
क्रोधात्संरक्तनयनो हुंकारं कृतवानसौ ।
तस्य हुंकारशब्देन तथा क्रोधनिरीक्षणात् ५६।
निर्दग्धो भस्मतां प्राप यवनस्त्यक्तजीवितः ।
ततस्तु कृष्णो ददृशे राजर्षेः पुरतः प्रभुः ५७।
नीलोत्पलदलश्यामः पुंडरीकनिभेक्षणः ।
शंखचक्रगदापाणिः पीतवासा जनार्दनः ५८।
दृष्ट्वा तं सहसोत्थाय राजर्षिरमितौजसम् ।
अहोभाग्यमहोभाग्यमित्युवाच महामुनिः ५९।
पुलकांकितसर्वांगः सानंदाश्रुजलाकुलः ।
स्तुवन्वै जयशब्देन प्रणनाम मुहुर्मुहुः ६०।
मुचुकुंद उवाच-
धन्योस्मि कृतकृत्योस्मि दर्शनात्परमेश्वर ।
अद्य मे सफलं जन्म जीवितं सफलं मम ६१।
नमस्ते वासुदेवाय जगन्नाथाय शार्ङ्गिणे ।
दामोदराय देवाय तेजसां निधये नमः ६२।
अधोक्षजाय हरये नृसिंहवपुषे नमः ।
राघवाय नमस्तुभ्यं पुंडरीकेक्षणाय च ६३।
अच्युतायाविकाराय तथानंताय ते नमः ।
गोविंदाय नमस्तुभ्यं विष्णवे जिष्णवे नमः ६४।
नारायणाय श्रीशाय कृष्णाय परमात्मने ।
मुकुंदाय नमस्तुभ्यं चतुर्व्यूहाय ते नमः ६५।
नमः परमकल्याण नमस्ते परमात्मने ।
वासुदेवाय शांताय यदूनां पतये नमः ६६।
महेश्वर उवाच-
एवं स्तुत्वा तु गोविंदं प्रणनाम पुनः पुनः ।
संतुष्टो भगवान्प्राह मुचुकुंदं महामुनिम् ६७।
श्रीभगवानुवाच-
वरं वृणीष्व राजर्षे यत्ते मनसि वर्त्तते ।
महेश्वर उवाच-
सोऽपि मुक्तिं ययाचाथ पुनरावृत्तिवर्जिताम् ६८।
तस्मै ददौ तदा कृष्णो दिव्यं लोकं सनातनम् ।
राजा तु मानुषं रूपं विहायाथ महामतिः ६९।
समानं रूपमास्थाय देवस्य परमात्मनः ।
वैनतेयं समारुह्य शाश्वतं पदमाविशत् ७०।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमाहेश्वरसंवादे श्रीकृष्णचरिते मुचुकुंदमोक्षोनाम षट्चत्वारिंशदधिकद्विशततमोऽध्यायः २४६।