पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २४७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः २४६ पद्मपुराणम्
अध्यायः २४७
वेदव्यासः
अध्यायः २४८ →

रुद्र उवाच-
हत्वाथ यवनं तत्र मुचुकुंदेन धीमता ।
दत्त्वा तस्मै वरं मुक्तिं निष्क्रांतो यदुनंदनः १।
हतं च यवनं श्रुत्वा जरासंधः सुदुर्मतिः ।
ययुधे रामकृष्णाभ्यां स्वबलेन समावृतः २।
कृष्णेन निहतं सैन्यं सर्वं तस्य दुरात्मनः ।
स पपात महीपृष्ठे मूर्च्छितो मगधाधिपः ३।
चिरेण लब्ध्वा संज्ञां तु विह्वलांगो भयातुरः ।
न शशाक रणे योद्धुं रामेण मगधेश्वरः ४।
विमुखः प्राद्रवत्तूर्णं हतशेषबलानुगः ।
अजेयाविति तौ मत्वा रामकृष्णौ महाबलौ ५।
तयोर्विरोधं त्यक्त्वाथ नगरीं स्वां विवेश ह ।
अथ तौ वसुदेवस्य तनयौ सह सेनया ६।
मथुरां त्यज्य नगरीं प्रविष्टौ द्वारिकां पुरीम् ।
इंद्रेण प्रेषितो वायुः सभां तत्र दिवौकसाम् ७।
कृष्णाय प्रददौ प्रीत्या निर्मितां विश्वकर्मणा ।
वज्रवैडूर्यरचितां बह्वासनविचित्रिताम् ८।
नानारत्नमयैर्दिव्यैः स्वर्णच्छत्रैर्विराजिताम् ।
तां प्राप्य रम्यां तु सभामुग्रसेनादयो नृपाः ९।
मोदंते नैगमैः सार्द्धं दिवि देवगणा इव ।
इक्ष्वाकुवंशसंभूतो रैवतो नाम पार्थिवः १०।
कन्यां दुहितरं स्वस्य सर्वलक्षणसंयुताम् ।
रामाय प्रददौ प्रीत्या रेवती नाम नामतः ११।
उपयेमे विधानेन स रामस्तां च रेवतीम् ।
रमयामास च तया शच्या इव सुरेश्वरः १२।
विदर्भराजो धर्मात्मा भीष्मको नाम धार्मिकः ।
बभूवुस्तस्य पुत्रास्तु रुक्मप्रभृतयः शुभाः १३।
तेषामवरजा कन्या रुक्मिणी वरवर्णिनी ।
कमलांशेन संभूता सर्वलक्षणसंयुता १४।
राघवत्वेभवत्सीता रुक्मिणी कृष्णजन्मनि ।
अन्येष्वेवावतारेषु विष्णोरेषा सहायिनी १५।
हिरण्यक हिरण्याक्षौ संभूतौ द्वापरे पुनः ।
शिशुपालो दंतवक्त्र इति नाम समन्वितौ १६।
चैद्यान्वये समुद्भूतौ महाबलपराक्रमौ ।
रुक्मिणी शिशुपालाय दातुमैच्छत्तदात्मजः १७।
तं नेच्छती पतिं सा तु शिशुपालं शुभानना ।
बाल्यात्प्रभृति वै विष्णुमनुरक्ता दृढव्रता १८।
उद्दिश्य कृष्णं भर्त्तारं सुराणामर्चनं सदा ।
चकार रुक्मिणी कन्या दानानि विविधानि च १९।
व्रतचर्यापराभूत्वा ध्यायंती पुरुषोत्तमम् ।
आत्मेशं स्वस्य भर्तारमुवास पितृमंदिरे २०।
कर्त्तुं तां शिशुपालाय विवाहं पार्थिवोत्तमः ।
चकार यत्नं पुत्रेण रुक्मिणा सविधीमता २१।
पुरोहितसुतं विप्रं प्रेषयामास रुक्मिणी ।
उद्दिश्य कृष्णं भर्त्तारं स तूर्णं द्वारकां ययौ २२।
समेत्य कृष्णं रामं च ताभ्यां विधिवदर्चितः ।
एकांते सर्वमाचष्ट रुक्मिणीभाषितं तयोः २३।
तच्छ्रुत्वा रामकृष्णौ तु तेन विप्रेण धीमता ।
सर्वशस्त्रास्त्रसंपूर्णं रथमाकाशगं प्रभुः २४।
आरुह्य सूतमुख्येन दारुकेण महात्मना ।
विदर्भनगरीं तूर्णं जग्मतुः पुरुषोत्तमौ २५।
राजानः सर्वराष्ट्रेभ्यो विवाहं द्रष्टुमागताः ।
जरासंधमुखाः सर्वे शिशुपालस्य धीमतः २६।
तस्मिन्नुद्वाहसमये रुक्मिणी रुक्मभूषणा ।
दुर्गां निःसृतार्चयितुं सखीभिर्नगराद्बहिः २७।
एतस्मिन्नेव काले तु संप्राप्तो देवकीसुतः ।
रथस्थां तां च जग्राह बलवान्मधुसूदनः २८।
सहसा रथमारोप्य ययौ तूर्णं स्वमालयम् ।
ततः क्रोधसमाविष्टा जरासंधमुखा नृपाः २९।
रुक्मिणा राजपुत्रेण युद्धाय समुपस्थिताः ।
अनुयाता हरिं क्रुद्धाश्चतुरंगबलान्विताः ३०।
बलभद्रो महाबाहुरवरुह्य रथोत्तमात् ।
लांगलं मुशलं गृह्य निजघान क्षणादरीन् ३१।
रथानश्वान्महानागांस्तथा पादचरानपि ।
लांगलमुशलाम्यां वै निजघान बलाद्रणे ३२।
तस्य लांगलपातेन चूर्णिता रथपंक्तयः ।
नागाश्च पतिता भूमौ वज्रेणेव महीधराः ३३।
निर्भिन्नमस्तकाः सर्वे वमंतो रुधिरं बहु ।
क्षणेनैव हतं सैन्यं बलरामेण वै तदा ३४।
साश्वं सनागं सरथं सपदातिं महारणे ।
समंतात्समरे तत्र सुस्रुवुः शोणितापगाः ३५।
प्रभग्नाः पार्थिवाः सर्वे दुद्रुवुर्भयपीडिताः ।
कृष्णेन कदनं चक्रे रुक्मी क्रोधवशाद्बली ३६।
धनुरुद्यम्य बाणौघैस्ताडयामास शार्ङ्गिणम् ।
ततः प्रहस्य गोविंदः शार्ङ्गमादाय लीलया ३७।
जघानैकेनबाणेन रथाश्वांस्तस्य सारथिम् ।
रथंध्वजं पताकां च चिच्छेद धरणीधरः ३८।
विरथः खङ्गमादाय धरण्यां स उपस्थितः ।
कृष्णस्तु खङ्गं चिच्छेद बाणेनैकेन वीर्यवान् ३९।
ततः स मुष्टिमुद्यम्य कृष्णं वक्षस्यताडयत् ।
तं जग्राह रणे वीरं निबध्य निबिडं हरिः ४०।
तीक्ष्णं क्षुरप्रमादाय प्रहसन्मधुसूदनः ।
शिरसो मुंडनं कृत्वा मुमोच च जनार्दनः ४१।
स तु शोकसमाविष्टो निःश्वसन्नुरगो यथा ।
आविवेश पुरं स्वीयं स तु तत्रैव चावसत् ४२।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे श्रीकृष्णचरिते विदर्भसेनाविध्वंसनंनाम सप्तचत्वारिंशदधिकद्विशततमोऽध्यायः २४७।