पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०६९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ०६८ पद्मपुराणम्
अध्यायः ०६९
वेदव्यासः
अध्यायः ०७० →

नारद उवाच-
उपवासासमर्थानां सदैवामरसत्तम ।
एका या द्वादशी पुण्या तां वदस्व ममानघ १।
शिव उवाच-
मासि भाद्रपदे शुक्ले द्वादशी श्रवणान्विता ।
सा वै सर्वप्रदा पुण्या ह्युपवासे महाफला २।
संगमे सरितः स्नात्वा द्वादशीं तामुपोषितः ।
अयत्नात्समवाप्नोति द्वादश द्वादशीफलम् ३।
बुधश्रवणसंयुक्ता या च वै द्वादशी भवेत् ।
अतीव महती तस्यां कृतं सर्वमथाक्षयम् ४।
द्वादशी श्रवणोपेता यदा भवति नारद ।
संगमे सरितां स्नात्वा लभेद्गोदानजं फलम् ५।
जलपूर्णं तदा कुंभं स्थापयित्वा विचक्षणः ।
तस्योपरि न्यसेत्पात्रं स्थापयित्वा जनार्दनम् ६।
ततस्तस्याग्रतो देयं नैवेद्यं घृतपाचितम् ।
सोदकांश्च नवान्कुंभान्दद्याच्छक्त्या विचक्षणः ७।
एवं संपूज्य गोविंदं जागरं तत्र कारयेत् ।
प्रभाते विमले स्नात्वा संपूज्य गरुडध्वजम् ८।
पुष्पधूपादि नैवेद्यैः फलैर्वस्त्रैः सुशोभनैः ।
पुष्पांजलिं ततो दद्यान्मंत्रमेनमुदीरयेत् ९।
नमो नमस्ते गोविंद बुधश्रवणसंयुत ।
अघौघसंक्षयं कृत्वा सर्वसौख्यप्रदो भव १०।
अन्नं तु ब्राह्मणे पूतं वेदवेदांगपारगे ।
पुराणज्ञे विशेषेण विधिवत्संप्रदापयेत् ११।
अनेन विधिना चैव नद्यास्तीरे नरोत्तमः ।
सर्वं निर्वर्त्तयेत्सम्यगेकचित्तरतोऽपि सन् १२।
अत्राप्युदाहरंतीममितिहासं पुरातनम् ।
महत्यरण्ये यद्वृतं भूमिदेव शृणुष्व तत् १३।
यं श्रुत्वा मानवो लोके महादुःखात्प्रमुच्यते ।
देशो दासरको नाम तस्य भागे च पश्चिमे १४।
तत्र विद्वन्मरुर्देशः सर्वसत्वभयंकरः ।
सुतप्तसिकता भूमिर्यत्र दुष्टा महोरगाः १५।
अल्पच्छायाद्रुमाकीर्णा मृतप्राणिसमाकुला ।
शमीखदिरपालाशकरीरैः पीलुभिः सह १६।
तत्र भीमा द्रुमगणाः कंटकैरचिता दृढैः ।
जग्धप्राणजनाकीर्णा यत्र भूर्दृश्यते क्वचित् १७।
तथापि जीवा जीवंति सर्वे कर्मनिबंधनात् ।
नोदकं नोदकाधारा विद्वंस्तत्र बलाहकाः १८।
पक्षांतरगतैः कैश्चिच्छिशुभिस्तृषितैः समम् ।
उत्क्रांतजीविनो विप्र दृश्यंते नु खगोत्तमाः १९।
तस्मिंस्तथाविधे देशे कश्चिद्दैववशाद्वणिक् ।
निजसार्थपरिभ्रष्टः प्रविष्टो मरुजांगले २०।
बभ्रामोद्भ्रांतहृदयः क्षुत्तृट्भ्यां श्रमपीडितः ।
क्व ग्रामः क्व जलं क्वाहं यास्यामि न बुबोध ह २१।
अथ प्रेतान्ददर्शासौ क्षुत्तृषाव्याकुलेंद्रियान् ।
उत्कटान्खलिनो भीमान्निर्मांसान्रौद्रदर्शनान् २२।
प्रेतस्कंधसमारूढमेकं विकृतदर्शनम् ।
ददर्श बहुभिः प्रेतैः समंतात्परिवारितम् २३।
अगच्छमानमत्युग्रं प्रेतशब्दपुरःसरम् ।
प्रेतोऽपि दृष्ट्वा तां घोरामटवीमागतं नरम् २४।
प्रेतस्कंधान्महीं गत्वा तस्यांतिकमुपागमत् ।
प्रणिपत्य वणिक्श्रेष्ठमिदं वचनमब्रवीत् २५।
अस्मिन्घोरतरे देशे प्रवेशो भवतः कथम् ।
तमुवाच वणिक्धीमान्सार्थभ्रष्टस्य मे वने २६।
प्रवेशो दैवयोगेन पूर्वकर्मकृतेन च ।
तृषा मे बाधतेऽत्यर्थं क्षुधा चैव भृशं तथा २७।
प्राणांतिकमनुप्राप्तं वचनं भ्रमतीव मे ।
अत्रोपायं न पश्यामि जीवेयं येन केनचित् २८।
इत्येवमुक्ते प्रेतस्तं वणिजं वाक्यमब्रवीत् ।
फुल्लां शमीं समाश्रित्य प्रतीक्ष त्वं मुहूर्त्तकम् २९।
कृतातिथ्यो मया पश्चाद्गमिष्यसि यथासुखम् ।
एवमुक्तस्तथा चक्रे स वणिक्तृष्णयार्दितः ३०।
मध्याह्नसमये प्राप्ते प्रेतस्तं देशमागतः ।
फुल्लां सवृक्षां शीतोदां वारिधानीं मनोरमाम् ३१।
दध्योदनसमायुक्तां वर्द्धमानेन संयुताम् ।
अवतीर्य ततः स्वन्नं प्रादादतिथये तदा ३२।
स तत्राशनमात्रेण परं तृप्तित्वमागतः ।
वितृष्णो विज्वरश्चैव क्षणेन समपद्यत ३३।
ततश्च प्रेताः संप्राप्ताः सोऽस्माद्भागं क्रमाद्ददौ ।
दध्योदनात्सपानीयात्प्रेतास्तृप्तिं परां गताः ३४।
अतिथिं तर्पयित्वा तु प्रेतलोकं च सर्वतः ।
ततः स्वयं स बुभुजे भुक्तशेषं यथासुखम् ३५।
तस्य भुक्तवतः स्वन्नं पानीयं च क्षयं ययौ ।
प्रेताधिपं ततस्तं वै वणिग्वचनमब्रवीत् ३६।
आश्चर्यमेतत्परमं वनेऽस्मिन्प्रतिभाति मे ।
अन्नं पानं च परमं संप्राप्तं च कुतस्तव ३७।
स्वल्पेनैव तथान्नेन त्वमेतांस्तु बहूनपि ।
अतर्पयः कथं त्वेते निर्मांसा भिन्नकुक्षयः ३८।
कथमस्यां सुघोरायामटव्यां च कृतालयाः ।
तदेतत्संशयं छिंधि परं कौतूहलं मम ३९।
एवमुक्तः स वणिजा प्रेतो वचनमब्रवीत् ।
वाणिज्यसक्तस्य पुरा जन्मातीते ममानघ ४०।
सकले नगरे नास्ति ममान्यो हि दुरात्मकः ।
धनलोभान्न कस्यापि दत्ता भिक्षा मया तदा ४१।
सखा चैव ततश्चासीद्ब्राह्मणो गुणवान्मम ।
श्रावणद्वादशीयोगे मासि भाद्रपदे ततः ४२।
स कदाचिन्मया सार्द्धं तापीं नाम नदीं ययौ ।
तस्याश्च संगमः पुण्यो यत्रासीच्चंद्रभागया ४३।
चंद्रभागा चंद्रसुता तापी चैवार्कनंदिनी ।
तयोः शीतोष्णसलिले प्रविवेश स ह द्विजः ४४।
श्रवणद्वादशीयोगे नराश्च समुपोषिताः ।
चंद्रभागा सुतो येन वारिधानीं ददुर्द्विजे ४५।
दध्योदनयुतां सार्द्धं संपूर्णैर्वर्द्धमानकैः ।
छत्रोपानद्युगं वस्त्रं प्रतिमां च तथा हरेः ४६।
प्रददौ विप्रमुख्येभ्यो हरस्याग्रे महामते ।
वित्तसंरक्षणार्थाय तस्यास्तीरे व्रते मया ४७।
सोपवासेन दत्तैका वारिधानी मनोरमा ।
तत्कृत्वाहं गृहं प्राप्तः ततः कालेन केनचित् ४८।
पंचत्त्वमहमासाद्य नास्तिक्यात्प्रेततां गतः ।
अस्यामटव्यां घोरायां यथा ह्यहिकुलं तथा ४९।
श्रवणद्वादशीयोगे वारिधान्यर्पिता मया ।
सेयं मध्याह्नसमये लभ्यते च दिनेदिने 6.69.५०।
ब्रह्मस्वरूपिणः सर्वे पापाः प्रेतत्वमागताः ।
परदारगताः केचित्स्वामिद्रोहरताश्च ये ५१।
भूतप्रेतजरूपेण ते जाता ह्यत्र मानवाः ।
देशे मरुस्थले त्वस्मिन्ममैते मित्रतां गताः ५२।
अक्षयो भगवान्विष्णुः परमात्मा सनातनः ।
दीयते यत्समुद्दिश्य ह्यक्षयं तत्प्रकीर्तनम् ५३।
अक्षयेनापि चान्नेन तृप्ता एते पुनः पुनः ।
प्रेतत्वभावं दौर्बल्यं न विमुंचति कर्हिचित् ५४।
पूजयित्वाहमन्नैस्त्वामतिथिं समुपस्थितम् ।
प्रेतभावाद्विनिर्मुक्तो यास्यामि परमां गतिम् ५५।
मया विहीनाः किंत्वेते वनेऽस्मिन्भृशदारुणे ।
पीडामनुभविष्यंति दारुणां कर्मयोनिजाम् ५६।
एतेषां तु महाभाग ममानुग्रहकाम्यया ।
प्रत्येकं नामगोत्राणि गृह्णीष्व लिखितानि च ५७।
अस्ति कक्षागता चैव तव संपुटिका शुभा ।
हिमवंतमथासाद्य तत्र त्वं लप्स्यसे निधिम् ५८।
गयाशीर्षं ततो गत्वा श्राद्धं कुरु महामते ।
इत्याज्ञाप्य स वै प्रेतो वणिजं च यथासुखम् ५९।
विसर्जयामास तदा स वै प्रायात्समुत्सुकः ।
समासाद्य गृहं तत्र पश्चात्प्रायाद्धिमालयम् ६०।
ततो दृष्टं निधिं तत्र गृहीत्वा स समागतः ।
षष्ठांशं प्रतिगृह्याथ गयाशीर्षं ततोऽभ्यगात् ६१।
तत्र गत्वा गयायां स श्राद्धं कृत्वा महामतिः ।
प्रेतानां तु यथोद्दिष्टं श्राद्धं सम्यग्विधानतः ६२।
प्रत्येकं नामगोत्राणि गृहीत्वा पिंडमुत्सृजत् ।
यस्य यस्य भवेच्छ्राद्धं स करोति दिने वणिक् ६३।
स स तस्य तदा स्वप्ने दर्शयत्यात्मनस्तनुम् ।
ब्रवीति च महाभाग प्रसादाद्भवतोऽनघ ६४।
प्रेतभावं मया त्यक्तं प्राप्तोऽस्मि परमां गतिम् ।
एवं कृत्वा विधानेन गयाशीर्षं महामनाः ६५।
पश्चाज्जगाम स्वगृहं विष्णुं ध्यायन्पुनः पुनः ।
मासि भाद्रपदे प्राप्ते शुक्लपक्षे तथा सुधीः ६६।
श्रवणद्वादशीयोगे संगमे सरितां पुनः ।
जगाम स महाबुद्धिः सर्वोपस्करसंयुतः ६७।
संगमे सरितां स्नात्वा द्वादशीं तामुपोषितः ।
तत्र स्नात्वापि दत्त्वा तु पूजयित्वा जनार्दनम् ६८।
अनंतरं ब्राह्मणस्य ह्युपहारांस्तदा ददौ ।
शास्त्रोक्तेनापि विधिना ह्येकचित्तरतोऽपि सः ६९।
निवर्त्तयामास तदा वणिजो बुद्धिमान्स वै ।
वर्षेवर्षे तु संप्राप्ते मासि भाद्रपदे तथा ७०।
श्रवणद्वादशीयोगे संगमे सरितां पुनः ।
एवं वै कृतवान्सर्वं विष्णुमुद्दिश्य सत्वरम् ७१।
कालेन चातिमहता पंचत्वं समुपागतः ।
अवाप परमं स्थानं दुर्लभं सर्वमानवैः ७२।
क्रीडतेऽद्यापि वैकुंठे विष्णुदूतैः स सेवितः ।
एवं कुरु त्वं भो ब्रह्मन्श्रवणद्वादशीव्रतम् ७३।
सर्वसौभाग्यदं चैव इह लोके परत्र च ।
सुबुद्धिजननं चैव सर्वपापहरं परम् ७४।
श्रवणद्वादशीयोगे यः कुर्याद्व्रतमीदृशम् ।
व्रतस्यास्य प्रभावेन विष्णुलोकं च गच्छति ७५।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे श्रवणद्वादशीव्रतनामैकोनसप्ततितमोऽध्यायः ६९।