सामग्री पर जाएँ

पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०५२

विकिस्रोतः तः
← अध्यायः ०५१ पद्मपुराणम्
अध्यायः ०५२
वेदव्यासः
अध्यायः ०५३ →

युधिष्ठिरउवाच-
आषाढकृष्णपक्षे तु किं वै एकादशी भवेत् ।
कथयस्व प्रसादेन वासुदेव ममाग्रतः १।
श्रीकृष्ण उवाच-
व्रतानामुत्तमं राजन्कथयामि तवाग्रतः ।
सर्वपापक्षयकरं सर्वमुक्तिप्रदायकम् २।
आषाढस्यासिते पक्षे योगिनी नाम नामतः ।
एकादशी नृपश्रेष्ठ महापातकनाशिनी ३।
संसारार्णवमग्नानां पोतभूता सनातनी ।
जगत्त्रये सारभूता योगिनी व्रतकारिणाम् ४।
कथयामि तवाग्रेऽहं कथां पौराणिकीं शुभाम् ।
अलकायां राजराजः शिवभक्तिपरायणः ५।
तस्यासीत्पुष्पबटुको हेममालीति नामतः ।
तस्य पत्नी सुरूपा च विशालाक्षीति नामतः ६।
स तस्यां चासक्तमना कामपाशवशं गतः ।
मानसात्पुष्पनिचयमानीय स्वगृहे स्थितः ७।
पत्नीप्रेमरसासक्तो न कुबेरालयं गतः ।
कुबेरो देवसदने करोति शिवपूजनम् ८।
मध्याह्नसमये राजन्पुष्पागमसमीक्षकः ।
हेममाली स्वभवने रमते कांतया सह ९।
यक्षराट्प्रत्युवाचाथ कालातिक्रमकोपितः ।
कस्मान्नायाति भो यक्षा हेममाली दुरात्मवान् ।
निश्चयः क्रियतामस्य इत्युवाच पुनः पुनः १०।
यक्षा ऊचुः -
वनिताकामुको गेहे रमते स्वेच्छया नृप ।
तेषां वाक्यं समाकर्ण्य कुबेरः कोपपूरितः ११।
आह्वयामास तं तूर्णं बटुकं हेममालिनम् ।
ज्ञात्वा कालात्ययं सोऽपि भयव्याकुललोचनः १२।
अस्नात एव आगत्य कुबेरस्याग्रतः स्थितः ।
तं दृष्ट्वा धनदः क्रुद्धः क्रोधसंरक्तलोचनः १३।
प्रत्युवाच रुषाविष्टः कोपप्रस्फुरिताधरः ।
धनद उवाच-
आः पाप दुष्ट दुर्वृत्त कृतवान्देवहेलनम् १४।
अष्टादशकुष्ठवृतो वियुक्तः कांतया तया ।
अस्मात्स्थानादपध्वस्तो गच्छ स्वप्नमथाधम १५।
इत्युक्ते वचने तस्य तस्मात्स्थानात्पपात सः ।
महादुःखाभिभूतश्च कुष्ठैः पीडितविग्रहः १६।
न सुखं दिवसे तस्य न निद्रां लभते निशि ।
छायायां पीडिततनुर्निदाघेऽत्यंतपीडितः १७।
शिवपूजाप्रभावेन स्मृतिस्तस्य न लुप्यते ।
पातकेनाभिभूतोऽपि पूर्वं कर्म स्मरत्यसौ १८।
भ्रममाणस्ततो गच्छन्हिमाद्रिं पर्वतोत्तमम् ।
तत्रापश्यन्मुनिवरं मार्कंडेयं तपोनिधिम् १९।
यस्यायुर्विद्यते राजन्ब्रह्मणो वयसा समम् ।
ववंदे चरणौ तस्य दूरतः पापकर्मकृत् २०।
मार्कंडेयो मुनिवरो दृष्ट्वा तं कंपितं तथा ।
परोपकरणार्थाय समाहूयेदमब्रवीत् २१।
कस्मात्कुष्ठाभिभूतस्त्वं कुतो निंद्यतरो ह्यसि ।
इत्युक्तः स प्रत्युवाच मार्कंडेयं महामुनिम् २२।
हेममाल्युवाच-
राजराजस्यानुचरो हेममालीति नामतः ।
मानसात्पद्मनिचयमानीय प्रत्यहं मुने २३।
शिवपूजनवेलायां कुबेराय समर्पये ।
एकस्मिन्दिवसे चैव कालश्चाविदितो मया २४।
पत्नीसौख्यप्रसक्तेन शोकव्याकुलचेतसा ।
ततः क्रुद्धेन शप्तोऽस्मि राजराजेन वै मुने २५।
कुष्ठाभिभूतः संजातो वियुक्तः कांतया तया ।
अधुना तव सान्निध्यं प्राप्तोऽस्मि शुभकर्मणा २६।
सतां स्वभावतश्चित्तं परोपकरणे क्षमम् ।
इति ज्ञात्वा मुनिश्रेष्ठ मां प्रशाधि कृतागसम् २७।
मार्कंडेय उवाच-
त्वया सत्यमिह प्रोक्तं नासत्यं भाषितं यतः ।
अतो व्रतोपदेशं ते कथयामि शुभप्रदम् २८।
आषाढे कृष्णपक्षे तु योगिनीव्रतमाचर ।
अस्य व्रतस्य पुण्येन कुष्ठं यास्यति वै ध्रुवम् २९।
इति वाक्यमृषेः श्रुत्वा दंडवत्पतितो भुवि ।
उत्थापितः स मुनिना बभूवातीव हर्षितः ३०।
मार्कंडेयोपदेशेन व्रतं तेन कृतं यथा ।
अष्टादशेव कुष्ठानि गतानि तस्य सर्वशः ३१।
मुनेर्वाचा ततः सम्यग्व्रते चीर्णेऽभवत्सुखी ।
ईदृग्विधं नृपश्रेष्ठ कथितं योगिनीव्रतम् ३२।
अष्टाशीतिसहस्राणि द्विजान्भोजयते तु यः ।
तत्समं फलमाप्नोति योगिनीव्रतकृन्नरः ३३।
महापापप्रशमनं महापुण्यफलप्रदम् ।
पठनाच्छ्रवणान्मर्त्यः सर्वपापैः प्रमुच्यते ३४।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे आषाढकृष्णयोगिन्येकादशीमाहात्म्यंनाम
द्विपंचाशत्तमोऽध्यायः ५२।