पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०५१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ०५० पद्मपुराणम्
अध्यायः ०५१
वेदव्यासः
अध्यायः ०५२ →

युधिष्ठिर उवाच-
अपरायाश्च माहात्म्यं श्रुतं सर्वं जनार्दन ।
ज्येष्ठस्य शुक्लपक्षे तु स्याद्या तां वद मानद १।
श्रीकृष्ण उवाच-
एनां वक्ष्यति धर्मात्मा व्यासः सत्यवतीसुतः ।
सर्वशास्त्रार्थतत्त्वज्ञो वेदवेदांगपारगः २।
युधिष्ठिर उवाच-
श्रुता मे मानवा धर्मा वासिष्ठाश्च श्रुता मया ।
द्वैपायन यथावत्त्वं वैष्णवान्वक्तुमर्हसि ३।
श्रीवेदव्यास उवाच -
श्रुतास्तु मानवा धर्मा वैदिकाश्च श्रुतास्त्वया ।
कलौ युगे न शक्यंते ते वै कर्तुं नराधिप ४।
सुखोपायमल्पधनमल्पक्लेशं महाफलम् ।
पुराणानां च सर्वेषां सारभूतं महामते ५।
एकादश्यां न भुंजीत पक्षयोरुभयोरपि ।
द्वादश्यां तु शुचिर्भूत्वा पुष्पैः संपूज्य केशवम् ६।
अन्नं भुंजीत सत्कृत्य पश्चाद्विप्रपुरःसरम् ।
सूतकेऽपि न भोक्तव्यं नाशौचे च जनाधिप ७।
यावज्जीवं व्रतमिदं कर्त्तव्यं पुरुषर्षभ ।
स्वर्गतिं प्राप्तुमिच्छद्भिरत्र नैवास्ति संशयः ८।
आपपापा दुराचाराः पापिष्ठा धर्मवर्जिताः ।
एकादश्यां न भुंजाना न ते यांति यमांतिकम् ९।
इति तद्वचनं श्रुत्वा कंपितोऽश्वत्थपत्रवत् ।
भीमसेनो महाबाहुर्नत्वोवाच गुरुं प्रति १०।
भीमसेन उवाच-
पितामह महाबुद्धे शृणु मे परमं वचः ।
युधिष्ठिरश्च कुंती च तथा द्रुपदनंदिनी ११।
अर्जुनो नकुलश्चैव सहदेवस्तथैव च ।
एकादश्यां न भुंजंति कदाचिदपि सुव्रताः १२।
ते मां ब्रुवंति वै नित्यं मा भुंक्ष्व त्वं वृकोदर ।
अहं तानब्रुवं तात बुभुक्षा दुःसहा मम १३।
दानं दास्यामि विधिवत्पूजयिष्यामि केशवम् ।
भीमसेनवचः श्रुत्वा व्यासो वचनमब्रवीत् १४।
व्यास उवाच-
यदि स्वर्गमभीष्टं ते नरकं दुष्टमेव च ।
एकादश्यां न भोक्तव्यं पक्षयोरुभयोरपि १५।
भीमसेन उवाच-
पितामह महाबुद्धे कथयामि तवाग्रतः ।
एकभक्ते न शक्नोमि उपवासे कुतः प्रभो १६।
वृकोऽपिनाम यो वह्निः स सदा जठरे मम ।
अतिवेलं यदाश्नामि तदा समुपशाम्यति १७।
नैकं शक्नोम्यहं कर्तुमुपवासं महामुने ।
येनैव प्राप्यते स्वर्गस्तत्कर्त्तास्मि यथातथम् ।
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् १८।
व्यास उवाच-
वृषस्थे मिथुनस्थे वा यदा चैकादशी भवेत् ।
ज्येष्ठमासे प्रयत्नेन सोपोष्योदकवर्जिता १९।
गंडूषाचमनं वारि वर्जयित्वोदकं बुधः ।
उपभुंजीत नैवेह व्रतभंगोऽन्यथा भवेत् २०।
उदयादुदयं यावद्वर्जयित्वोदकं नरः ।
श्रूयतां समवाप्नोति द्वादशद्वादशी फलम् २१।
ततः प्रभाते विमले द्वादश्यां स्नानमाचरेत् ।
जलं सुवर्णं दत्त्वा च द्विजातिभ्यो यथाविधि २२।
भुंजीत कृतकृत्यस्तु ब्राह्मणैः सहितो वशी ।
एवं कृते च यत्पुण्यं भीमसेन शृणुष्व तत् २३।
संवत्सरे तु याश्चैव एकादश्यो भवंति हि ।
तासां फलमवाप्नोति ह्यत्र मे नास्ति संशयः २४।
इति मां केशवः प्राह शंखचक्रगदाधरः ।
सर्वान्परित्यज्य पुमान्मामेकं शरणं व्रजेत् २५।
एकादश्यां निराहारस्ततः पापात्प्रमुच्यते ।
द्रव्यशुद्धिः कलौ नास्ति संस्कारः स्मार्त्त एव च २६।
वैदिकस्तु कुतश्चापि प्राप्ते दुष्टे कलौ युगे ।
किं नु ते बहुनोक्तेन वायुपुत्र पुनः पुनः २७।
एकादश्यां न भुंजीत पक्षयोरुभयोरपि ।
एकादश्यां सिते पक्षे ज्येष्ठेमास्युदकं विना २८।
पुण्यं फलमवाप्नोति तच्छृणुष्व वृकोदर ।
संवत्सरे तु या प्रोक्ताः शुक्लः कृष्णा वृकोदर २९।
उपोषिता हि सर्वाः स्युरेकादश्यो न संशयः ।
धनधान्यप्रदा पुण्या पुत्रारोग्यशुभप्रदा ३०।
उपोषिता नरव्याघ्र इति सत्यं ब्रवीमि ते ।
यमदूता महाकायाः करालाः कृष्णरूपिणः ३१।
दंडपाशधरा रौद्रा नोपसर्पंति तं नरम् ।
पीतांबरधरा सौम्याश्चक्रहस्ता मनोजवाः ३२।
अंतकालेन यंत्येते वैष्णवान्वैष्णवीपुरीम् ।
तस्मात्सर्वप्रयत्नेन उपोष्योदकवर्जिता ३३।
जलधेनुं तदा दत्त्वा सर्वपापैः प्रमुच्यते ।
ततस्त्वमस्यां कौंतेय सोपवासोऽर्चनं हरेः ३४।
कुरु सर्वप्रयत्नेन सर्वपापप्रशांतये ।
स्वप्नेन मेऽपराधोस्ति दंतरागतयापि वा ३५।
भोक्ष्येपरेऽह्नि देवेश ह्यशनं वासराद्धरेः ।
इत्युच्चार्य ततो मंत्र उपवासपरो भवेत् ३६।
सर्वपापविनाशाय श्रद्धा दम समन्वितः ।
मेरुमंदरमात्राघं स्त्रिया पुंसा च यत्कृतम् ३७।
सर्वं तद्भस्मतां याति एकादश्याः प्रभावतः ।
न शक्नुवंति ये दातुं जलधेनुं नराधिप ३८।
सकांचनः प्रदातव्यो घटको वस्त्रसंयुतः ।
तोयस्य नियमं योऽस्या कुरुते वै स पुण्यभाक् ३९।
फलं कोटिसुवर्णस्य यामेयामे श्रुतं फलम् ।
स्नानं दानं जपं होमं यदस्यां कुरुते नरः ४०।
तत्सर्वं चाक्षयं प्राप्तमेतत्कृष्णप्रभाषितम् ।
किं वापरेण धर्मेण निर्जलैकादशीं विना ४१।
उपोष्य सम्यग्विधिवद्वैष्णवं पदमाप्नुयात् ।
सुवर्णमन्नं वासो वा यदस्यां संप्रदीयते ४२।
तदस्य कुरुशार्दूल सर्वं चाप्यक्षयं भवेत् ।
एकादश्यां दिने योऽन्नं भुंक्ते पापं भुनक्ति सः ४३।
इहलोके स चांडालो मृतः प्राप्नोति दुर्गतिम् ।
ये च दास्यंति दानानि द्वादश्यां समुपोषिताः ४४।
ज्येष्ठमासे सिते पक्षे प्राप्स्यंति परमं पदम् ।
ब्रह्महा मद्यपः स्तेनो गुरुद्वेषी सदानृती ४५।
मुच्यंते पातकैः सर्वैर्निर्जलायैरुपोषिता ।
विशेषं शृणु कौंतेय निर्जलैकादशी दिने ४६।
यत्कर्त्तव्यं नरैः स्त्रीभिर्दानं श्रद्धासमन्वितैः ।
जलशायी च संपूज्यो देया धेनुस्तथाम्मयी ४७।
प्रत्यक्षा वा नृपश्रेष्ठ घृतधेनुरथापि वा ।
दक्षिणाभिः सुपुष्टाभिर्मिष्टान्नैश्च पृथग्विधैः ४८।
तोषणीयाः प्रयत्नेन द्विजा धर्मभृतां वर ।
तुष्टा भवंति वै विप्रास्तैस्तुष्टैर्मोक्षदो हरिः ४९।
आत्मद्रोहः कृतस्तैर्हि यैरेषा न ह्युपोषिता ।
पापात्मानो दुराचारा मुष्टास्ते नात्र संशयः 6.51.५०।
कुलानां शतमागामि अतीतानां तथा शतम् ।
आत्मना सह तैर्नीतं वासुदेवस्य मंदिरम् ५१।
शांतैर्दांतैर्दानपरैरर्चयद्भिस्तथा हरिम् ।
कुर्वद्भिर्जागरं रात्रौ यैरेषा समुपोषिता ५२।
अन्नं वस्त्रं तथा गावो जलं शय्यासनं शुभम् ।
कमंडलुं तथा छत्रं दातव्यं निर्जला दिने ५३।
उपानहौ यो ददाति पात्रभूते द्विजोत्तमे ।
स सौवर्णेन यानेन स्वर्गलोके महीयते ५४।
यश्चेमां शृणुयाद्भक्त्या यश्चापि परिकीर्तयेत् ।
उभौ तौ स्वर्गमाप्नोति नात्र कार्या विचारणा ५५।
यत्फलं संनिहत्यायां राहुग्रस्ते दिवाकरे ।
कृत्वा श्राद्धं लभेन्मर्त्यस्तदस्याः श्रवणादपि ५६।
नियमं च प्रकर्त्तव्यं दंतधावनपूर्वकम् ।
एकादश्यां निराहारो वर्जयिष्यामि वै जलम् ५७।
केशवप्रीणनार्थाय अन्यदाचमनादृते ।
द्वादश्यां देवदेवेशः पूजनीयस्त्रिविक्रमः ५८।
गंधैर्धूपैस्तथा पुष्पैर्वासोभिः प्रियदर्शनैः ।
पूजयित्वा विधानेन मंत्रमेतमुदीरयेत् ५९।
देवदेव हृषीकेश संसारार्णवतारक ।
उदकुंभप्रदानेन नय मां परमां गतिम् ६०।
ज्येष्ठे मासि तु वै भीम या शुक्लैकादशी शुभा ।
निर्जला समुपोष्यात्र जलकुंभान्सशर्करान् ६१।
प्रदाय विप्रमुख्येभ्यो मोदते विष्णुसन्निधौ ।
ततः कुंभाः प्रदातव्या ब्राह्मणानां च भक्तितः ६२।
भोजयित्वा ततो विप्रान्स्वयं भुंजीत तत्परः ।
एवं यः कुरुते पूर्णां द्वादशीं पापनाशिनीम् ६३।
सर्वपापविनिर्मुक्तो पदं गच्छत्यनामयम् ।
ततः प्रभृति भीमेन कृता ह्येकादशी शुभा ।
पांडवद्वादशी नाम्ना लोके ख्याता बभूव ह ६४।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितयामुत्तरखंडे उमापतिनारदसंवादे ज्येष्ठशुक्ला निर्जलैकादशीनामैकपंचाशत्तमोऽध्यायः ५१।