पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १०३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १०२ पद्मपुराणम्
अध्यायः १०३
वेदव्यासः
अध्यायः १०४ →

नारद उवाच-
विष्णुर्जालंधरं गत्वा तद्दैत्यपुटभेदनम्
पातिव्रत्यस्य भंगाय वृंदायाश्चाकरोन्मतिम् १
अथ वृंदारका देवी स्वप्नमध्ये ददर्श ह
भर्त्तारं महिषारूढं तैलाभ्यक्तं दिगंबरम् २
कृष्णप्रसूनभूषाढ्यं क्रव्यादगणसेवितम्
दक्षिणाशां गतं मुंडं तमसा व्यावृतं तदा ३
स्वपुरं सागरे मग्नं सहसैवात्मना सह
ततः प्रबुद्धा सा बाला स्वस्वप्नं प्रविचिन्वती ४
ददर्शोदितमादित्यं सच्छिद्रं निश्चलं मुहुः
तदनिष्टमिति ज्ञात्वा रुदती भयविह्वला ५
कुत्रचिन्नालभच्छर्म गोपुराट्टालभूमिषु
ततः सखीद्वययुता नगरोद्यानमागमत् ६
तत्रापि सागता बाला नालभत्कुत्रचित्सुखम्
वनाद्वनांतरं याता नैव वेदात्मनस्तदा ७
ततो भ्रमंते सा बाला ददर्शातिविभीषणौ
राक्षसौ सिंहवदनौ दंष्ट्रानयनभीषणौ ८
तौ दृष्ट्वा विह्वलातीव पलायनपरा तदा
ददर्श तापसंशांतं सशिष्यं मौनमास्थितम् ९
ततस्तत्कंठ आसज्य निजां बाहुलतां भयात्
मुने मां रक्ष शरणमागतामित्यभाषत १०
मुनिस्तां विह्वलां दृष्ट्वा राक्षसानुगतां तदा
हुंकारेणैव तौ घोरौ चकार विमुखौ रुषा ११
यद्धुंकारभयत्रस्तौ दृष्ट्वा तौ गगनं गतौ
प्रणम्य दंडवद्भूमौ वृंदा वचनमब्रवीत् १२
वृंदोवाच
रक्षिताहं त्वया घोराद्भयात्तस्मात्कृपानिधे
किंचिद्विज्ञप्तुमिच्छामि कृपया तन्निशामय १३
जलंधरो हि मे भर्त्ता रुद्रं योद्धुं गतः प्रभो
स तत्रास्ति कथं युद्धे तन्मे कथय सुव्रत १४
नारद उवाच-
मुनिस्तद्वाक्यमाकर्ण्य कृपयोर्ध्वमवैक्षत
तावत्कपीशावायातौ तं प्रणम्याग्रतः स्थितौ १५
ततस्तद्भ्रूलतासंज्ञा नियुक्तौ गगनं गतौ
गत्वा क्षणार्द्धादागत्य वानरावग्रतः स्थितौ १६
शिरः कबंधहस्तौ तौ दृष्ट्वाब्धितनयस्य सा
पपात मूर्छिता भूमौ भर्तृव्यसनदुःखिता १७
कमंडलुजलैः सिक्ता मुनिनाश्वासिता तदा
स्वभर्तृभाले सा भालं कृत्वा खिन्ना रुरोद ह १८
वृंदोवाच-
यः पुरा सुखसंवादैर्विनोदयसि मां विभो
स कथं न वदस्यद्य वल्लभां मामनागसम् १९
येन देवाः सगंधर्वा निर्जिता हरिणा सह
स कथं तापसेन त्वं त्रैलोक्यविजयी हतः २०
नारद उवाच-
रुदित्वेति तदा वृंदा तं मुनिं वाक्यमब्रवीत्
वृंदोवाच
कृपानिधे मुनिश्रेष्ठ जीवनं मेऽस्य सुप्रियम् २१
त्वमेवास्य पुनः शक्तो जीवनाय मतो मम
अथ तद्वाक्यमाकर्ण्य प्रहस्य मुनिरब्रवीत् २२
मुनिरुवाच
नायं जीवयितुं शक्यो रुद्रेण निहतो युधि
तथापि त्वत्कृपाविष्ट एवं संजीवयाम्यहम् २३
नारद उवाच
इत्युक्त्वांतर्दधे यावत्तावत्सागरनंदनः
वृंदामालिंग्य तद्वक्त्रं चुचुंबे प्रीतमानसः २४
अथ वृंदापि भर्त्तारं दृष्ट्वा हर्षितमानसा
रेमे तद्वनमध्यस्था तद्युक्ता बहुवासरम् २५
कदाचित्सुरतस्यांते दृष्ट्वा विष्णुं तमेव हि
निर्भर्त्स्य क्रोधसंयुक्ता वृंदा वचनमब्रवीत् २६
वृंदोवाच
धिक्त वेदं हरे शीलं परदाराभिगामिनः
ज्ञातोऽसि त्वं मया सम्यङ्माया प्रत्यक्ष तापसः २७
यौ त्वया मायया द्वास्थौ स्वकीयौ दर्शितौ मम
तावेव राक्षसौ भूत्वा भार्यां तव हरिष्यथ २८
त्वं चापि भार्यादुःखार्तो वने कपिसहायवान्
भ्रम सर्वेश्वरेणायं यस्ते शिष्यत्वमागतः २९
इत्युक्त्वा सा तदा वृंदा प्राविशद्धव्यवाहनम्
विष्णुना वार्यमाणापि तस्मिन्नासक्तमानसा ३०
ततो हरिस्तामनुसंस्मरन्मुहुर्वृंदाचिताभस्मरजोवगुंठितः
तत्रैव तस्थौ मुनिसिद्धसंघैः प्रबोध्यमानोपि ययौ न शांतिंम् ३१
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे वृंदाचिताग्निप्रवेशोनाम त्र्यधिकशततमोऽध्यायः १०३