पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १२२

विकिस्रोतः तः
← अध्यायः १२१ पद्मपुराणम्
अध्यायः १२२
वेदव्यासः
अध्यायः १२३ →

कार्तिकेय उवाच।
दीपावलिफलं नाथ विशेषाद्ब्रूहि सांप्रतम् ।
किमर्थं क्रियते सा तु तस्याः का देवता भवेत् १।
किं च तत्र भवेद्देयं किं न देयं वद प्रभो ।
प्रहर्षः कोऽत्र निर्दिष्टः क्रीडा कात्र प्रकीर्तिता २।
सूत उवाच।
इति स्कंदवचः श्रुत्वा भगवान्कामशोषणः ।
साधूक्त्वा कार्तिकं विप्राः प्रहसन्निदमब्रवीत् ३।
श्रीशिव उवाच।
कार्तिकस्यासिते पक्षे त्रयोदश्यां तु पावके ।
यमदीपं बहिर्दद्यादपमृत्युर्विनश्यति ४।
मृत्युना पाशहस्तेन कालेन भार्यया सह ।
त्रयोदशीदीपदानात्सूर्यजः प्रीयतामिति ५।
कार्तिके कृष्णपक्षे च चतुर्दश्यां विधूदये ।
अवश्यमेव कर्त्तव्यं स्नानं च पापभीरुभिः ६।
पूर्वविद्धा चतुर्दश्या कार्तिकस्य सितेतरे ।
पक्षे प्रत्यूषसमये स्नानं कुर्यादतंद्रितः ७।
तैले लक्ष्मीर्जले गंगा दीपावल्यां चतुर्दशीम् ।
प्राप्तः स्नानं हि यः कुर्याद्यमलोकं न पश्यति ८।
अपामार्गस्तथा तुंबी प्रपुन्नाटं च वाह्वलम् ।
भ्रामयेत्स्नानमध्ये तु नरकस्य क्षयाय वै ९।
सीतालोष्टसमायुक्त सकंटक दलान्वित ।
हर पापमपामार्ग भ्राम्यमाणः पुनः पुनः १०।
अपामार्गं प्रपुन्नाटं भ्रामयेच्छिरसोपरि ।
ततश्च तर्पणं कार्यं यमराजस्य नामभिः ११।
यमाय धर्मराजाय मृत्यवे चांतकाय च ।
वैवस्ताय कालाय सर्वभूतक्षयाय च १२।
औदुंबराय दध्नाय नीलाय परमेष्ठिने ।
वृकोदराय चित्राय चित्रगुप्ताय वै नमः १३।
नरकाय प्रदातव्यो दीपः संपूज्य देवताः ।
ततः प्रदोषसमये दीपान्दद्यान्मनोहरान् १४।
ब्रह्मविष्णुशिवादीनां भवनेषु विशेषतः ।
कूटागारेषु चैत्येषु सभासु च नदीषु च १५।
प्राकारोद्यानवापीषु प्रतोली निष्कुटेषु च ।
मंदुरासु विविक्तासु हस्तिशालासु चैव हि १६।
एवं प्रभातसमये ह्यमावास्यां तु पावकं ।
स्नात्वा देवान्पितॄन्भक्त्या संपूज्याथ प्रणम्य च १७।
कृत्वा तु पार्वणं श्राद्धं दधिक्षीरघृतादिभिः ।
भोज्यैर्नानाविधैर्विप्रान्भोजयित्वा क्षमापयेत् १८।
ततोपराह्णसमये पोषयेन्नागरान्प्रिय ।
तेषां गोष्ठीं च मानं च कृत्वा संभाषणं नृपः १९।
वक्तृणां वत्सरं यावत्प्रीतिरुत्पद्यते गुह ।
अप्रबुद्धे हरौ पूर्वं स्त्रीभिर्लक्ष्मीः प्रबोधयेत् २०।
प्रबोधसमये लक्ष्मीं बोधयित्वा तु सुस्त्रिया ।
पुमान्वै वत्सरं यावल्लक्ष्मीस्तं नैव मुंचति २१।
अभयं प्राप्य विप्रेभ्यो विष्णुभीता सुरद्विषः ।
सुप्तं क्षीरोदधौ ज्ञात्वा लक्ष्मीं पद्माश्रितां तथा २२।
त्वं ज्योतिः श्री रविश्चंद्रो विद्युत्सौवर्णतारकः ।
सर्वेषां ज्योतिषां ज्योतिर्दीपज्योतिः स्थिता तु या २३।
या लक्ष्मीर्दिवसे पुण्ये दीपावल्यां च भूतले ।
गवां गोष्ठे तु कार्तिक्यां सा लक्ष्मीर्वरदा मम २४।
शंकरश्च भवानी च क्रीडया द्यूतमास्थितौ ।
भवान्याभ्यर्चिता लक्ष्मीर्धेनुरूपेण संस्थिता २५।
गौर्या जित्वा पुरा शंभुर्नग्नो द्यूते विसर्जितः ।
अतोऽयं शंकरो दुःखी गौरी नित्यं सुखेस्थिता २६।
प्रथमं विजयो यस्य तस्य संवत्सरं सुखम् ।
एवं गते निशीथे तु जने निद्रार्धलोचने २७।
तावन्नगरनारीभिस्तूर्य डिंडिमवादनैः ।
निष्कास्यते प्रहृष्टाभिरलक्ष्मीश्च गृहांगणात् २८।
पराजये विरुद्धं स्यात्प्रतिपद्युदिते रवौ ।
प्रातर्गोवर्द्धनः पूज्यो द्यूतं रात्रौ समाचरेत् २९।
भूषणीयास्तथा गावो वर्ज्या वहनदोहनात् ।
गोवर्द्धनधराधार गोकुलत्राणकारक ३०।
विष्णुबाहुकृतोच्छ्राय गवां कोटिप्रदो भव ।
या लक्ष्मीर्लोकपालानां धेनुरूपेण संस्थिता ३१।
घृतं वहति यज्ञार्थे मम पापं व्यपोहतु ।
अग्रतः संतु मे गावो गावो मे संतु पृष्ठतः ।
गावो मे हृदये संतु गवां मध्ये वसाम्यहम् ३२।
इतिगोवर्द्धनपूजा ।
सद्भावेनैव संतोष्य देवान्सत्पुरुषान्नरान् ।
इतरेषामन्नपानैर्वाक्यदानेन पंडितान् ३३।
वस्त्रैस्तांबूलदीपैश्च पुष्पकर्पूरकुंकुमैः ।
भक्ष्यैरुच्चावचैर्भोज्यैरंतःपुर निवासिनः ३४।
ग्रामर्षभं च दानैश्च सामंतान्नृपतिर्धनैः ।
पदातिजनसंघांश्च ग्रैवेयैः कटकैः शुभैः ३५।
स्वानमात्यांश्च तान्राजा तोषयेत्स्वजनान्पृथक् ।
यथार्थं तोषयित्वा तु ततो मल्लान्नटांस्तथा ३६।
वृषभांश्च महोक्षांश्च युद्ध्य्मानान्परैः सह ।
राजान्यांश्चापि योधांश्च पदातीन्स समलंकृतान् ३७।
मंचारूढः स्वयं पश्येन्नटनर्तकचारणान् ।
योधयेद्वासयेच्चैव गोमहिष्यादिकं च यत् ३८।
वत्सानाकर्षयेद्गोभिरुक्तिप्रत्युक्ति वादनात् ।
ततोपराह्णसमये पूर्वस्यां दिशि पावके ३९।
मार्गपालद्यं प्रबध्नीयाद्दुर्गस्तंभेऽथ पादपे ।
कुशकाशमयीं दिव्यां लंबकैर्बहुभिर्गुह ४०।
वीक्षयित्वा गजानश्वान्मार्गपाल्यास्तले नयेत् ।
गावैर्वृषांश्चमहिषान्महिषीर्घंटिकोत्कटाः ४१।
कृतहोमैर्द्विजेंद्रैस्तु बध्नीयान्मार्गपालिकाम् ।
नमस्कारं ततः कुर्यान्मंत्रेणानेन सुव्रतः ४२।
मार्गपालि नमस्तुभ्यं सर्वलोकसुखप्रदे ।
मार्गपालीतले स्कंद यांति गावो महावृषाः ४३।
राजानो राजपुत्राश्च ब्राह्मणाश्च विशेषतः ।
मार्गपालद्यं समुल्लंघ्य निरुजः सुखिनो हि ते ४४।
कृत्वैतत्सर्वमेवेह रात्रौ दैत्यपतेर्बलेः ।
पूजां कुर्यात्ततः साक्षाद्भूमौ मंडलके कृते ४५।
बलिमालिख्य दैत्येंद्रं वर्णकैः पंचरंगकैः ।
सर्वाभरणसंपूर्णं विंध्यावलिसमन्वितम् ४६।
कूष्मांडमय जंभोरु मधुदानवसंवृतम् ।
संपूर्णं हृष्टवदनं किरीटोत्कटकुंडलम् ४७।
द्विभुजं दैत्यराजानं कारयित्वा स्वके पुनः ।
गृहस्य मध्ये शालायां विशालायां ततोऽर्चयेत् ४८।
मातृभ्रातृजनैः सार्द्धं संतुष्टो बंधुभिः सह ।
कमलैः कुमुदैः पुष्पैः कल्हारै रक्तकोत्पलैः ४९।
गंधपुष्पान्ननैवेद्यैः सक्षीरैर्गुडपायसैः ।
मद्यमांससुरालेह्य चोष्य भक्ष्योपहारकैः 6.122.५०।
मंत्रेणानेन राजेंद्र सः मंत्री सपुरोहितः ।
पूजां करिष्यते यो वै सौख्यं स्यात्तस्य वत्सरम् ५१।
बलिराज नमस्तुभ्यं विरोचनसुत प्रभो ।
भविष्येंद्र सुराराते पूजेयं प्रतिगृह्यताम् ५२।
एवं पूजाविधिं कृत्वा रात्रौ जागरणं ततः ।
कारयेद्वै क्षणं रात्रौ नटनर्तकगायकैः ५३।
लोकैश्चापि गृहस्यांते सपर्यां शुक्लतंडुलैः ।
संस्थाप्य बलिराजानं फलैः पुष्पैश्च पूजयेत् ५४।
बलिमुद्दिश्य वै तत्र कार्यं सर्वं च पावके ।
यानि यान्यक्षयान्याहु ऋषयस्तत्वदर्शिनः ५५।
यदत्र दीयते दानं स्वल्पं वा यदि वा बहु ।
तदक्षयं भवेत्सर्वं विष्णोः प्रीतिकरं शुभम् ५६।
रात्रौ ये न करिष्यंति तव पूजां बलेर्नराः ।
तेषामश्रोत्रियं धर्मं सर्वं त्वामुपतिष्ठतु ५७।
विष्णुना च स्वयं वत्स तुष्टेन बलये पुनः ।
उपकारकरं दत्तमसुराणां महोत्सवम् ५८।
तदा प्रभृति सेनाने प्रवृत्ता कौमुदी सदा ।
सर्वोपद्रवविद्रावा सर्वविघ्नविनाशिनी ५९।
लोकशोकहरा काम्या धनपुष्टिसुखावहा ।
कुशब्देन मही ज्ञेया मुद हर्षे ततो द्वयम् ६०।
धातुत्वे निगमैश्चैव तेनैषा कौमुदी स्मृता ।
कौमोदं ते जना यस्मान्नानाभावैः परस्परम् ६१।
हृष्टतुष्टाः सुखापन्नास्तेनैषा कौमुदी स्मृता ।
कुमुदानि बलेर्यस्यां दीयंते तेन षण्मुख ६२।
अघार्थं पार्थिवैः पुत्र तेनैषा कौमुदी स्मृता ।
एकमेवमहोरात्रं वर्षेवर्षे च कार्तिके ६३।
दत्तं दानवराजस्य आदर्शमिव भूतल ।
यः करोति नृपो राज्ये तस्य व्याधिभयं कुतः ६४।
सुभिक्षं क्षेममारोग्यं तस्य संपदनुत्तमा ।
नीरुजश्च जनाः सर्वे सर्वोपद्रववर्जिताः ६५।
कौमुदी क्रियते तस्माद्भावं कर्तुं महीतले ।
यो यादृशेन भावेन तिष्ठत्यस्यां च षण्मुख ६६।
हर्षदुःखादिभावेन तस्य वर्षं प्रयाति हि ।
रुदिते रोदते वर्षं हृष्टे वर्षं प्रहर्षितम् ६७।
भुक्ते भोक्ता भवेद्वर्षं स्वस्थे स्वस्थं भविष्यति ।
तस्मात्प्रहृष्टैः कर्त्तव्या कौमुदी च शुभैर्नरैः ६८।
वैष्णवी दानवी चेयं तिथिः प्रोक्ता च कार्तिके ६९।
दीपोत्सवंजनित सर्वजनप्रसादं कुर्वंति ये शुभतया बलिराजपूजाम् ।
दानोपभोगसुखबुद्धिमतां कुलानां हर्षं प्रयाति सकलं प्रभुदं च वर्षम् ७०।
स्कंदैतास्तिथयो नूनं द्वितीयाद्याश्च विश्रुताः ।
मासैश्चतुर्भिश्च ततःप्रावृट्काले शुभावहाः ७१।
प्रथमा श्रावणे मासि तथा भाद्रपदे परा ।
तृतीयाश्वयुजेमासि चतुर्थी कार्तिके भवेत् ७२।
कलुषा श्रावणे मासि तथा भाद्रपदेमला ।
आश्विने प्रेतसंचारा कार्तिके याम्यकामता ७३।
गुह उवाच।
कस्मात्सा कलुषा प्रोक्ता कस्मात्सा निर्मला मता ।
कस्मात्सा प्रेतसंचारा कस्माद्याम्या प्रकीर्तिता ७४।
सूत उवाच।
इति स्कंदवचः श्रुत्वा भगवान्भूतभावनः ।
उवाच वचनं श्लक्ष्णं प्रहसन्वृषभध्वजः ७५।
महेश उवाच।
पुरा वृत्रवधे वृत्ते प्राप्ते राज्ये पुरंदरे ।
ब्रह्महत्यापनोदार्थमश्वमेधः प्रवर्तितः ७६।
क्रोधादिंद्रेण वज्रेण ब्रह्महत्या निषूदिता ।
षड्विधा सा क्षितौ क्षिप्ता वृक्षतोयमहीतले ७७।
नार्यां भ्रूणहणिवह्नौ संविभज्य यथाक्रमम् ।
तत्पापश्रवणात्पूर्वं द्वितीयाया दिनेन च ७८।
नारीवृक्षनदीभूमिवह्निभ्रूणहनस्तथा ।
कलुषीभवनं जातो ह्यतोर्थं कलुषा स्मृता ७९।
मधुकैटभयो रक्ते पुरा मग्नानु मेदिनी ।
अष्टांगुला पवित्रा सा नारीणां तु रजोमलम् ८०।
नद्यः प्रावृण्मला सर्वा वह्निरूर्ध्वं मषीमलः ।
निर्यासमलिना वृक्षाः संगाद्भ्रूणहनो मलाः ८१।
कलुषानि चरंत्यस्यां तेनैषा कलुषा मता ।
देवर्षिपितृधर्माणां निंदका नास्तिकाः शठाः ८२।
तेषां सा वाङ्मलात्पूता द्वितीया तेन निर्मला ।
अनध्यायेषु शास्त्राणि पाठयंति पठंति च ८३।
सांख्यकास्तार्किकाः श्रौतास्तेषां शब्दापशब्दजात् ।
मलात्पूता द्वितीयायां ततोर्थे निर्मला च सा ८४।
कृष्णस्य जन्मना वत्स त्रैलोक्यं पावितं भवेत् ।
नभस्येते विनिर्दिष्टा निर्मला सा तिथिर्बुधैः ८५।
अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा ।
पितॄन्पितामहान्प्रेतसंचारात्प्रेतसंचरा ८६।
प्रेतास्तु पितरः प्रोक्तास्तेषां तस्यां तु संचरः ।
पुत्रपौत्रेस्तुदौहित्रैः स्वधामंत्रैस्तु पूजिताः ८७।
श्राद्धदानमखैस्तृप्ता यांत्यतः प्रेतसंचरा ।
महालये तु प्रेतानां संचारो भुवि दृश्यते ८८।
तेनैषा प्रेतसंचारा कीर्तिता शिखिवाहन ।
यमस्य क्रियते पूजा यतोऽस्या पावके नरैः ८९।
तेनैषा याम्यका प्रोक्ता सत्यं सत्यं मयोदितम् ।
एतत्कार्तिकमाहात्म्यं ये शृण्वंति नरोत्तमाः ९०।
कार्तिकस्नानजं पुण्यं तेषां भवति निश्चितम् ९१।
कार्तिके च द्वितीयायां पूर्वाह्णे यममर्चयेत् ।
भानुजायां नरः स्नात्वा यमलोकं न पश्यति ९२।
कार्तिके शुक्लपक्षे तु द्वितीयायां तु शौनक ।
यमो यमुनया पूर्वं भोजितः स्वगृहेऽचितः ९३।
द्वितीयायां महोत्सर्गो नारकीयाश्च तर्पिताः ।
पापेभ्यो विप्रयुक्तास्ते मुक्ताः सर्वनिबंधनात् ९४।
आशंसिताश्च संतुष्टाः स्थिताः सर्वे यदृच्छया ।
तेषां महोत्सवो वृत्तो यमराष्ट्रसुखावहः ९५।
अतो यमद्वितीयेयं त्रिषुलोकेषु विश्रुता ।
तस्मान्निजगृहे विप्र न भोक्तव्यं ततो बुधैः ९६।
स्नेहेन भगिनीहस्ताद्भोक्तव्यं पुष्टिवर्द्धनं ।
दानानि च प्रदेयानि भगिनीभ्यो विधानतः ९७।
स्वर्णालंकारवस्त्राणि पूजासत्कारसंयुतम् ।
भोक्तव्यं सह जायाश्च भगिन्याहस्ततः परम् ९८।
सर्वासु भगिनीहस्ताद्भोक्तव्यं बलवर्द्धनम् ।
ऊर्जे शुक्लद्वितीयायां पूजितस्तर्पितो यमः ९९।
महिषासनमारूढो दंडमुद्गरभृत्प्रभुः ।
वेष्टितः किंकरैहृष्टैस्तस्मै याम्यात्मने नमः 6.122.१००।
यैर्भगिन्यः सुवासिन्यो वस्त्रदानादि तोषिताः ।
न तेषां वत्सरं यावत्कलहो न रिपोर्भयम् १०१।
धन्यं यशस्यमायुष्यं धर्मकामार्थसाधनम् ।
व्याख्यातं सकलं पुत्र सरहस्यं मयानघ १०२।
यस्यां तिथौ यमुनया यमराजदेवः संभोजितः प्रतितिथौ स्वसृसौहृदेन ।
तस्मात्स्वसुः करतलादिह यो भुनक्ति प्राप्नोति वित्तशुभसंपदमुत्तमां सः १०३।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्ससहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये।
द्वाविंशत्यधिकशततमोऽध्यायः १२२।