पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २३५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २३४ पद्मपुराणम्
अध्यायः २३५
वेदव्यासः
अध्यायः २३६ →

श्रीपार्वत्युवाच-
पाषंडानां च संवादं वर्जयेदिति यत्त्वया १
उक्तं ममेह भगवान्श्वपचादपि गर्हितम्
ते यादृशाः समाख्याताः कैर्लिंङ्गैश्चिह्निता भुवि
रुद्र उवाच-
येऽन्यदेवं परत्वेन वदंत्यज्ञानमोहिताः २
नारायणाज्जगन्नाथात्ते वै पाषंडिनः स्मृताः
कपालभस्मास्थिधरा ये ह्यवैदिकलिङ्गिनः ३
ऋते वनस्थाश्रमाच्च जटावल्कलधारिणः
अवैदिकक्रियोपेतास्तै वै पाषंडिनस्तथा ४
शंखचक्रोर्ध्वपुंड्रादि चिह्नैः प्रियतमैर्हरेः
रहिता ये द्विजा देवि ते वै पाषंडिनः स्मृताः ५
श्रुतिस्मृत्युदिताचारं यस्तु नाचरति द्विजः
स पाषंडीति विज्ञेयः सर्वलोकेषु गर्हितः ६
विना वै भगवत्प्रीत्या ते वै पाषंडिनः स्मृताः
समस्तयज्ञभोक्तारं विष्णुं वै ब्रह्मदैवतम् ७
उदिश्य देवता एव जुहोति च ददाति च
स पाषण्डीति विज्ञेयः स्वतंत्रः सर्वकर्मसु ८
स्वातंत्र्यात्कुरुते यस्तु कर्म वेदोदितं महत्
यस्तु नारायणं देवं ब्रह्मरुद्रादिदैवतैः ९
सममन्यैर्निरीक्षेत स पाषंडी भवेत्सदा
अवस्थात्रितये यस्तु मनोवाक्कायकर्म्मभिः १०
वासुदेवं न जानाति स पाषंडी भवेद्दिवजः
किमत्र बहुनोक्तेन ब्राह्मणा येप्यवैष्णवाः ११
न स्प्रष्टव्या न वक्तव्या न द्रष्टव्याः कदाचन
पार्वत्युवाच-
भगवन्परमं गुह्यं पृच्छामि सुरसत्तम १२
मयि प्रीत्या समाचक्ष्व संशयो वर्त्तते भृशम्
कपालभस्मचर्म्मास्थि धारणं श्रुतिगर्हितम् १३
तत्त्वया धार्य्यते देव गर्हितं केन हेतुना
स्त्रीचापल्येन देवेश पृच्छामि त्वां महामते १४
महाप्रभावात्कथितं न कर्त्तव्यं क्वचिद्भवेत्
त्वयेति न पुरा प्रोक्तं विस्तरेण महाप्रभो १५
अकर्त्तव्यमिति प्रश्नं क्षंतुमर्हसि मे प्रभो
वसिष्ठ उवाच-
इति देव्या हरः पृष्टो रहस्ये जनवर्जिते १६
उवाच परमं गुह्यं यद्यदाचरितं स्वकम्
शिव उवाच-
शृणु देवि प्रवक्ष्यामि यद्गुह्यं परमाद्भुतम् १७
न वक्तव्यं त्वया देवि जनेषु कथितं मया
अपृथक्त्वाच्छरीरस्य वक्ष्यामि तव सुव्रते १८
नमुच्याद्या महादैत्याः पुरा स्वायंभुवेंतरे
महाबला महावीर्या महावीरा महौजसः १९
सर्वे विष्णुरताः शुद्धाः सर्वपापविवर्जिताः
त्रयीधर्मवृताः सर्वे भग्ना इंद्रपुरोगमाः २०
विष्णोः समीपमागम्य भयार्त्ताः शरणं गताः
देवा ऊचुः
अजेयान्सर्वदेवानां तपोनिर्द्धूतकल्मषान् २१
त्वमेवैतान्महादैत्याञ्जेतुमर्हसि केशव
महादेव उवाच-
इत्याकर्ण्य हरिर्वाक्यं देवानां च भयानकम् २२
तान्समाश्वास्य दिक्पालान्मामाह पुरुषोत्तमः
श्रीभगवानुवाच-
त्वं हि रुद्र महाबाहो मोहनार्थे सुरद्विषाम् २३
पाषंडाचरणं धर्मं कुरुष्व सुरसत्तम
तामसानि पुराणानि कथयस्व च तान्प्रति २४
मोहनानि च शास्त्राणि कुरुष्व च महामते
मयि मुक्ताश्च विप्रश्च भविष्यंति महर्षयः २५
मद्भक्त्या तान्समाविश्य कथयस्व च तामसान्
काणादं गौतमं शक्तिमुपमन्युं च जैमिनिम् २६
कपिलं चैव दुर्वासं मृकंडुं च बृहस्पतिम्
भार्गवं जामदग्न्यं च दशैतांस्तामसानृषीन् २७
भावशक्त्या समाविश्य कुर्वता जगतो शिवम्
त्वच्छक्त्या च निविष्टास्ते तमसोद्रिक्तया भृशम् २८
तामसास्ते भविष्यंति क्षणादेव न संशयः
कथयिष्यंति ते विप्रास्तामसानि जगत्त्रये २९
पुराणानि च शास्त्रणि त्वया सत्वेन बृंहिताः
कपालचर्म्मभस्मास्थि चिह्नान्यमरसर्वशः ३०
त्वमेव धृतवान्लोकान्मोहयस्व जगत्त्रये
तथा पाशुपतं शास्त्रं त्वमेव कुरु सत्कृतः ३१
कंकालशैवपाषंडमहाशैवादिभेदतः
अलक्ष्यं च मतं सम्यग्वेदबाह्यं नराधमाः ३२
भस्मास्थिधारिणः सर्वे भविष्यंति ह्यचेतसः
त्वां परत्वेन वक्ष्यंति सर्वशास्त्रेषु तामसाः ३३
तेषां मतमधिष्ठाय सर्वे दैत्याः सनातनाः
भवेयुस्ते मद्विमुखाः क्षणादेव न संशयः ३४
अहमप्यवतारेषु त्वां च रुद्र महाबल
तामसानां मोहनार्थं पूजयामि युगे युगे ३५
मतमेतदवष्टभ्य पतंत्येव न संशयः
महादेव उवाच-
तच्छ्रुत्वाहं यथोक्तं तु वासुदेवेन भामिनि ३६
सुमहद्वदनो दीनो बभूवात्र वरानने
नमस्कृत्वाथ तं देवमब्रवं परमेश्वरम् ३७
त्वयोदितमिदं देव करोमि यदि भूतले
तस्मान्नाशाय मे नाथ भविष्यति न संशयः ३८
तत्र शक्यं मया कर्तुमेतत्कृत्यं हरेऽधुना
त्वदाज्ञापि च नोल्लंघ्या एतद्दुःखतरं महत् ३९
एवमुक्ते ततो देवि समाश्वास्य च मां पुनः
आत्मनाशाय तेनात्र भवत्वित्याह मां हरिः ४०
देवतानां हितार्थाय कुरुष्व वचनं मम
तवापि जीवनोपायं कथयामि सुरोत्तम ४१
दत्तवान्कृपया मह्यमात्मनाम सहस्रकम्
हृदये मां समाधाय जप मंत्रं ममाव्ययम् ४२
षडक्षरं महामंत्रं तारकं ब्रह्म उच्यते
ये जपंति हि मां भक्त्या तेषां मुक्तिर्न संशयः ४३
इंदीवरदलश्यामं पद्मपत्रविलोचनम्
शंखांगशार्ङ्गेषुधरं सर्वाभरणभूषितम् ४४
पीतवस्त्रं चतुर्बाहुं जानकीप्रियवल्लभम्
श्रीरामाय नम इत्येवमुच्चार्य्यं मन्त्रमुत्तमम् ४५
सर्वदुःखहरं चैतत्पापिनामपि मुक्तिदम्
इमं मंत्रं जपन्नित्यममलस्त्वं भविष्यसि ४६
भस्मास्थिधारणाद्यत्तु संभूतं किल्बिषं त्वयि
मंगलं तदभूत्सर्वं मन्मंत्रोच्चारणाच्छुभात् ४७
तर्पितो नाशयिष्यामि पापं सर्वं सुरोत्तम
मदन्यदेवताभक्तिर्जायते न तु सुव्रत ४८
मनसैवार्च्चय हृदि मां नाथं पुरुषोत्तमम्
मदाज्ञां कुरु मत्प्रीत्या सर्वमेतच्छुभं तव ४९
इति संदिश्य मां देवि विससर्ज मरुद्गणान्
विसृष्टास्ते ततो देवा निवृत्ताः स्वाश्रमं ययुः ५०
ततो मां प्रार्थयामासुर्देवा इंद्र पुरोगमाः
इन्द्रादय ऊचुः
शीघ्रं कुरु हितं देव यथोक्तं हरिणाधुना ५१
महादेव उवाच-
देवतानां हितार्थाय वृत्तिं पाखंडिनां शुभे
कपालचर्मभस्मास्थिधारणं तत्कृतं मया ५२
तामसानि पुराणानि यथोक्तं विष्णुना शुभे
पाषंडशैवशास्त्राणि यथोक्तं कृतवानहम् ५३
मच्छक्त्यापि समाविश्य गौतमादि द्विजानपि
वेदबाह्यानि शास्त्राणि सम्यगुक्तं मयानघे ५४
इमं मतमवष्टभ्य दुष्टाः सर्वे च राक्षसाः
भगवद्विमुखाः सर्वे बभूवुस्तामसावृताः ५५
भस्मादिधारणं कृत्वा महोग्रतपसावृताः
मामेव पूजयांचक्रुर्म्मांसासृक्चंदनादिभिः ५६
मत्तो वरप्रदानानि लब्ध्वा मदबलोद्धताः
अत्यंतविषयासक्ताः कामक्रोधसमन्विताः ५७
सत्वहीनास्तु निर्वीर्य्या जिता देवगणैस्तदा
सर्वधर्म्मपरिभ्रष्टाः काले यांत्यधमां गतिम् ५८
ये मे मतमवष्टभ्य चरंति पृथिवीतले
सर्वधर्मैश्च रहिताः पश्यंति निरयं सदा ५९
एवं देवहितार्थाय वृत्तिर्मे देवि गर्हिता
विष्णोराज्ञां पुरस्कृत्य कृतं भस्मास्थिधारणम् ६०
बाह्यचिह्नमिदं देवि मोहनार्थाय विद्विषाम्
अथांतर्हृदये नित्यं ध्यात्वा देवं जनार्दनम् ६१
जपन्नेव च तन्मंत्रं तारकं ब्रह्मवाचकम्
सहस्रनामसदृशं विष्णोर्नारायणस्य तु ६२
षडक्षरं महामंत्रं रघूणां कुलवर्द्धनम्
जपन्वै सततं देवि सदानंदसुधाप्लुतम्
सुखमात्यंतिकं ब्रह्म ह्यश्नाम सततं शुभे ६३
एतत्ते सर्वमाख्यातं त्वयापृष्टं शुभानने
किमन्यच्छ्रोतुकामासि प्रीत्या तत्परिपृच्छ माम् ६४
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे पाषंडोत्पत्तिवर्णनंनाम पंचत्रिंशदधिकद्विशततमोऽध्यायः २३५