सामग्री पर जाएँ

पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २३५

विकिस्रोतः तः
← अध्यायः २३४ पद्मपुराणम्
अध्यायः २३५
वेदव्यासः
अध्यायः २३६ →

श्रीपार्वत्युवाच-
पाषंडानां च संवादं वर्जयेदिति यत्त्वया १।
उक्तं ममेह भगवान्श्वपचादपि गर्हितम् ।
ते यादृशाः समाख्याताः कैर्लिंङ्गैश्चिह्निता भुवि ।
रुद्र उवाच-
येऽन्यदेवं परत्वेन वदंत्यज्ञानमोहिताः २।
नारायणाज्जगन्नाथात्ते वै पाषंडिनः स्मृताः ।
कपालभस्मास्थिधरा ये ह्यवैदिकलिङ्गिनः ३।
ऋते वनस्थाश्रमाच्च जटावल्कलधारिणः ।
अवैदिकक्रियोपेतास्तै वै पाषंडिनस्तथा ४।
शंखचक्रोर्ध्वपुंड्रादि चिह्नैः प्रियतमैर्हरेः ।
रहिता ये द्विजा देवि ते वै पाषंडिनः स्मृताः ५।
श्रुतिस्मृत्युदिताचारं यस्तु नाचरति द्विजः ।
स पाषंडीति विज्ञेयः सर्वलोकेषु गर्हितः ६।
विना वै भगवत्प्रीत्या ते वै पाषंडिनः स्मृताः ।
समस्तयज्ञभोक्तारं विष्णुं वै ब्रह्मदैवतम् ७।
उदिश्य देवता एव जुहोति च ददाति च ।
स पाषण्डीति विज्ञेयः स्वतंत्रः सर्वकर्मसु ८।
स्वातंत्र्यात्कुरुते यस्तु कर्म वेदोदितं महत् ।
यस्तु नारायणं देवं ब्रह्मरुद्रादिदैवतैः ९।
सममन्यैर्निरीक्षेत स पाषंडी भवेत्सदा ।
अवस्थात्रितये यस्तु मनोवाक्कायकर्म्मभिः १०।
वासुदेवं न जानाति स पाषंडी भवेद्दिवजः ।
किमत्र बहुनोक्तेन ब्राह्मणा येप्यवैष्णवाः ११।
न स्प्रष्टव्या न वक्तव्या न द्रष्टव्याः कदाचन ।
पार्वत्युवाच-
भगवन्परमं गुह्यं पृच्छामि सुरसत्तम १२।
मयि प्रीत्या समाचक्ष्व संशयो वर्त्तते भृशम् ।
कपालभस्मचर्म्मास्थि धारणं श्रुतिगर्हितम् १३।
तत्त्वया धार्य्यते देव गर्हितं केन हेतुना ।
स्त्रीचापल्येन देवेश पृच्छामि त्वां महामते १४।
महाप्रभावात्कथितं न कर्त्तव्यं क्वचिद्भवेत् ।
त्वयेति न पुरा प्रोक्तं विस्तरेण महाप्रभो १५।
अकर्त्तव्यमिति प्रश्नं क्षंतुमर्हसि मे प्रभो ।
वसिष्ठ उवाच-
इति देव्या हरः पृष्टो रहस्ये जनवर्जिते १६।
उवाच परमं गुह्यं यद्यदाचरितं स्वकम् ।
शिव उवाच-
शृणु देवि प्रवक्ष्यामि यद्गुह्यं परमाद्भुतम् १७।
न वक्तव्यं त्वया देवि जनेषु कथितं मया ।
अपृथक्त्वाच्छरीरस्य वक्ष्यामि तव सुव्रते १८।
नमुच्याद्या महादैत्याः पुरा स्वायंभुवेंतरे ।
महाबला महावीर्या महावीरा महौजसः १९।
सर्वे विष्णुरताः शुद्धाः सर्वपापविवर्जिताः ।
त्रयीधर्मवृताः सर्वे भग्ना इंद्रपुरोगमाः २०।
विष्णोः समीपमागम्य भयार्त्ताः शरणं गताः ।
देवा ऊचुः।
अजेयान्सर्वदेवानां तपोनिर्द्धूतकल्मषान् २१।
त्वमेवैतान्महादैत्याञ्जेतुमर्हसि केशव ।
महादेव उवाच-।
इत्याकर्ण्य हरिर्वाक्यं देवानां च भयानकम् २२।
तान्समाश्वास्य दिक्पालान्मामाह पुरुषोत्तमः ।
श्रीभगवानुवाच-
त्वं हि रुद्र महाबाहो मोहनार्थे सुरद्विषाम् २३।
पाषंडाचरणं धर्मं कुरुष्व सुरसत्तम ।
तामसानि पुराणानि कथयस्व च तान्प्रति २४।
मोहनानि च शास्त्राणि कुरुष्व च महामते ।
मयि मुक्ताश्च विप्रश्च भविष्यंति महर्षयः २५।
मद्भक्त्या तान्समाविश्य कथयस्व च तामसान् ।
काणादं गौतमं शक्तिमुपमन्युं च जैमिनिम् २६।
कपिलं चैव दुर्वासं मृकंडुं च बृहस्पतिम् ।
भार्गवं जामदग्न्यं च दशैतांस्तामसानृषीन् २७।
भावशक्त्या समाविश्य कुर्वता जगतो शिवम् ।
त्वच्छक्त्या च निविष्टास्ते तमसोद्रिक्तया भृशम् २८।
तामसास्ते भविष्यंति क्षणादेव न संशयः ।
कथयिष्यंति ते विप्रास्तामसानि जगत्त्रये २९।
पुराणानि च शास्त्रणि त्वया सत्वेन बृंहिताः ।
कपालचर्म्मभस्मास्थि चिह्नान्यमरसर्वशः ३०।
त्वमेव धृतवान्लोकान्मोहयस्व जगत्त्रये ।
तथा पाशुपतं शास्त्रं त्वमेव कुरु सत्कृतः ३१।
कंकालशैवपाषंडमहाशैवादिभेदतः ।
अलक्ष्यं च मतं सम्यग्वेदबाह्यं नराधमाः ३२।
भस्मास्थिधारिणः सर्वे भविष्यंति ह्यचेतसः ।
त्वां परत्वेन वक्ष्यंति सर्वशास्त्रेषु तामसाः ३३।
तेषां मतमधिष्ठाय सर्वे दैत्याः सनातनाः ।
भवेयुस्ते मद्विमुखाः क्षणादेव न संशयः ३४।
अहमप्यवतारेषु त्वां च रुद्र महाबल ।
तामसानां मोहनार्थं पूजयामि युगे युगे ३५।
मतमेतदवष्टभ्य पतंत्येव न संशयः ।
महादेव उवाच-।
तच्छ्रुत्वाहं यथोक्तं तु वासुदेवेन भामिनि ३६।
सुमहद्वदनो दीनो बभूवात्र वरानने ।
नमस्कृत्वाथ तं देवमब्रवं परमेश्वरम् ३७।
त्वयोदितमिदं देव करोमि यदि भूतले ।
तस्मान्नाशाय मे नाथ भविष्यति न संशयः ३८।
तत्र शक्यं मया कर्तुमेतत्कृत्यं हरेऽधुना ।
त्वदाज्ञापि च नोल्लंघ्या एतद्दुःखतरं महत् ३९।
एवमुक्ते ततो देवि समाश्वास्य च मां पुनः ।
आत्मनाशाय तेनात्र भवत्वित्याह मां हरिः ४०।
देवतानां हितार्थाय कुरुष्व वचनं मम।
तवापि जीवनोपायं कथयामि सुरोत्तम ४१।
दत्तवान्कृपया मह्यमात्मनाम सहस्रकम् ।
हृदये मां समाधाय जप मंत्रं ममाव्ययम् ४२।
षडक्षरं महामंत्रं तारकं ब्रह्म उच्यते ।
ये जपंति हि मां भक्त्या तेषां मुक्तिर्न संशयः ४३।
इंदीवरदलश्यामं पद्मपत्रविलोचनम् ।
शंखांगशार्ङ्गेषुधरं सर्वाभरणभूषितम् ४४।
पीतवस्त्रं चतुर्बाहुं जानकीप्रियवल्लभम् ।
श्रीरामाय नम इत्येवमुच्चार्य्यं मन्त्रमुत्तमम् ४५।
सर्वदुःखहरं चैतत्पापिनामपि मुक्तिदम् ।
इमं मंत्रं जपन्नित्यममलस्त्वं भविष्यसि ४६।
भस्मास्थिधारणाद्यत्तु संभूतं किल्बिषं त्वयि ।
मंगलं तदभूत्सर्वं मन्मंत्रोच्चारणाच्छुभात् ४७।
तर्पितो नाशयिष्यामि पापं सर्वं सुरोत्तम ।
मदन्यदेवताभक्तिर्जायते न तु सुव्रत ४८।
मनसैवार्च्चय हृदि मां नाथं पुरुषोत्तमम् ।
मदाज्ञां कुरु मत्प्रीत्या सर्वमेतच्छुभं तव ४९।
इति संदिश्य मां देवि विससर्ज मरुद्गणान् ।
विसृष्टास्ते ततो देवा निवृत्ताः स्वाश्रमं ययुः ५०।
ततो मां प्रार्थयामासुर्देवा इंद्र पुरोगमाः ।
इन्द्रादय ऊचुः ।
शीघ्रं कुरु हितं देव यथोक्तं हरिणाधुना ५१।
महादेव उवाच-
देवतानां हितार्थाय वृत्तिं पाखंडिनां शुभे ।
कपालचर्मभस्मास्थिधारणं तत्कृतं मया ५२।
तामसानि पुराणानि यथोक्तं विष्णुना शुभे ।
पाषंडशैवशास्त्राणि यथोक्तं कृतवानहम् ५३।
मच्छक्त्यापि समाविश्य गौतमादि द्विजानपि ।
वेदबाह्यानि शास्त्राणि सम्यगुक्तं मयानघे ५४।
इमं मतमवष्टभ्य दुष्टाः सर्वे च राक्षसाः ।
भगवद्विमुखाः सर्वे बभूवुस्तामसावृताः ५५।
भस्मादिधारणं कृत्वा महोग्रतपसावृताः ।
मामेव पूजयांचक्रुर्म्मांसासृक्चंदनादिभिः ५६।
मत्तो वरप्रदानानि लब्ध्वा मदबलोद्धताः ।
अत्यंतविषयासक्ताः कामक्रोधसमन्विताः ५७।
सत्वहीनास्तु निर्वीर्य्या जिता देवगणैस्तदा ।
सर्वधर्म्मपरिभ्रष्टाः काले यांत्यधमां गतिम् ५८।
ये मे मतमवष्टभ्य चरंति पृथिवीतले ।
सर्वधर्मैश्च रहिताः पश्यंति निरयं सदा ५९।
एवं देवहितार्थाय वृत्तिर्मे देवि गर्हिता ।
विष्णोराज्ञां पुरस्कृत्य कृतं भस्मास्थिधारणम् ६०।
बाह्यचिह्नमिदं देवि मोहनार्थाय विद्विषाम् ।
अथांतर्हृदये नित्यं ध्यात्वा देवं जनार्दनम् ६१।
जपन्नेव च तन्मंत्रं तारकं ब्रह्मवाचकम् ।
सहस्रनामसदृशं विष्णोर्नारायणस्य तु ६२।
षडक्षरं महामंत्रं रघूणां कुलवर्द्धनम् ।
जपन्वै सततं देवि सदानंदसुधाप्लुतम् ।
सुखमात्यंतिकं ब्रह्म ह्यश्नाम सततं शुभे ६३।
एतत्ते सर्वमाख्यातं त्वयापृष्टं शुभानने ।
किमन्यच्छ्रोतुकामासि प्रीत्या तत्परिपृच्छ माम् ६४।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे पाषंडोत्पत्तिवर्णनंनाम पंचत्रिंशदधिकद्विशततमोऽध्यायः २३५।