पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २१८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः २१७ पद्मपुराणम्
अध्यायः २१८
वेदव्यासः
अध्यायः २१९ →

नारद उवाच-
भूयः शृणु महाभाग माहात्म्यं परमाद्भुतम् ।
अत्रस्थितस्य तीर्थस्य पुष्करस्य शिवप्रदम् १।
प्रसादात्तस्य तीर्थस्य विष्णुः सर्वसुरेश्वरः ।
प्रसन्नं पुंडरीकस्य मासमेकं गृहे वसेत् ।
अत्र मुक्तिं तदनुजो लेभे पापरतोऽपि हि २।
शिबिरुवाच-
कः पुंडरीको धर्मात्मा कृतं तेन च कर्म्म किम् ।
येन प्रसन्नो भगवांस्तद्गृहे मासमावसत् ३।
कथं तदनुजः प्राप पापात्मा श्रीहरेः पदम् ।
तीर्थस्यास्य प्रसादेन सर्वमाख्याहि मे मुने ४।
शृण्वतोऽस्य न संतोषो माहात्म्यं मम जायते ५।
नारद उवाच-
विदर्भनगरे राजन्मालवाख्ये महायशाः ।
ब्राह्मणो ब्रह्मविच्छांतो विद्वान्विष्णुपरायणः ६।
देवर्षिपितृभूतानां मानुषाणां च पोषकः ।
विषयेषु न संसक्तो लोभमोहादिवर्जितः ७ ।
स एकदा महाभाग सिंहं प्राप्ते बृहस्पतौ ।
गोदावरीं महापुण्यां स्नातुं प्रतिजगाम ह ८।
दातुं तत्र सुवर्णस्य गृहान्निन्ये पलायुतम् ।
गच्छन्पथि स धर्मात्मा मनसैतदचिंतयत् ९।
मालव उवाच-
गृहाद्दानार्थमानीतं मया हेमपलायुतम् ।
यस्मै कस्मै न दातव्यं दातव्यं पूज्य साधवे १०।
निष्किंचनाय विप्राय पात्रायानुपकारिणे ।
पूज्याय देशे काले च दत्तमक्षयतां व्रजेत् ११।
उञ्छवृत्त्या समानीतं दत्त्वा दुर्वाससे मुनिः ।
शिलोंच्छवृत्तिर्धर्मात्मा स्वं त्यक्त्वा गात्परं पदम् १२।
दानवेंद्रो बली राजा पात्रं विज्ञाय वामनम् ।
विपक्षायाप्यदात्तस्मै त्रिलोकीं स्वभुजार्जिताम् १३।
तस्मात्पात्राय दातव्यं धनं धर्म्माजितं मया ।
गोविंदतुष्टये सम्यक्वांच्छनीयं न तत्फलम् १४।
पुंडरीकस्तु धर्मात्मा भागिनेयो गजाह्वयात् ।
आयास्यति मयाहूतः सर्वपात्रशिरोमणिः १५।
आनीतस्य धनस्यार्द्धं तस्मै पात्राय सूनवे ।
स्वसुर्द्दास्यामि शेषं तु श्रोत्रियेभ्यो यथाविधि १६।
नारद उवाच-
एवं विचिंत्य धर्मात्मा मालवं स द्विजोत्तमः ।
कतिचिद्वासरैः प्राप्तः पुण्यां गोदावरीं नृप १७।
मिलितस्तस्य धर्मात्मा पुंडरीकः स्वसुः सुतः ।
तस्य वै पूर्वमायातो मालवस्य महीपते १८।
स तत्र विधिना स्नात्वा सिंहसंक्रमवासरे ।
पुंडरीकाय वित्तार्द्धं ददौ मे प्रीयतां हरिः १९।
पुंडरीकोऽपि धर्मात्मा स्नात्वा गोदावरीजले ।
स्ववित्तस्य चतुर्थांशं श्रोत्रियेभ्यो ददौ मुदा २०।
स तत्र विधिवत्स्नात्त्वा दत्वा दानं च शक्तितः ।
गच्छंतं स्वगृहान्राजन्नित्युवाच स्वसुः सुतम् २१।
मालव उवाच-
गुरून्प्रति नमस्कारो वाच्यो आशीर्लघून्प्रति ।
यथावयोर्हि संयोगः क्षणिकोऽयं बभूव ह २२।
एवं हि सर्वजंतूनां पुत्रदारादिभिः सह ।
तस्मात्क्षणिकसंयोगात्संसाराद्यः सुधीर्नरः २३।
विरज्येत कृपापात्रं स हरे स्याद्विनिश्चितम् ।
कृपातः श्रीहरेः प्राणी सत्संगमरतो भवेत् २४।
तस्तस्य हरेर्लीलाश्रवणेच्छा हि जायते ।
श्रुत्वा च कीर्तिता सद्भिर्हरिलीला अपि स्वयम् २५।
सुस्पृहं कीर्त्तयत्येव ततः स्मरति केवलम् ।
ततस्तस्य भवेत्प्रेमगोविंदपदसेवने २६।
नरस्ततस्तरत्याशु पोतेनेव महार्णवम् ।
एतदर्थं हि साधूनां ज्ञानिनां कर्मणां तथा ।
यत्नो भवति धर्मात्मन्नपि त्वं यत्नवान्भव २७।
नारद उवाच-
एवमुक्त्वा स वैदर्भः सुतं कथमपि स्वसुः ।
विसृज्याश्रुमुखो वाष्पपर्याकुलदृशं ययौ २८।
पुंडरीकोऽपि धर्मात्मा चचाल स्वगृहं प्रति ।
कतिभिर्वासरै राजन्नागतोऽत्र शुभास्पदे २९।
भरताख्यं कनीयांसं भ्रातरं पतितं भुवि ।
श्वसंतं क्षतनिर्गच्छद्रुधिराक्तमवैक्षत ३०।
पप्रच्छ च रुदन्नुर्च्च्भ्रातः केनेदृशीं दशाम् ।
गमितोसि किमर्थं वा गृहादिह समागतः ३१।
इति पृच्छति राजेंद्र पुंडरीके सपीडया ।
महत्या भरतः सद्यः पीडितोसूनमुंचत ३२।
अवातरत्तदा यानमेकं सगणमद्भुतम् ।
आकाशात्पश्यतां भूप जनानां तद्गुरोरपि ३३।
तदारुह्य स दिव्यांगो भरतः पापकार्यपि ।
उवाच वचनं ज्येष्ठं भ्रातरं विनमन्निदम् ३४।
भरतोवाच-
पुंडरीक महाबुद्धे तीर्थस्यास्य प्रसादतः ।
पुष्करस्य मया प्राप्ता पापिनापि दिवि स्थितिः ३५।
मदीयं दारुणं कर्म भ्रातर्जानासि यद्यपि ।
तथापि कथयाम्यद्य किंचिदज्ञातमस्ति ते ३६।
यथा मया प्रभावत्या वेश्यया रमितं सह ।
तद्गृहं व्ययितं भूरि धनं च मदिराकृते ३७।
द्यूतेन हारितं यच्च चौरकर्मसमार्जितम् ।
शिवरात्र्यां मया शंभुनिर्माल्यं यच्च भक्षितम् ३८।
यत्कृते भवता विप्रो जेबुको नाम दूषितः ।
एतन्मया कृतं कर्म्म विदितं पुंडरीक ते ३९।
गोदावरीं गते भ्रातस्त्वयि यत्कृतवानहं ।
न तत्ते विदितं कर्म कथयामि तदप्यहो ४०।
चलितेत्वय्यतिक्रांतोयदापक्षस्तदाह्यहम् ।
श्रुतवानिति लोकेभ्यो वचनं हरिदुःसहम् ४१।
पुंडरीको धनं दातुमाहूतो मातुलेन हि ।
निजसोदरमाहत्य पुंडरीकं तदा हृतम् ४२।
गृहीष्यामि धनं भूरि मालवेन समर्पितम् ।
महता वसुना तेन तोषयामि प्रभावतीम् ४३।
दुरोदरेण क्रीडामि स्वेच्छया तद्विदैः सह ।
इत्यालोच्य त्वदध्वानं निरुध्याहमिह स्थितः ४४।
हत्वा त्वां च धनं भूरि गृहीतुं च महामते ।
अतिक्रांते धने भ्रातः कुतश्चित्सार्थमागतः ४५।
वणिजामत्र सुप्तोऽहं रात्रौ तत्र महामते ।
अथ कश्चिन्निशीथे तु तस्करो वणिजां धनम् ४६।
हर्तुं तत्र समाविष्टः सार्थे जनसमाकुले ।
नीत्वा यदा धनं किंचित्स चौरस्तु पलायितः ।
तमन्वधावन्सहसा क्रोशंत इव सेवकाः ४७।
सेवका ऊचुः ।
गृह्यतां गृह्यतामेष चौरोऽयं याति सत्वरम् ।
मध्याद्बहूनामस्माकमपहृत्य धनं बहु ४८।
भरत उवाच-
इत्याकर्ण्य वचस्तेषां पुरतस्तु तमन्वहम् ।
अधावं सहसा भ्रातस्तद्गृहीतुं जिहीर्षया ४९।
ततस्ते वणिजां भृत्या ज्ञात्वा मां तस्य रक्षकम् ।
प्रजहुस्तरसा सर्वे सखड्गं खड्गपाणयः ५०।
तेषु कश्चिद्द्विजश्रेष्ठो ब्राह्मणोऽहमिति ब्रुवन् ।
खड्गेन शितधारेण मया पापीयसा हतः ५१।
वणिजां सेवकैस्तैस्तु खड्गधारैरहं हतः ।
गतास्ते वणिजः प्रातर्निजगंतव्यनीवृतम् ५२।
ततो भवानिह प्राप्तः श्वसंतं मां ददर्श ह ।
चलद्रुधिरलिप्तांगं पीडामोहविचेतनम् ५३।
इत्येतत्कथितं भ्रातर्यदर्थमहमागतः ।
अपमृत्युं यथा प्राप्तस्तच्चापि कथितं मया ५४।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कालिंदीमाहात्म्येऽष्टादशाधिकद्विशततमोऽध्यायः २१८ ।