पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २१९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २१८ पद्मपुराणम्
अध्यायः २१९
वेदव्यासः
अध्यायः २२० →

नारद उवाच-
इत्याकर्ण्य वचस्तस्य पुंडरीको महामनाः
उवाच निजबंधुं तं शृण्वतां निजसंगिनाम् १
पुंडरीक उवाच-
केन पुण्येन तीर्थेऽस्मिन्मृत्युर्भरत तेऽभवत्
यदि जानासि तद्ब्रूहि पापं विख्यातमेव ते २
भरत उवाच-
पुंडरीक शृणुष्वेदं कथयामि तवाग्रतः
एतत्तीर्थप्रदं पुण्यं कृतं यदिह जन्मनि ३
एकदा तु धनं जित्वा समागच्छन्निजं गृहम्
अपश्यं मृतकं बालं मृतस्यानाथमापणे ४
निधाय तमहं मूर्ध्नि नीत्वा गंगातटे शुभे
वस्त्रादिभिरलंकृत्य चक्रे दाहादिसत्क्रियाम् ५
द्यूतेनोपार्ज्जितं द्रव्यं तत्सर्वं व्ययितं मया
तेन पुण्येन प्राप्तं मे तीर्थमेतच्छुभावहम् ६
कुरु त्वं मम देहस्य संस्कारं दाहपूर्वकम् ७
श्रीनारद उवाच-
संस्कारे विहिते राजन्भरतः पापवानपि
तीर्थस्यास्य प्रसादेन पुष्करस्य गतो दिवि
मासमेकं यथा विष्णुः पुंडरीकगृहे हरिः ८
उवासास्य प्रसादेन तीर्थस्य शृणु सांप्रतम्
अत्र तीर्थे स धर्मात्मा भरतस्यापि सद्गतिम्
दृष्ट्वेति हृदये मेने तीर्थमेतत्तु कामदम् ९
अत्रेति वांच्छया सस्नौ पुंडरीकः स पंडितः
माघमासं स्वरूपेण हरिर्वसतु मे गृहे १०
एवं स्नात्वा स कामेन ययौ निजगृहं प्रति
तीर्थेऽत्र नृपतिश्रेष्ठ पुंडरीकोऽखिलार्थदे ११
बंधुभ्यो मरणं भ्रातुर्भरतस्य जगाद ह
तेपि श्रुत्वा शुचं चक्रुर्माययावृतबुद्धयः १२
पुंडरीकस्तदा कुर्वन्गृहे स्वस्मिन्निजक्रियाः
उवासेति महानंदस्तपस्यायास्यते हरिः १३
पूर्णिमायामथो पौष्यां चक्रे स परमोत्सवम्
मत्वेति श्वो गृहे मह्यं हरिरायास्यति ध्रुवम् १४
श्रीखंडजलसेकेन गोमयालेपनेन च
मुक्ताचूर्णचतुष्केन समस्कुरुत केतनम् १५
शतद्वयं ब्राह्मणानां नानाभोज्यैरभोजयत्
वह्वीभिर्दक्षिणाभिश्च तानेव समतोषयत् १६
नानावादित्रकुशलैः कलकंठैश्च गायनैः
रजन्यां स्वजनैर्गायंश्चक्रे जागरणं तथा १७
अथ प्रभाते तान्सर्वान्गायनादीन्विसृज्य सः
गोविंदागमनाकांक्षी गृहमध्ये उपाविशत् १८
अथ तस्य गृहाभ्यासे निवर्त्य निजवाहनम्
प्राविशद्गृहमध्ये तु कर्तुं स्वजनवांछितम् १९
स पुंडरीकस्तं दृष्ट्वा माधवं समुपागतम्
उत्थायासनतस्तूर्णं ववंदे शिरसा नृप २०
उवाच च स धर्म्मात्मा गोविंदालोकनिर्वृतः
संपूज्यार्घादिदानेन विष्टरे तं निवेशितम् २१
पुंडरीक उवाच-
भवता भव तापघ्नं सुस्पष्टं तदनुष्ठितम्
तावदत्र त्वया विष्णो स्थीयतां स्थितिकारिणा २२
यावदस्य पुनीतस्य समाप्तिस्तपसो भवेत्
यत्र त्वं सेवकास्ते च वसंति परिचर्यया २३
तत्रैव खलु वैकुंठं सर्वदोषविवर्जितः
यद्गृहे तव कर्माणि वर्ण्यं ते साधुभिर्विभो २४
हरिर्निवसते तत्र सन्मुखादिति नः श्रुतम्
येषां वचसि ते नाम हृदि रूपं च सुंदरम् २५
कर्णयोश्च गुणारोपस्त एव खलु साधवः
भवतो भवते स्वांतं येषां शुश्रूषणे विभो २६
उत्तमांगे च निर्माल्यं त एव खलु साधवः
येषां तु बुद्धिः शत्रौ च मित्रे च कमलापते २७
चयापचययोश्चैव त एव खलु साधवः
येषां विकुरुते चेतो न विकारस्य कारणे २८
संति लक्ष्मीपते नूनं त एव खलु साधवः
यत्र त्वं साधवस्तत्र संतो यत्र ततो भवान्
भवानतो विज्ञाय तां साधुं माघे मम गृहे वस २९
नारद उवाच-
इत्याकर्ण्य वचस्तस्य पुंडरीकस्य माधवः
उवाच वचनं भासादंतानां भासयन्दिशः ३०
श्रीभगवानुवाच-
साधूनामुत्तमः साधुस्त्वं पृथिव्यां महामते
यत्त्वया पुण्यतीर्थे तु स्नातं मत्संगवांछया ३१
उत्तिष्ठ जाह्नवीतोय माघे स्नानं कुरु द्विज
माघांते स्नापयामि त्वां पूर्णिमायां तु पुष्करे ३२
प्रयागे माघमासे तु पूर्णं यत्स्नानजं फलम्
तत्सर्वं पुष्करे तीर्थे दिनैकस्नानतो भवेत् ३३
नारद उवाच-
एवमुक्तः स विप्रेंद्रः पुंडरीको मुरारिणा
किंचिदभ्युदिते सूर्ये स्नानं गंगाजलेऽकरोत् ३४
प्रत्यक्ष पुंडरीकाक्ष पुंडरीकः समर्चयत्
तुलसीविकसत्पुष्पयवकुंकुमचंदनैः ३५
धूपैरगरुजैरंगवासितांगं रमापतिम्
नीराजयति कर्पूरदीपकैः पंचभिः स्म सः ३६
चतुर्विधमयैर्भोज्यैर्भोजयित्वा जगद्गुरुम्
सुप्तं स मणिपर्यंके चामरैस्तमवीजयत् ३७
पादसंवाहनं जातु चक्रे तस्य रमापतेः
जातकर्पूरसंयुक्तं ददौ तांबूलवीटकम् ३८
उष्णीषं बध्नतस्तस्य श्रीपतेः पुरतस्तदा
तस्थौ जातु स विप्रेंद्रः करेणानीय दर्पणम् ३९
एवं निजगृहे तस्य वसतः स भवच्छिदः
सपर्यां विदधद्विप्रो माघं निन्ये स मस्तकम् ४०
अथ माघावसाने तु पूर्णिमायां रमापतेः
स्मृतिमात्रागतं तार्क्ष्यमपश्यत्पुरतः स्थितम् ४१
तं दृष्ट्वा पुंडरीकाक्षः पुंडरीकमुवाच ह
श्रीभगवानुवाच-
श्रूयतां भो द्विजश्रेष्ठ यद्वचोऽहं वदामि ते ४२
इंद्रप्रस्थगते तीर्थे पुष्करे ते यदृच्छया
स्नानायते मया दत्तं यन्मासमुषितं मया ४३
अद्यपक्षींद्रमारुह्य मया सह महामते
व्रज तीर्थशिरोरत्नं तदेव प्रति पुष्करे ४४
चतुर्वर्गप्रदे तस्मिन्स्नानं कुर्वन्यदीच्छसि
तदहं ते प्रदास्यामि यदहं तद्वशे द्विज ४५
पापोऽपि भरतस्ते वै भ्राता यत्र मृतो गतः
स्वर्गं स्वर्गसुखाकांक्षी किमन्यत्तस्य वर्ण्यते ४६
नारद उवाच-
एवमुक्त्वा स देवेंद्रो ब्राह्मणेंद्रं नरेंद्र तम्
पतगेंद्रं समारोप्य सर्वतीर्थेंद्रमागमत् ४७
पुंडरीकस्य देहात्तु तेन तत्प्राणवायुना
समं ज्योतिः स निर्गत्य गोविंदपदमाविशत् ४८
एवं पुष्करतीर्थेऽस्मिन्निंद्रप्रस्थगते नृप
स्नानेन पुंडरीकस्तु लेभे सायुज्यमीश्वरे ४९
एवं तीर्थानुरोधेन गोविंदोऽपि च तद्गृहे
मासमेकं सुखं राजन्नुवास निजबंधुवत् ५०
केन वर्णयितुं शक्यो महिमा पुष्करस्य वै
शक्रप्रस्थगतस्यास्य कोट्यंशो वर्णितो मया ५१
माहात्म्यश्रवणादस्य श्रद्धया लभते नरः
अश्वमेधक्रतुफलं पठनादपि भूपते ५२
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये पुष्करमहिमावर्णनोनामैकोनविंशाधिकद्विशततमोऽध्यायः २१९