पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०७४

विकिस्रोतः तः
← अध्यायः ०७३ पद्मपुराणम्
अध्यायः ०७४
वेदव्यासः
अध्यायः ०७५ →

महादेव उवाच-
शृणु देवि प्रवक्ष्यामि धर्ममाहात्म्यमुत्तमम् ।
यच्छ्रुत्वा न पुनर्जन्म जायते भुवि कर्हिचित् १।
धर्मादर्थं च कामं च मोक्षं चैतत्त्रयं लभेत् ।
तस्माद्धर्मं समीहेत विद्वान्यः स बुधः स्मृतः २।
तपसा चैव दानेन व्रतेन नियमेन च ।
तपसा प्राप्यते स्वर्गः सात्विकेन तथैव च ३।
इहायातो लभेद्राज्यं क्रोधलोभविवर्जितः ।
जन्मांतरेण मुक्तिः स्यात्पदं विंदति वैष्णवम् ४।
तपसा राजसेनेह राजसश्चैव जायते ।
तप्त्वा तामसभावेन क्रूरकर्मा हि निष्ठुरः ५।
तपस्तद्रक्षसां चोक्तं भुक्तिदं तामसात्मनाम् ।
यत्तप्तं सात्विकं चैव तत्तपो भवति ध्रुवम् ६।
रजस्तमोभ्यां नियतं तपस्यां वने सतां वायुभुजां सुनिर्जने ।
तपस्विनां चैव धनादिवांच्छतां वनेऽपि दोषाः प्रभवंति रागिणाम् ७।
गृहेऽपि पंचेंद्रियनिग्रहस्तपस्त्वकुत्सिते कर्मणि यः प्रवर्त्तते ।
निवृत्तरागस्य तपोवनं गृहं गृहाश्रमोऽतो गदितः स्वधर्मः ८।
सुदुस्तरः सत्वजितेंद्रियाणां संहन्यते श्रेष्ठतमः शुभाश्रमः ।
गृहस्तु धर्मः प्रवरो मनीषिणां ब्रह्मादिभिश्चाभिहितो नगात्मजे ९।
तप्त्वा तपस्वी विपिने क्षुधार्तो गृहं समायाति सदान्नदातुः ।
भक्त्या स चान्नं प्रददाति तस्मै तपोविभागं भजते हि तस्य १०।
गृहाश्रमं ज्येष्ठमिहाश्रमाणां सम्यक्च यः पालयते मनुष्यः ।
इहैव भुंजन्समनुष्यभोगान्स्वर्गं प्रयातीति न संशयोऽत्र ।
गृहं सदा पालयतां नराणां पापं समायाति कथं हि देवि ११।
गृहाश्रमः पुण्यतमः सर्वदा तीर्थवद्गृहम् ।
अस्मिन्गृहाश्रमे पुण्ये दानं देयं विशेषतः १२।
देवानां पूजनं यत्र अतिथीनां च भोजनम् ।
पथिकानां च शरणं अतो धन्यतमो मतः १३।
तद्गृहं तु समाश्रित्य येऽर्चयंति द्विजान्नराः ।
आयुर्लक्ष्मीस्तथा पुत्रा न हीयंते कदाचन १४।
शृणु सुंदरि वक्ष्यामि महापापविशोधनम् ।
सर्वसंपत्करं दानं इहामुत्रफलप्रदम् १५।
शुभेकाले समायाते समभ्यर्च्य स्वदैवतम् ।
नित्यं नैमित्तकं कृत्वा दद्याद्दानं स्वशक्तितः १६।
गृहीत्वा परद्रव्यं च द्विजदेवेभ्य एव हि ।
दद्यात्स निरयं दृष्ट्वा पश्चाद्याति परां गतिम् १७।
शतानीको यथा दानात्सपुत्रश्चैव तारितः ।
दत्त्वान्ये च द्विजेभ्यश्च स गंता धर्मतो दिवम् १८।
धर्मस्थानेषु यैर्दत्तं तेषां धर्ममुदाहृतम् ।
शृणु देवि प्रवक्ष्यामि वित्तदानं समासतः १९।
देहशुद्धिकरं दानं न भूतं न भविष्यति ।
पापहीनो येन पुमान्जायते नात्र संशयः २०।
भोगान्भुक्त्वा ततश्चायं याति विष्णुं सनातनम् ।
पुरा वै ब्रह्मणा प्रोक्तं भार्गवाय महात्मने २१।
पापयुक्ताय रामाय तुलावृषभमेव च ।
पापकर्मरतश्चैव भवबंधक्रियो नृपः २२।
अभक्षभक्षणरता भ्रूणहा गुरुतल्पगः ।
एतेप्यनृतवादी च प्रसूयंते वियोनिषु २३।
अयाज्ययाजनं कृत्वा याचयित्वा तु निंदितान् ।
सदा कोपसमायुक्ताः साधूनां पीडने रताः २४।
विश्वासोपहताश्चैषामसुभिर्धर्मनिंदकाः ।
पापैरेभिः समायुक्ता ज्ञात्वात्मानं गतायुषम् २५।
इति ज्ञात्वा तु तैर्देवि दानं देयं विशेषतः ।
बहवो धर्मकर्त्तारो वैष्णवा भुवि विश्रुताः २६।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे दानधर्मोनाम चतुःसप्ततितमोऽध्यायः ७४।