पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०१८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०१७ पद्मपुराणम्
अध्यायः ०१८
वेदव्यासः
अध्यायः ०१९ →

श्रीनारद उवाच-
अथ जालंधरः प्राह रक्षात्मानमितः शिवम्
शिवाद्य त्वां क्षिपाम्याशु यत्रास्ते मधुसूदनः १
पश्चाद्ब्रह्माणमाकृष्य पातयिष्यामि सागरे
धृतेषु युष्मासु यदा तदा सर्वेश्वरो ह्यहम् २
इत्युक्त्वा सैन्यसंभारं न्यस्य शुंभासुरादिषु
भटैर्गुप्तं निशुंभाद्यैश्चतुरंगमनंतकम् ३
शुंभो निशुंभः फेंकारो फेरुंडो धूम्रलोचनः
केतुर्बिडालजंघश्च राहुर्दुर्वारणो यमः ४
कालासुरोऽथ लवणो भूमिरेतोंधकासुरः
रक्तवीर्यादयश्चंडी चामुंडी दैत्यपुंगवाः ५
सर्वानेवोद्यतान्दृष्ट्वा संख्ये दानवपुंगवान्
रुरुधुः समरे राजन्वीरभद्रादयो गणाः ६
ततो युद्धमभूद्धोरं तुमुलं लोमहर्षणम्
पतंति प्रथमा यत्र दैत्याश्चापि क्षतातुराः ७
अथ शुंभादिभिर्दैत्यैः सर्वशस्त्रैर्महामृधे
हताः पेतुर्गणाश्चान्ये पलायांचक्रिरे नृप ८
गणान्विजित्य समरे रुरुधुर्दानवाः शिवम्
वर्षंतः शरधाराभिर्घना मेरुगिरिं यथा ९
ततः पिनाकमाकृष्य वृषभोपरि भैरवः
जघान बाणनिवहैर्दानवान्समरांगणे
तीक्ष्णाग्रैस्तु क्षुरप्रौघैर्दानवानहनद्बली १०
केचिन्नंदिप्रहारेण पेतुः संग्राममूर्धनि
बाणैश्च जर्जरान्कृत्वा शुंभादीन्वृषभध्वजः ११
शेषं सैन्यं जघानाशु शस्त्रास्त्रैः समरांगणे
गजैर्नरैर्हयैर्व्याप्तं पतितैः समरांगणम् १२
बभूव वज्रनिर्भिन्नैः पर्वतैरिव भूतलम्
अथ मायामयीं गौरीं विदधे सिंधुनंदनः १३
सौंदर्यगुणसंपन्नां सर्वालंकारभूषिताम्
जयां मायामयीं कृत्वा समुवाचाब्धिनंदनः १४
गच्छ त्वं पुरतो रुद्रं विमोहय रणे द्रुतम्
इत्युक्त्वा दैत्यपतिना ययौ मायामयी जया १५
रणे गत्वा शिवस्याग्रे मुक्तकेशी रुरोद ह
पृष्टा हरेण सा प्राह मानसोत्तरपर्वतात् १६
हृता तव प्रिया देव पार्वती सिंधुसूनुना
श्रुत्वेति वचनं तस्यास्तामुवाच वृषध्वजः १७
जये त्वमेहि वृषभं त्वां हरिष्यंति दानवाः
ततो वृषभमारुह्य जया चालिंग्य शंकरम् १८
प्राह प्रयामि पार्वत्या न जीवामि विना हर
चंद्रं शंभुजटाविष्टं गृहीत्वा वृषभाद्द्रुतम् १९
अवारोहत सा माया मायाष्वक्तो रणं ययौ
ततो गौरीं हृतां श्रुत्वा चिंतयामास शंकरः २०
दैत्यमायापरिष्वक्तो नात्मानं बुबुधे नृप
एतस्मिन्नंतरे प्राप्तः सैन्येन महता वृतः २१
मायामृडानीं स्वरथे निधायार्णवजः शिवम्
जालंधरजये तद्वदासीद्वादित्रनिस्वनः २२
चचाल वसुधा येन प्रतिनेदुर्महीधराः
हरस्य दर्शयामास पार्वतीं सिंधुनंदनः २३
रुद्रोऽप्यरिरथस्थां तां ददर्श निजवल्लभाम्
वियोगविधुरां दीनां तन्वीमातुरलोचनाम् २४
हा नाथ प्रिय रुद्रेति प्रजल्पंतीं पुनः पुनः
प्रौढवैरिरथे दृष्ट्वा पाखंडिस्थां यथा श्रुतिम् २५
गौरीं दध्यौ तथा स्थाणुः कथं प्राप्या प्रिया मया
विललाप ततः शंभुर्दैत्यमायाविमोहितः २६
मोहो मे दानवैः कांते हृतासि त्वां कथं प्रिये
शोकमोहप्लुतं दृष्ट्वा शंकरं सागरात्मजः २७
जगाद प्रहसन्वाक्यं कश्चित्कारुण्यवान्यथा
सर्वप्रमाणशून्योऽसि स्मर शृंगारवर्जितः २८
ईश्वरोऽपि वराकस्त्वं संजातोंबिकया विना
मा रोदीर्हि विरूपाक्ष ददामि तव वल्लभाम् २९
रक्षितोऽसि मया रुद्र गृहीत्वा पार्वतीं रणात्
इत्युक्त्वा गिरिशं तूर्णमुत्तार्य स्वरथादुमाम् ३०
सैन्यं संप्रेषयामास शंकराभिमुखं किल
हरोऽपि वृषभेणाशु तत्सैन्यं समधावत ३१
गृहीतुं पार्वतीं पाहि त्राहित्राहीति जल्पतीम्
यावद्गृह्णाति तां गौरीं करेण वृषभध्वजः ३२
तावच्छुंभासुरः शीघ्रं गृहीत्वा चांबरे स्थितः
शूलं मुमोच बलवान्हंतुं शुंभासुरं हरः ३३
शुंभेन सा परित्यक्ता शूलोपरि पपात ह
रुदंती चारुसर्वांगी त्यक्ता शूलेन संयुता ३४
पतिता शंकरस्याग्रे तथेत्युक्त्वा ममार च
मायागौरीं मृतां दृष्ट्वा शोकमोहपरिप्लुतः ३५
हा प्रियेति रुदन्रुद्रः पपात भुवि मूर्च्छितः
क्षणं संज्ञामवाप्याथ रणभूमावुमापतिः
शशाप शुंभप्रमुखान्गौरी युष्मान्हनिष्यति ३६
नारद उवाच-
अथ शुंभादयो दैत्या रणे देव्या निपातिताः
महेश्वरस्य शापेन गते मंन्वतरे नृप ३७
शपित्वा तान्रुरोदाथ जल्पन्निर्गत्य शंकरः
क्व गतासि प्रियेत्युक्त्वा दुःखितं मां रणांगणे ३८
रतिं त्यक्त्वा वियोगार्तः श्रीकंठोऽहं त्वया कृतः
वासुदेवोऽपि मां त्यक्तं न जानाति त्वया प्रिये ३९
यज्ञे दक्षस्याग्निकुंडे शिरो देवि हुतं त्वया
भूयो हि भवती लब्धा कथं त्यजसि मां पुनः ४०
उतिष्ठोतिष्ठ चार्वंगि गिरिजे मां प्रबोधय
अत्रांतरे शिवं ज्ञात्वा दैत्यमायाविमोहितम् ४१
देवतागणमध्यस्थो ह्यंतरिक्षादुपागमत्
विलपंतमुवाचेदमदृश्यः कमलासनः ४२
ब्रह्मोवाच-
त्वं शोकमोहपितृमातृविवर्जितोऽसि दुःखं सुखं सुतकलत्ररिपुर्न चास्ति
जातोऽसि नैव जनकेन जनिष्यमाणस्त्वं मन्यसे ऋषिगणैश्च कुतो विमोहः ४३
एकोऽसि नाथ बहुधा कृतविग्रहोऽसि सूर्यो यथा जलधिवीचिषु दृश्यमानः
ध्यानेन यांति यमिनस्तव पादमूलं रूपं परं दुरवबोधमवाच्यमेव ४४
नैषा प्रिया तव समानतया विपन्ना जालंधरेण रचितां जहि देव मायाम्
सा पार्वती कमलकोशगता हि शंभो युद्धस्व वैरिनिवहं जहि पाहि चास्मान् ४५
श्रुत्वेति ब्रह्मणो वाक्यमवबुद्धो महेश्वरः
ज्ञात्वा तां दानवीमायां मुमोच महती शिलाम् ४६
तया जघान समरे दैत्यकोटिशतत्रयम्
ततो वृषभमारुह्य क्रोधेन महता नृप ४७
धनुः पिनाकं युद्धाय धूर्जटिर्जगृहे शरान्
अथ मायापरित्यक्तं शर्वमालोक्य सिंधुजः ४८
सुरेशमोहनं मायाजालमत्यद्भुतं नृप
अन्यदाविश्चकाराशु भृशं मायामहाबलम् ४९
जालंधरः कोटिभुजो बभूव वृक्षास्त्रशस्त्रैर्युयुधे वृषांकम्
अथांतराले पृथिवीं चकार समुद्रसूनुर्गिरिधातुमंडिताम् 6.18.५०
देवतायतनै रम्यैर्नानापुष्पसमाकुलैः
मंडितां नृप भूमिं च चकारोदधिनंदनः
नृत्यंति यत्राप्सरसो मेनकाद्या मनोहरा ५१
विस्मृत्य शंभुस्तदपास्यकार्मुकं सद्यः प्रतस्थे वृषभोपरि स्थितः
वादित्रगीतैर्भुवि मोहितो भृशं दैत्येंद्रमायामय तांडवेन सः ५२
विमोहितं वीक्ष्य वृषस्थितं हरं नित्यं समुद्रः सह तांडवेन
गीतेन वाद्येन च नृत्यलीलया ननाद रूपी तरसा विमोहितुम् ५३
जंतून्क्षिप्त्वोदधौ तांश्च सहस्रं स ततोत्सवः
क्व च ता देवताः सर्वाः क्व नंदिप्रमुखा गणाः ५४
अपि त्वं माननीयोऽसि मोहितो दैत्यमायया
किमद्य शंभो भगवन्नुपेक्ष्यते उदीर्यचक्रं जठरस्थितं च ५५
वधाय चास्यैव कृतं महेश जालंधरं संहरते न चाजौ
इति कृष्णस्य वचनात्तत्स्मृत्वात्मानमीश्वरम् ५६
आरुह्य वृषभं शीघ्रमाजगाम महारणम्
तमागतं शिवं दृष्ट्वा सर्वसैन्यसमावृतः ५७
रुरोध समरे राजन्क्रुद्धो जालंधरोऽसुरः
हरस्य कुपितस्यासीत्सृष्टिसंहारकारकम् ५८
रूपं तृतीयनेत्राग्नौ दानवाः शलभा यथा
रुपं दृष्ट्वा भगवतो रौद्रज्वालामयं नृप ५९
शुंभादयस्तदा दैत्या राहुप्रभृतयश्च ये
रुद्रं निरीक्ष्य संत्रस्ताः पातालं विविशुर्भयात् ६०
सेनाभटाननेकांश्च हतान्दृष्ट्वा महामृधे
शुंभादीन्हतशेषांस्तान्दृष्ट्वात्मानं पलायितान् ६१
तदा जालंधरः संख्ये एको गिरिरिवस्थितः
परमार्थं रुद्ररूपं हृष्टः साक्षाद्विलोकयन् ६२
ततो जालंधरः प्राह महादेवं प्रहस्य च
रूपं संहर येन त्वं दहसे सचराचरम् ६३
शस्त्रेण कुरु संग्रामं त्यक्त्वा योगबलं निजम्
इति जालंधरवचः श्रुत्वोवाच ततः शिवः ६४
वरं वरय दैत्येश प्रीतोऽस्मि तव कर्मणा
ईदृक्षमपि मद्रूपं दृष्ट्वा यन्निर्भयोऽधुना ६५
अपि ब्रह्मांडमखिलं मद्रूपस्यास्य दानव
तेजसो वीक्षणेनालं तत्र त्वमसि निर्भयः ६६
नारद उवाच-
इति शंभोः प्रसादं च मत्वा संसारनिस्पृहः
जालंधरो हराद्वव्रे मुक्तिं सायुज्यतां पराम् ६७
श्रीमहादेव उवाच-
दिव्यं देहमिदं दैत्य भोगसिद्धियुतं तव
वृंदा मनोहरं रम्यमिहस्थं कालमश्नुते ६८
मुहूर्तं परमात्मानं तमेकाकिनमव्ययम्
अबुद्ध्वा त्यजसे मूर्ख कथं त्वं मुक्तिमिच्छसि ६९
वृंदा तव प्रिया राज्ञी हृता सा योगमायया
ब्रह्मस्वरूपं विज्ञाय प्राप्ता तत्परमं पदम् ७०
इदानीं दुर्ल्लभा सा च तत्पदं चैव दुर्ल्लभम्
स्वर्गापवर्गयोर्मध्ये संसारे वरमाप्नुहि ७१
जालंधर उवाच-
देवमुक्तपदं लभ्यं कृतकृत्येन केनचित्
इदानीं कृतकृत्योऽस्मि यत्त्वां पश्ये त्वया हतः ७२
शिव उवाच-
मत्स्थानं परमं क्षेत्रं यदि त्वं गंतुमुत्सुकः
तर्हि मां कोपयस्वाशु दैत्यं हत्वा दृढैः शरैः ७३
ततोऽहं त्वां हनिष्यामि मत्स्थानं यास्यसेऽनघ
महेश्वरवचः श्रुत्वा प्राह जालंधरः शिवम् ७४
त्वयि सर्वजगत्पूज्ये पूर्वं न प्रहराम्यहम् ७५
नारद उवाच-
एवमुक्तो जघानाशु सिंधुजं विशिखैः शिवः
ते शराः सिंधुपुत्रस्य देहलग्ना विभांति च ७६
यथा लोहगिरिप्रांते वेणवो वह्निदीपिताः
जालंधरो हरस्यांगं पूरयामास मार्गणैः ७७
तैः शरैः शुशुभे रुद्रो यथा खं खेचराकुलम्
जालंधरेशयोर्युद्धं तथा द्वंद्वमभून्नृप ७८
हरादन्येन हंतास्ति न सोढान्योऽर्णवात्मजात्
गिरिकोटिसहस्रैस्तु तदा पृथ्वीपुटोद्धृतैः ७९
पूरयामास समरे सिंधुजः पार्वतीपतिम्
ततः शूलेन निहतो रुद्रेणोरसि दानवः ८०
निःससार मुखात्तस्य ज्वरो जंभो भयंकरः
स च वीरज्वरोनाम सिंहवक्त्रो नराकृतिः ८१
दैत्यदेहाद्विनिष्क्रांतं दृष्ट्वा सिंहमुखं ज्वरम्
हुंकारमकरोद्घोरं शरभस्तत्र निर्ययौ ८२
शिवस्य निःसृतेनासौ शरभेण निपातितः
अजेयं शंकरं दृष्ट्वा वृषभेंद्रेण संयुतम् ८३
आययौ वृषभाभ्याशे तरसा सागरात्मजः
वृषं पुच्छे गृहीत्वा च भ्रामयामास चांबरे ८४
जालंधरो महाबाहुश्चिक्षेप हिमवद्गिरौ
ततस्त्रिशूलमत्युग्रं मुमोच गिरिजापतिः ८५
तद्धस्तेन गृहीत्वा च दैत्येशः शिवसन्निधौ
रथारूढो धनुर्गृह्य कालकेदारमब्धिजः ८६
पूरयामास विशिखैः शिवमुर्वीतले स्थितम्
उग्रः शस्त्राञ्छरान्छित्वा बाणै रथमचूर्णयत् ८७
दशयोजनविस्तीर्णं सारथ्यश्व समन्वितम्
जालंरोऽपि विरथो अभ्यधावन्मृधे शिवम् ८८
तयोर्युद्धमभूद्घोरमद्भुतं लोमहर्षणम्
तद्दृष्ट्वाऽकांडकल्पांत शंकया तत्र सुःसुराः ८९
सर्वास्त्रैस्तावदन्योन्यं जघ्नतुर्भीमविक्रमौ
पद्भिः पृथ्वीं चालयंतौ कंपयंतौ नभः स्वनैः ९०
अथोत्कटं बलं दृष्ट्वा दानवेंद्रस्य शंकरः
शस्त्रजालं जहाराशु योगमायाबलेन सः ९१
ततः कोटिभुजो दैत्यो दंष्ट्रा भीषणलोचनः
शस्त्रहीनोऽपि तरसा धावमानो हरं ययौ ९२
विशालकरबंधेन बबंध समरे शिवम्
ततस्तस्य कृपाणेन चिच्छेद करकाननम् ९३
सिंधुजेन भुजाक्रांतो रुद्रोभून्नीललोहितः
लीलया योधयामास रणेऽसौ सिंधुनंदनः ९४
छिन्नहस्तोऽपि युयुधे स्वर्भानुः शिरसा यथा
नियुद्धेन नदीसूनुस्तोषयामास शंकरम् ९५
परितुष्टोऽब्रवीच्छंभुर्वरं वरय दुर्लभम्
जालंधरेणसोऽप्युक्तस्त्वं मे देह्यात्मनः पदम् ९६
मम दोःशस्त्रहीनस्य नावज्ञां कर्तुमर्हसि
शीघ्रं प्रयच्छ मे सिद्धिं नोचेत्त्वां संहराम्यहम् ९७
इत्युक्त्वा सभुजो भूत्वा जघ्ने तं मुष्टिनोरसि
ततः सुदर्शनं चक्रं पुरा यन्निर्मितं स्वयम् ९८
मुखादुद्गीर्य तद्धस्ते गृहीत्वा तोलयद्रुषा
सूर्यकोटिसहस्राभं ग्रसंतं सचराचरम् ९९
तेन चक्रेण चिच्छेद शिरो जालंधरस्य च
ततस्तच्छीर्षमुत्प्लुत्य गगने शतयोजनम् 6.18.१००
दंष्ट्रा शतकरालास्यं स्वर्भूमिनयनं च यत्
व्याघ्रगत्या ततो यातं सदनं ब्रह्मणो नृप १०१
भूयः स्वर्गे ततो दृष्ट्वा मृडः शीर्षमधावत
स्रवत्तद्रुधिरं भूरि प्रकुर्वद्भैरवस्वनम् १०२
ततो दिशः प्रणष्टास्ता गगनं विलयं गतम्
न तेजसां प्रकाशोऽस्ति चचाल वसुधा भयात् १०३
आपतंतं जघानाशु रुद्रश्चक्रेण तच्छिरः
द्विधा भूत्वाथ राजेंद्र पपात हिमवद्गिरौ १०४
ततो जालंधरस्याशु शिरसः शकले किल
विशतः सर्वभूतानां पश्यतां स्म वृषाकपौ १०५
तस्य कंठात्समुद्भूता दैत्याः शतसहस्रशः
ते हतास्तेन चक्रेण कपर्दिकरशालिना १०६
जालंधरकबंधं तन्ननर्त रुधिरारुणम्
पुनः पुनः समुद्भूतास्तस्य कंठात्तु दानवाः १०७
पुनः पुनर्बलवता छिन्नाश्चक्रेण शंभुना
मेदसा सिंधुपुत्रस्य पूरिता सकला मही १०८
मेदिनी मेदसैवैषा ख्यातिं प्राप्ता तु पार्थिव
यत्र दैत्यवरस्यास्य शोणितं शैलतां गतम् १०९
कैलासस्योत्तरे भागे तत्राभूच्छोणितं पुरम्
अथ मांसचयान्दृष्ट्वा सर्वतो व्याप्य तिष्ठतः ११०
तदा सस्मार देवेशश्चतुःषष्टिगणं रणे
विज्ञानस्मरणाद्देव्यः संप्राप्ताः शंकरांतिकम् १११
कृतांजलिपुटाः प्रोचुः शिव किं करवामहे ११२
महादेव उवाच-
य एते दैत्यमांसस्य राशयो गिरिसन्निभाः
भक्षयध्वं युताः शीघ्रं दत्तानुज्ञा मया तु वः ११३
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा
वाराही चैव माहेंद्री सर्वाः स्वगणशोभिताः ११४
एवं शंकरनिर्दिष्टा देव्यस्ता मांससंचयान्
क्रूरेण चक्षुषालोक्य निन्युश्चादर्शनं क्षणात् ११५
अथ जालंधरवपुः क्षीणं क्रांतं तु शक्तिभिः
ताभिर्ग्रस्ते शरीरे तु तस्य देहाद्विनिःसृता ११६
प्रभासा शंकरं प्राप्ता जगामादर्शनं क्षणात्
तत्तेजः सूर्यसंकाशं लयं प्राप्तं महेश्वरे ११७
एवं स विलयं प्राप्तः त्रिदिशारिस्त्रिलोचनात्
वृणुध्वं च वरं सर्वाः प्रीतः प्राह महेश्वरः ११८
तदा ताः सर्वयोगिन्यः पप्रच्छुर्जगदीश्वरम्
मर्त्यलोकेषु ये लोका भोगमोक्षवरेप्सवः ११९
पूजयिष्यंति ते नित्यं स्वगृहे योगिनीगणम्
तत्तेषां वांछितं सर्वं सिध्यतां त्वत्प्रसादतः १२०
महादेव उवाच-
यः कश्चित्पूजयेन्नित्यं भक्तिभावसमन्वितः
युष्मद्गणं च तस्याहं वरदोऽस्मि धरातले १२१
मद्भक्तः केशवस्यापि द्वेष्टि यो योगिनीगणम्
भैरवोऽहं तदा तस्य हरिष्ये सुकृतं कृतम् १२२
इति दत्तवरा हृष्टा योगिन्यो विभुना मृधे
अत्रांतरे भवानीं तां सस्मार वृषभं हरः १२३
स्मृतमात्रा पार्वती सा वृषभश्चागमत्क्षणात्
सखीगणसमायुक्ता संप्राप्ता हरवल्लभा १२४
संत्यक्त्वा भ्रामरीं मूर्तिं हरस्यार्द्धं समारुहत्
गिरिजासहितो राजन्महेशो मुमुदे ततः १२५
योगिनीं प्रत्युवाचेदं पिबध्वं रुधिरं नृप
जालंधरकबंधस्थं ताः श्रुत्वा जहृषुर्भृशम् १२६
मांसमेदोह्यसृक्पीत्वा योगिन्यो ननृतुर्मुदा
ततो हरः प्रसन्नोऽभूत्तासां क्रीडनवीक्षणात् १२७
स्वयं च भैरवं रूपं कृत्वा तन्मध्यगः पपौ
तीक्ष्णदंष्ट्रा महाकायास्तदासन्योगिनी गणाः १२८
ग्रसंतोऽद्यापि मांसानि काले चापि पिबंत्यसृक्
तेन जालंधरो दैत्यो नोत्तिष्ठति रणे हतः १२९
ततस्तत्र समाजग्मुर्ब्रह्माद्या देवतागणाः
ऋषयो मरुतो देवा स्तुवंति स्म महेश्वरम् १३०
दिशः प्रसेदुः सुरभिर्ववौ मरुद्दिवः प्रपेतुर्भुवि पुष्पवृष्टयः
कृताभिषेकस्य च तस्य निःस्वनान्संनादिता दुंदुभयोऽपि चक्रिरे १३१
उपरि परिमलांधैः सुस्वरं संपतद्भिर्मधुकरनिकुरं बैरुह्यमाणाभरेण
अविरलमधुधारासारसंसिक्तभूमिः सदसि सुरविमुक्ता प्रापतत्पुष्पवृष्टिः १३२
हते तदा सिंधुसुते हरेण नाराचघातैस्त्रिजगत्तदा बभौ
प्रसूनवृष्टिर्ननृतुस्तदांगना जगुश्च यक्षाः सुरकिन्नराद्याः १३३
शंभुर्वैरिजयोत्थितेन यशसा स्फारांगकीर्तिर्गिरिं
स्वं भेजे सुरसिद्धचारणगणैः संस्तूयमानः सदा
गौरी चापि जगाम चाशु गिरितः श्वेतः
सखीसंवृता संचक्रुस्त्वभिसेवनं सुमनसां वर्षेण देवांगना १३४
देवोऽसौ करुणामयः सुरगणान्स्वे स्वे पदे स्थापयन्
प्रादादन्यदपि स्वकं वसु ततो ज्ञात्वा पतिं शंकरः
किं वक्तव्यमतः परं यदि भवेदीशानुकंपा परा
कोऽयं वा त्रिदिवो धरातलमिदं स्यादात्मसात्सर्वतः १३५
देवाः स्वराज्यमासाद्य यथापूर्वं चकाशिरे
बुभुजुर्यज्ञभागांस्ते लोकपालत्वमाश्रिताः १३६
नारद उवाच-
इति जालंधरस्योक्तं यथावदनुपूर्वशः
चरितं लोकवीरस्य राजन्नत्यद्भुतं तव १३७
विष्णुस्त्यजति नाद्यापि क्षीराब्धिं यद्वशो नृप
सर्वोऽपि भुंक्ते स्वं कर्म कर्म तद्विद्ध्यसंशयम् १३८
तुभ्यं दुःखनिरासाय प्रोक्तमाख्यानमुत्तमम्
यावद्देहोस्ति कर्माणि सुखदुःखानि कर्मतः १३९
देही भुंक्ते वशो राजन्त्राणं न ज्ञानतः परम्
कृष्णादीनां देहबंधे सुखदुःखादि वर्तते १४०
तत्रेतरेषां किं वाच्यं ये वैराग्यपराङ्मुखाः
ज्ञात्वेदृशीं कर्मगतिं सर्वेभ्यो बलवत्तमाम् १४१
धीरो भव प्रतीक्षस्व शुभकर्मागमं पुनः
शत्रून्जित्वा तु समये स्वं राज्यं पुनराप्स्यसि १४२
इतिहासमिमं श्रुत्वा न दुःखै परिभूयते
धर्मार्थकाममोक्षाश्च यथावच्चात्र कीर्त्तिताः १४३
स्वर्ग्यं पापहरं पुण्यं शोकमोहविनाशनम्
ब्राह्मणो ज्ञानमाप्नोति राज्यं प्राप्नोति क्षत्रियः १४४
वैश्यश्च बह्वीं संपत्तिं श्रुत्वा शूद्रः सुखं लभेत्
यो राजा भ्रष्टराज्योऽपि रतः सन्नेव सत्पथि १४५
स राज्यं पुनराप्नोति श्रवणान्नित्यमस्य तु
आकर्ण्यैतत्सतां राजन्श्राव्यमन्यन्न रोचते १४६
कलं च कोकिलालापं रूक्षं ध्वांक्षरुतं यथा
आख्यानमेतदनघं श्रुत्वा सज्जनहृत्प्रियः १४७
हिरण्यतिलवस्त्राद्यैर्धेनुभूमिप्रदानतः
संतोषयेद्वाचकं तु तस्मिंस्तुष्टे फलं लभेत् १४८
देवताश्च प्रसीदेयुरर्चिते वाचके गुरौ
अन्नदानानि दद्याच्च ब्राह्मणेभ्यः प्रपूजयेत् १४९
जायते विजयी नित्यं पुत्रपौत्रसमृद्धिमान्
जायते विष्णुलोके यः शृणोत्याख्यानमुत्तमम् 6.18.१५०
इति व्याजेन भो भूप तुलस्युत्पत्तिकारणम्
ये शृण्वंति नरश्रेष्ठा न तेषां पातकं क्वचित् १५१
तुलसीमाहात्म्यमिदं पवित्रं पापनाशनम्
श्रुत्वा तु लभते मोक्षमुक्त्वा चैव न संशयः १५२
स्वगृहे रोपिता चैव तुलसी पापनाशिनी
दर्शनाद्ब्रह्महत्यापि नश्यते नात्र संशयः १५३
कार्तिके चैव माघे तु तुलस्या पूजयेद्धरिम्
वैशाखे तु विशेषेण पूजनं च हरेः स्मृतम् १५४
एकेनैव प्रदक्षिणेन सकलं पापं गतं वै सदा ये शूद्रा
भुवि संति दाननिरताः कालेन शुद्धिं गताः
तेपि स्युः सुरपूजनार्हतनवः पापाच्च दूरं गताः ये वै
विष्णुजनाश्च दुर्लभतरा ह्यस्मिन्कलौ सांप्रतम् १५५
इति श्रीपाद्मे महापुराणे पंचपंचाशतसहस्रसंहितायां उत्तरखंडे जालंधरोपाख्याने श्रीजालंधरवधमहोत्सवोनामाष्टादशोऽध्यायः १८