पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १५४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १५३ पद्मपुराणम्
अध्यायः १५४
वेदव्यासः
अध्यायः १५५ →

साभ्रमत्यास्तटे गुप्तं तीर्थं परमपावनम् ।
खङ्गधारमिति ख्यातं कलौ गुप्तं भविष्यति १।
यत्र प्रसंगतः स्नात्वा पीत्वा वापो यदृच्छया ।
सर्वपापविनिर्मुक्तो रुद्रलोके महीयते २।
यत्र साभ्रमती पुण्या कश्यपानुगता सती ।
रुद्रेण हि जटाजूटे धृता पातालगामिनः ३।
खङ्गधारेति वै नाम्ना रुद्रस्तत्रैव संस्थितः ।
यत्र स्नात्वा दिवं याताः पापिनोऽपि सुरेश्वरि ४।
अत्रैवोदाहरंतीममितिहासं पुरातनम् ।
किरातेन कृतं यच्च व्रतं परमदुष्करम् ५।
पार्वत्युवाच।
किं नाम वै किरातोऽभूत्किं तेन व्रतमाहितम् ।
तत्सर्वं श्रोतुमिच्छामि यथातथ्येन कथ्यताम् ६।
नह्यन्यो विद्यते लोके त्वां विना वदतां वरः ।
तस्मात्कथय भो देव सर्वं शुश्रूषणे हितम् ७।
महादेव उवाच।
आसीत्पुरा महारौद्रश्चंडो नाम दुरात्मवान् ।
क्रूरः शठो नैष्कृतिको भूतानां च भयावहः ८।
जालेन मत्स्यान्दुष्टात्मा घातयत्यनिशं ततः ।
भल्लैर्मृगान्श्वापदांश्च कृष्णसारान्सशल्लकान् ९।
खगान्नानाविधांश्चैव विध्वा कांश्चित्प्रपातयेत् ।
पक्षिणो घातयन्क्रुद्धो बर्हिणश्च विशेषतः १०।
लुब्धको हि महापापो दुष्टो दुष्टजनप्रियः ।
भार्या तथाविधा तस्य पुंश्चली च महामया ११।
एवं विहरतस्तस्य बहुकालो व्यवर्त्तत ।
एकदा निशि पापीयान्श्रीवृक्षोपरि संस्थितः १२।
कोलं हंतुं धनुःपाणिः शरं संयोज्य कार्मुके ।
एवं निशा गता तस्य जाग्रतो निमिषस्य हि ।
माघमासे सितायां वै चतुर्दश्यां नगात्मजे १३।
श्रीवृक्षपत्राणि बहूनि तत्र संच्छेदयामास रुषान्वितोऽपि ।
श्रीवृक्षमूले परिवर्त्तमानं लिगं च तस्योपरितानि पेतुः १४।
श्रीवृक्षपर्णानि च दैवयोगात्जातं च सर्वं शिवपूजनं तत् १५।
गंडूषकारिणा तेन स्नपनं च महत्कृतम् ।
अज्ञानिना च तेनैव पुष्कसेन दुरात्मना १६।
माघमासे सिते पक्षे चतुर्दश्यां विधूदये ।
पुष्कसो हि दुराचारो निष्पन्नो गतकल्मषः १७।
तस्य भार्या प्रचंडा च आगता तस्य सन्निधौ ।
निराशा च निराहारा यत्रासौ पुष्कसः स्थितः १८।
न प्राप्तः शूकरस्तेन मृगोऽपि महिषोऽपि वा ।
अशनार्थं च तस्यैव अन्नमादाय भामिनी १९।
तेन दृष्टा प्रचंडा सा आयांती क्रूरलोचना ।
सा तस्य भार्या नद्यां वै जलमध्ये पपात ह २०।
तावत्तयोक्तश्चंडात्मा एहि शीघ्रं च भक्षय ।
समानीतं त्वदर्थं च मत्स्यमांसं मयाधुना २१।
कृतं किं मूढ पूर्वेद्युर्मांसं पार्श्वे न दृश्यते ।
नाशितं च त्वया मूढ कुटुंबं लंघते तव २२।
एतच्छ्रुत्वा तु वचनं चंडायाश्चंडरूपवान् ।
शिवरात्र्युपवासेन रात्रौ जागरणेन च २३।
शुद्धांतःकरणो जातः स्नातुं नद्यां शुचिव्रतः ।
यावत्स्नाति स दुष्टात्मा तावत्श्वा तत्र चागतः २४।
शुना तदा भक्षितं च सर्वं मांसं सुरेश्वरि ।
चंडा प्रकुपिता तं च श्वानं हंतुमुपस्थिता २५।
निवारिता हि चंडेन चंडा प्रकुपिता तदा ।
न हंतव्यस्त्वया चैष किमनेनाशुभं कृतम् २६।
तयोक्तं भक्षितं चान्नं अनेनैव दुरात्मना ।
किं त्वं भक्षयिता मूढ भविताद्य बुभुक्षितः २७।
पुष्कस उवाच।
यच्छुना भक्षितं चान्नं तेनाहं परितोषितः ।
किमनेन शरीरेण नश्वरेण गतायुषा २८।
ये पुष्यंति शरीरं वै सर्वभावेन भामिनि ।
मूढास्ते पापिनो ज्ञेया लोकद्वय बहिष्कृताः २९।
तस्मान्मानं परित्यज्य कामं चापि दुरात्मताम् ।
स्वस्थाभावविमर्शेन तत्वबुध्या स्थिरा भव ३०।
अहमेतच्छरीरं वै खङ्गधारव्रतेन च ।
त्यक्ष्याम्यद्य वरारोहे किं चिरंजीवनेन मे ३१।
इत्युक्त्वा खङ्गमाकृष्य यावद्भिनत्ति कं स्वकम् ।
आगताश्च गणास्तावद्बहवः शिवनोदिताः ३२।
विमानानि बहून्यत्र आगतानि तदंतिके ।
दृष्ट्वा स चैव तान्येवं विमानानि गणांस्तथा ३३।
उवाच परया भक्त्या पुष्कसोऽपि च तान्प्रति ।
कस्मात्समागता यूयं सर्वे रुद्राक्षधारिणः ३४।
सर्वे स्फटिकसंकाशाः सर्वे चंद्रार्द्धशेखराः ।
कपर्दिनश्चर्मपरीतवाससो भुजंगभोगैः कृतहारभूषणाः ३५।
श्रियान्विता रुद्रसमानवीर्या यथातथं भो वदतोचितं मम ।
पुष्कसेन तदा पृष्टा ऊचुस्ते रुद्रपार्षदाः ३६।
गणा ऊचुः।
प्रेषितास्मो वयं चंड शिवेन परमेष्ठिना ।
आगच्छ त्वरितो भूत्वा सस्त्रीको यानमारुह ३७।
लिगार्चनं कृतं यच्च त्वया रात्रौ शिवस्य च ।
तेन कर्मविपाकेन प्राप्तोऽसि परमां गतिम् ३८।
तथोक्तो वीरभद्रेण उवाच प्रहसन्निव ।
किं मया सुकृतं चीर्णं पापिना पुष्कसेन हि ३९।
मृगयारसिकेनैव मूढेन च दुरात्मना ।
पापाचारोह्यहं नित्यं कथं स्वर्गे वसाम्यहम् ४०।
कथं लिगार्चनं चाद्या कृतमस्ति तदुच्यताम् ।
परं कौतुकमापन्नः पृच्छामि कृपया वद ४१।
वीरभद्र उवाच।
देवदेवो महादेवो यो गंगाधरसंज्ञकः ।
परितुष्टोऽद्य ते चंड सभार्यस्य उमापतिः ४२।
प्रासंगिकं त्वया चाद्य कृतमर्चनमेव च ।
कोलं निरीक्षमाणेन बिल्वपत्राणि चैव हि ४३।
छेदितानि त्वया चंड पतितानि तदैव हि ।
लिंगस्य मस्तके तानि तेन त्वं सुकृती प्रभो ४४।
तवैवं जागरो जातो महावृक्षोपरि ध्रुवम् ।
तेनैव जागरेणैव तुतोष जगदीश्वरः ४५।
छलेनैव महाभाग कोलसंदर्शनेन हि ।
शिवरात्रिदिनं व्याध प्रसंगेनाप्युपोषितम् ४६।
तेनोपवासेन च जागरेणतुष्टो ह्यसौ देववरो महात्मा ।
तव प्रसादाय महानुभावो ददाति सर्वान्वरदो वरांश्च ४७।
एवमुक्तस्तदा तेन वीरभद्रेण धीमता ।
पुष्कसोऽपि विमानाग्र्यमारुरोह च पश्यताम् ४८।
गणानां देवतानां च सर्वेषां प्राणिनामपि ।
तदा दुंदुभयो नेदुर्भेरीतूर्याण्यनेकशः ४९।
वीणावेणुमृदंगानि लास्यनाट्य युतानि च ।
जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः 6.154.५०।
चामरैर्विज्यमानो हि छत्रैश्च विविधैरपि ।
महोत्सवेन महता ह्यानीतः शिवसन्निधौ ५१।
पुष्कसोऽपि तदा प्राप्तस्तीर्थस्नान शिवार्चनात् ।
किं पुनः श्रद्धया भक्त्या शिवाय परमात्माने ५२।
पुष्पादिकं फलं गंधं तांबूलाक्षतमेव च ।
ये प्रयच्छंति लोकेऽस्मिंस्ते रुद्रा नात्र संशयः ५३।
महादेव उवाच।
तदाप्रभृति तत्तीर्थं खङ्गधारेति विश्रुतम् ।
एतत्तीर्थं कलौ गुप्तं भविष्यति सुरेश्वरि ५४।
माघमासेऽथ वैशाखे कार्तिक्यां च विशेषतः ।
स्नानं येन प्रकुर्वंति मुक्तास्ते नगनंदिनि ५५।
वसिष्ठो वामदेवश्च भरद्वाजोऽथ गौतमः ।
स्नानार्थे वै समायांति देवं द्रष्टुं पिनाकिनम् ५६।
त्रियुगे वर्त्तते लिंगं कलौ नैव तु पार्वति ।
विश्वामित्रेण ऋषिणा दत्तशापो ह्यहं तदा ५७।
पार्वत्युवाच।
कथं शापस्तु ऋषिणा दत्तश्चैव सुरेश्वर ।
तदहं श्रोतुमिच्छामि त्वत्तो देव न संशयः ५८।
महादेव उवाच।
एकस्मिन्समये देवि विश्वामित्रो महातपाः ।
आगतः खङ्गधारेऽस्मिंस्तीर्थे वै परमाद्भुते ५९।
साभ्रमत्यां कृतस्नानो दर्शनं कृतवान्मम ।
तत्र तिष्ठति नित्यं वै पूजां कुर्वन्ननेकधा ६०।
तत्र कोऽपि महादुष्टः कौलिकः पापरुपधृक् ।
मांसं दत्तं तदा तेन शिवस्योपरि भामिनि ६१।
दृष्ट्वा तदपि मांसं च विश्वामित्रोऽथ वै पुनः ।
अब्रवीच्च तदा तत्र दुष्कृतं पापिना कृतम् ६२।
न दत्तस्तस्य दंडो हि शर्वेण परमात्मना ।
तस्मादहं हि निश्चित्य शापं दास्ये न संशयः ६३।
विचार्यैवं तदा तेन शप्तोऽहं देवि वै तदा ६४।
अस्मिन्कलियुगे घोरे गुप्तस्त्वं भव सर्वथा ।
इति दत्वाथ वै शापं गतवान्मुनिसत्तमः ६५।
तदा प्रभृति भो देवि गुप्तोऽहं ऋषिशापतः ।
ममस्थाने विशेषेण पूजनं कुरुते यदि ६६।
तेषां हि दुरितं यच्च नश्यते तत्क्षणादपि ।
मृन्मयीं मामकीं मूर्तिं कृत्वा ये पूजयंति वै ६७।
अत्र स्थाने विशेषेण मामके तु वसंति हि ।
खङ्गधारेश्वर इति नाम्ना ख्यातः कलौयुगे ६८।
कृते वै मंदिरं नाम त्रेतायां गौरवः स्मृतः ।
द्वापरे विश्वविख्यातः कलौ खङ्गेश्वरः स्मृतः ६९।
दक्षिणं भागमाश्रित्य मम स्थानं सुरेश्वरि ।
इति ज्ञात्वा तु तत्रैव कृत्वा मूर्तिं सदा बुधः ७०।
पूजनं कुरुते नित्यं वांछितं फलमाप्नुयात् ।
धर्मार्थकाममोक्षांश्च लभते मानवो भुवि ७१।
धूपं दीपं च नैवेद्यं तथा वै चंदनादिकम् ।
येऽर्पयंति हि देवेशि लोकनाथे महेश्वरि ।
न दुःखं तु भवेत्तेषां सत्यं सत्यं वरानने ७२।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्रसंहितायामुउत्तरखंडे धारेश्वरमाहात्म्यं नाम चतुष्पंचाशदधिकशततमोऽध्यायः १५४।