पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १५५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १५४ पद्मपुराणम्
अध्यायः १५५
वेदव्यासः
अध्यायः १५६ →

महादेव उवाच
खड्गधारा द्दक्षिणतस्तीर्थं परमपावनम्
दुग्धेश्वरमिति प्रोक्तं सर्वपापप्रणाशनम् १
यस्मिंस्तीर्थे नरः स्नात्वा दृष्ट्वा दुग्धेश्वरं हरम्
पुमान्सद्यो विमुच्येत दुःखात्पापसमुद्भवात् २
दधीचिना तपस्तप्तं साभ्रमत्यास्तटे शुभे
चन्द्रभागा महत्पुण्यं गंगाया संगता यतः ३
तत्र स्नानं च दानं जपः पूजा तपस्तथा
सर्वमक्षयतां याति दुग्धतीर्थप्रभावतः ४
पार्वत्युवाच
दुग्धेश्वरसमुत्पत्तिं श्रोतुमिच्छामि वै प्रभो
महिमा दुग्धतीर्थस्य कथ्यतां च सुरेश्वर ५
महादेव उवाच
पुरा देवासुरे युद्धे दैत्यैर्देवाः पराजिताः
पलायनपरा भूत्वा दधीचाश्रममागताः ६
मुक्त्वा तत्रायुधान्येव गता देवा दिशो दश
पश्चात्कोलाहलं श्रुत्वा दधीचो दैत्यसंभवम् ७
पीतवांस्तानि शस्त्राणि जलेनाप्लाय्य भार्गवः
कालेन ते सुराः सर्वे अस्त्राण्यादातुमुत्सुकाः ८
गुरुणा सहिताः सर्वे परस्परमुदान्विताः
नकुलैः सह सर्पाश्च क्रीडंते ते परस्परम् ९
एवंविधान्यनेकानि साश्चर्याणि तदाश्रमे
पश्यंतो विबुधाः सर्वे विस्मयं परमं गताः १०
ददृशुस्ते मुनिवरं आसनोपरिसंस्थितम्
यत्र साभ्रमती पुण्या मिलिता चंद्रभागया ११
वर्चसा परमेणैव भ्राजमानं यथा रविम्
विभावसु द्वितीयं च सुवर्चा भार्यया सह १२
यथा ब्रह्माहि सावित्र्या तथाऽसौ मुनिसत्तमः
दृष्टः सुरवरैः सर्वैः प्रणिपातपुरःसरम् १३
ऊचिरे तं तदा देवा बृहस्पतिपुरोगमाः
त्वं दाता त्रिषु लोकेषु विदितः पूर्वमेव च १४
याच्ञार्थं च वयं सर्वे त्वत्सकाशं समागताः
भयभीता वयं सर्वेऽस्त्राणि नोदातु मर्हसि १५
इत्युक्तो मुनिवर्योऽसौ देवानाह महामतिः
पीतानि तानि भो देवा जलेनाप्लाव्य मंत्रतः १६
ततो देवाब्रुवन्विप्रं दैत्यानां निधनाय च
देह्यस्थीनि त्वरा विप्र दत्तानीति द्विजोऽवदत् १७
इत्युक्त्वा तान्स्वपत्नीं स प्रेषयामास चाश्रमम्
तदोवाच द्विजो हृष्टो देवान्स्मित्वा महामतिः १८
पीतानि तानि भो देवा गृह्णीध्वं च यथातथम्
इत्युक्त्वा च द्विजो देवि योगमास्थाय योगवित् १९
ततोब्रुवन्सुरा विप्रं स्मयं तं छलया गिरा
त्वयि जीवति भो ब्रह्मन्कुतोस्थीनि लभामहे २०
प्रहस्योवाच विप्रर्षिस्तिष्ठध्वं क्षणमेकतः
स्वयमेव च भो देवास्त्यक्ष्याम्यद्य कलेवरम् २१
इत्युक्त्वा स द्विजो देवि योगमास्थाय योगवित्
ब्रह्मलोकं गतः सद्यो यतो नावर्त्तते पुनः २२
ततः सर्वे सुरास्तत्र दृष्ट्वा तं विलयं गतम्
चिंतयंतः सुरगणाः कथं च विशसामहे २३
सुरभिं चाह्वयामास तामुवाच शचीपतिः
कलेवरं द्विजेंद्रस्य लिह त्वं वचसा मम २४
तथेति च वचो मत्वा तत्क्षणादेव लिह्य तत्
निर्मांसं च कृतं सद्यस्तया धेन्वा कलेवरम् २५
जगृहुस्तानि चास्थीनि चक्रुः शस्त्राणि वै सुराः
तस्य वंशोद्भवं त्वस्त्रमासीद्ब्रह्मशिरस्तथा २६
शस्त्राण्यस्त्राणि कृत्वा ते महाबलपराक्रमाः
ययुर्देवास्त्वरा युक्ता वृत्रघातनतत्पराः २७
ततः सुवर्चा तु दधीचपत्नी संप्रेषिता या सुरकार्यसिद्धये
विलोकयामास समेत्य तत्र मृतं पतिं देहमथो विशस्तम् २८
ज्ञात्वा तु तत्सर्वमथो सुराणां कृत्यं तदानीं च चुकोप साध्वी
ददौ तदा शापमतीव रुष्टा तदा सुवर्चा ऋषिवर्यपत्नी २९
अहो सुरा दुष्टतराश्च सर्वे ह्यनेकशप्ताश्च तथैव लुब्धाः
तस्मात्तु सर्वे ह्यप्रजा भवंतु सेंद्रा सुराद्यप्रभृतीत्युवाच ३०
एवं शापं ददौ तेषां सुराणां सा तपस्विनी
उपविश्याश्वत्थमूले साभ्रमत्यास्तटे स्थिता ३१
सगर्भा सा सती साध्वी स्वोदरं विददार ह
निर्गतो जठराद्गर्भो दधीचस्य महात्मनः ३२
साक्षाद्रुद्रावतारोऽसौ पिप्पलादो महाप्रभुः
प्रहस्य जननी गर्भं उवाच वचनं महत् ३३
सुवर्चा तं पिप्पलादं चिरं तिष्ठास्य सन्निधौ
अश्वत्थस्य महाभाग सर्वेषां शुभदो भव ३४
तथैव भाषमाणा सा सुवर्चा तनयं प्रति
पतिं प्रत्यगमत्साध्वी परमेन समाधिना ३५
एवं दधीचपत्नी सा पतिना स्वर्गमास्थिता
ते देवाः कृतशस्त्रास्त्र दैत्यान्प्रति समुत्सुकाः ३६
आजग्मुश्चेंद्रमुख्याश्च महाबलपराक्रमाः
कामधेनुः प्रसुस्राव ययौ यत्र द्विजः क्षयम् ३७
मुनेः प्रभावतो दुग्धं लिंगरूपं व्यजायत
दुग्धेश्वरमिति ख्यातं देवि साभ्रमती तटे ३८
तदा प्रभृति तीर्थं हि तन्नाम्ना प्रथितं भुवि
अतुलं यस्य माहात्म्यं श्रवणात्पातकापहम् ३९
ये शृण्वंति नरा भक्त्या दुग्धेश्वरसमुद्भवम्
तेऽपि पापविनिर्मुक्ता यांति रुद्रपदं महत् ४०
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तर
खंडे दुग्धेश्वरमाहात्म्यंनाम पंचपंचाशदधिक शततमोऽध्यायः १५५