पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १९५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १९४ पद्मपुराणम्
अध्यायः १९५
वेदव्यासः
अध्यायः १९६ →

सूत उवाच-
अथ देवऋषिस्तत्र कुमाराननुमान्य च ।
उवाच प्रणतो वाक्यं ज्ञानयज्ञ कृतादरः १।
नारद उवाच-
ज्ञानयज्ञं करिष्यामि शुकशास्त्र कथोज्वलम् ।
भक्ति ज्ञान विरागाणां स्थापनार्थे प्रयत्नतः २।
यत्र कार्यो मया यज्ञः स्थानं तत्कथ्यतां द्विजाः ।
चत्वारो यज्ञवाहाश्च यूयमेव वृता मया ३।
कियद्भिर्दिवसैः श्राव्या श्रीमद्भागवती कथा ।
को विधिस्तत्र कर्तव्यो ज्ञानयज्ञविशारदाः ४।
कुमारा ऊचुः।
शृणु नारद वक्ष्यामस्तुभ्यं यत्र कथा नृणाम् ।
शृण्वतां पापराशिघ्नो भवेत्पुण्यविबर्द्विनी ५।
गंगाद्वार समीपे तु कामदाख्यं पुरं महत् ६।
स्वर्णद्याश्चोत्तरे पुण्ये तटमानंदनामकम् ।
नानाऋषिगणैर्जुष्टं देवसिद्धनिषेवितम् ७।
नाना तरुलताकीर्णं स्वच्छकोमल वालुकम् ।
रम्यमेकांतदेशस्थं स्वर्णपंकज शोभितम् ८।
यत्समीपस्थजीवानां क्षेत्रस्यैव प्रभावतः ।
मिथः संस्निग्धचित्तानां वैरं चेतसि न स्थितम् ९।
ज्ञानयज्ञस्त्वया तत्र कर्त्तव्यो हि प्रयत्नतः ।
अपूर्व रसदात्री च कथा तत्र भविष्यति १०।
वृंदावनप्रतोलिस्थं जराजीर्ण कलेवरम् ।
सुतद्वयं पुरस्कृत्य भक्तिस्तत्रागमिष्यति ११।
यत्र भागवती वार्ता भक्तिस्तत्र सहात्मजा ।
कृष्णकीर्तिसुधां पीत्वा तरुणी वा भविष्यति १२।
सूत उवाच-
एवमुक्त्वा कुमारास्ते नारदेन समंततः ।
गंगाद्वारे समाजग्मुर्ज्ञानयज्ञाय सत्वराः १३।
यदा प्राप्तास्तटं ते तु गंगाया भार्गवर्षभ ।
तदा कोलाहलश्चासीद्भूर्लोकादिक सप्तसु १४।
श्रीमद्भागवतास्वादलंपटा साप्तलौकिकाः ।
धावं धावं समाजग्मुः प्राचीना वैष्णवाश्च ये १५।
भृगुर्वसिष्ठश्च्यवनश्च गौतमो मेधातिथिर्देबलदेवरातौ ।
रामस्तथागाधिज शाकलौ च मृकंडपुत्रात्रिज पिप्पलादाः १६।
योगेश्वरौ व्यासपराशरौ च शुकादयो भागवतप्रधानाः ।
शिष्यैरुपेता बहुशास्त्रविज्ञाः कृष्णामृतास्वाद कृतौ प्रधानाः १७।
वेदांतानि च वेदाश्च मंत्रास्तंत्राणि संहिताः ।
दशसप्तपुराणानि षट्शास्त्राणि तथाययुः १८।
गंगाद्याः सरितस्तत्र पुष्करादि सरांसि च ।
क्षेत्राणि च दिशः सर्वा दंडकादि वनानि च १९।
हिमादयो नगास्तत्र देवगंधर्वकिन्नराः ।
द्वीपाः समुद्रा दिक्पालाः पातालस्थास्तथाययुः २०।
दीक्षायां नारदेनाथ दत्तमासनमुत्तमम् ।
कुमारा वंदिता सर्वे निषेदुः कृष्णतत्पराः२१।
वैष्णवाः सुविरक्ताश्च न्यासिनो ब्रह्मचारिणः ।
मुख्या ह्यग्रेस्थिता स्तेषां पुरतो नारदः स्थितः २२।
वामभागेमुनिगणादक्षिणेचदिवौकसः ।
वेदोपनिषदोऽन्यत्रतीर्थानिचभृगूद्वह २३।
जयशब्दोनमः शब्दःशंखशब्दस्तथैवच ।
बभूवाकाशसंस्पर्शीघोषयन्विदिशोदश २४।
विमानानिसमारुह्यप्रहृष्टानाकवासिनः ।
कल्पवृक्षप्रसूनैश्चतांसभांसमवाकिरन् २५।
सूतउवाच-
एवंतेषुनिविष्टेषुभृग्वादिषुयथार्हतः ।
श्रीभागवतमाहात्म्यमूचिरेनारदायते २६।
कुमारा ऊचुः।
शृणु नारद वक्ष्यामो महिमानं महाद्भुतम् ।
श्रीमद्भागवताख्यस्य शास्त्रस्य विधिपूर्वकम् २७।
सदा नरैः सुकृतिभिः सेव्या भागवती कथा ।
यस्याः श्रवणमात्रेण कृतार्थत्वं प्रयांति ते २८।
ग्रंथो ऽष्टादशसाहस्रो द्वादशस्कंध संयुतः ।
परीक्षिच्छुकसंवादः श्रीमद्भागवताभिधः २९।
तावत्संसारचक्रेस्मिन्भ्रमत्यज्ञानमोहितः ।
यावत्कर्णगतंनोस्याच्छुकशास्त्रं जनस्य च ३०।
किं श्रुतैर्बहुभिः शास्त्रैः पुराणैः संहितागमैः ।
यदि भागवतं पुंभिर्न श्रुतं भक्तिभावनैः ३१।
कथा भागवतस्यापि नित्यं भवति यद्गृहे ।
तद्गृहं तीर्थरूपं हि नृणां पापविनाशनम् ३२।
अश्वमेधसहस्राणि राजसूयशतानि च ।
भागवत्याः कथायाश्च कलां नार्हंति षोडशीम् ३३।
तावत्पापानि तिष्ठंति देहेऽस्मिन्मुनिपुंगव ।
यावन्न श्रूयते सम्यक्श्रीमद्भागवतं नरैः ३४।
न गंगा न गया काशी प्रतिष्ठानं न पुष्करः ।
कथाया भागवत्याश्च समा पुण्यफलेन च ३५।
श्लोकार्द्धं श्लोकपादं वा नित्यं भागवतोद्भवम् ।
पठस्व स्वमुखेनापि यदीच्छसि भवक्षयम् ३६।
वेदादिर्वेदमाता च पौरुषंसूक्तमेव च ।
त्रयी भागवतं चैव द्वादशाष्टाक्षरौ मनू ३७।
द्वादशात्मा प्रयागश्च कालः संवत्सरात्मकः ।
ब्राह्मणश्चाग्निहोत्रं च सुरभिर्द्वादशी तिथिः ३८।
तुलसी च वसंतर्तुः पुरुषोत्तम एव च ।
एतेषां वस्तुतो नास्ति पृथग्भावो मुनीश्वर ३९।
यश्च भागवतं शास्त्रं व्याकुर्यादन्वहं द्विज ।
जन्मकोटिकृतं पापं तस्य नश्यति नारद ४०।
श्रुतं च पठितं ध्यातं श्रीमद्भागवतं नृभिः ।
ददाति मुक्तिं भक्तिं वा तुलस्यग्न्योश्च सेवनम् ४१।
अंतकाले तु संप्राप्ते भयं त्यक्त्वा सुदूरतः ।
श्रीमद्भागवतं भक्त्या शृणुयाद्यः स मुक्तिभाक् ४२।
प्रौष्ठपद्यां च राकायां हेमसिंह समन्वितम् ।
अलंकृत्य द्विजाग्र्याय श्रीमद्भागवतं ददेत् ४३।
भक्तियुक्तो विमानश्च मिताशी च जितेंद्रियः ।
श्रुत्वादितः स कृष्णस्य सायुज्यं लोकमाप्नुयात् ४४।
आजन्ममात्रमपि येन शठेन चित्तं सम्यङ्नियम्य भुवि कृष्णकथा न पीता ।
चांडालवच्च पशुवद्बत तेन नीतं मिथ्या स्वजन्म जननी भृशमर्दिता च ४५।
यैर्न श्रुतं भागवतं पुराणमाराधितो नो पुरुषः पुराणः ।
मुखे हुतं नैव धरामराणां तेषां वृथा जन्म गतं नराणाम् ४६।
चित्तं न यस्य तु नरस्य हरेः कथायां संप्रीयते दुरितदुष्टमसत्प्रसंगात् ।
धिक्तं नरं पशुसमं भुविभारभूतमेवं वदंति मुनयः किल पूर्वसिद्धाः ४७।
दुर्ल्लभैव कथा लोके श्रीमद्भागवतोद्भवा ।
कोटिजन्मसमुत्थेन पुण्येनैव तु लभ्यते ४८।
तेन योगनिधे साधो श्रोतव्या सात्वती कथा ।
प्रत्यहं नियमो नास्ति दिनानां वस्तुतो द्विज ४९।
सत्येन ब्रह्मचर्येण यतोऽस्य श्रवणं मतम् ।
ततः कलौ विशेषो हि विधिः सप्तदिनात्मकः 6.195.५०।
मनसश्चाजयाद्रोगात्पुंसां चैवायुषः क्षयात् ।
कलेर्दोषबहुत्वाच्च सप्ताहश्रवणंमतम् ५१।
मनसो निग्रहश्चैव नियमाचरणं तथा ।
कर्तुं सप्तदिनं शक्यं ततो नियमकल्पना ५२।
श्रद्धया श्रवणे नित्यमाद्यंतावधि यत्फलम् ।
तत्फलं शुकदेवेन सप्ताहश्रवणे कृतम् ५३।
यत्फलं नास्ति तपसा न योगेन समाधिना ।
अनायासेन तत्सर्वं सप्ताह श्रवणाल्लभेत् ५४।
यज्ञाद्व्रताच्च तपसो ध्यानाज्ज्ञानाच्च तीर्थतः ।
श्रीभागवतसप्ताह नियमो ह्युत्तमो मतः ५५।
यदा कृष्णो भुवं त्यक्त्वा स्वपदं गंतुमुद्यतः ।
तदाज्ञायोद्धवो धीमान्गोविंदं वाक्यमब्रवीत् ५६।
उद्धव उवाच-
भगवन्भवता सर्वं देवकार्यं प्रसाधितम् ।
अधुना गंतुमिच्छुस्त्वं स्वंपदं तमसः परम् ५७।
अतश्चिंता ममोत्पन्ना त्वद्वियोग भिया विभो ।
तामपाकुरु देवेश त्वामहं शरणं गतः ५८।
आगतोऽयं कलिर्घोरोऽत्र सर्वेऽपि जनाः खलाः ।
भविष्यंति ततो नाथ किं विधेयं तदादिश ५९।
इयं भारवती भूमिः शरणं किं प्रयास्यति ।
त्वदन्यो दृश्यते नात्र त्राता स्याद् यदुनंदन ६०।
अतोऽस्मासु दयां कृत्वा तिष्ठात्रैव दयानिधे ।
साधूनां रक्षणायैव त्वमाविरभवः प्रभो ६१।
निर्गुणोऽपि निराकारः सच्चिदानंदविग्रहः ।
त्वद्वियोगेन ते भक्ताः कथं स्थास्यंति भूतले ६२।
निर्गुणोपासने कष्टमतोऽस्मद्धितमाचर ।
सूत उवाच-।
इत्युद्धववचः श्रुत्वा चिंतयित्वा क्षणं हरिः ६३।
ददौ भागवतं तस्मै कृपया परया युतः ।
निजं तेजः समाधाय श्रीमद्भागवते द्विज ६४।
दत्वोद्धवाय भगवान्स्वकीयं पदमाविशत् ।
तेनेयं वाङ्मयी मूर्तिर्वर्त्तते श्रीहरेरिह ६५।
सेवनात्सततं चास्याः पापं नश्येन्नृणां क्षणात् ।
सप्ताहश्रवणं तेन कथितं सर्वतोऽधिकम् ६६।
श्रोता वक्ता पृच्छकश्च यांति तन्मयतां द्विज ।
दुःखदारिद्र्य दौर्भाग्य पाप प्रक्षालनाय च ६७।
कामक्रोध जयार्थं च कलौ भागवतं क्षमम् ।
अन्यथा वैष्णवी माया देवानामपि दुर्जया ।
कथं निवर्तते पुंसां श्रीमद्भागवतं विना ६८।
सूत उवाच-
इत्येवमुक्त्वा माहात्म्यं श्रीमद्भागवतस्य ते ।
कथां भागवतीं दिव्यां प्रवक्तुमुपचक्रमुः ६९।
वेदोपनिषदां सारे श्रीमद्भागवते द्विजैः ।
आरभ्यमाणे तत्रैव भक्तिराविरभूत्क्षणात् ७०।
प्रेमान्विता चारुतनुर्मुदान्वितौ सुतौ गृहीत्वा तरुणौ स्वदोर्भ्याम् ।
श्रीकृष्ण गोविंद हरे मुरारे नाथेति नामानि मुहुर्वदंती ७१।
तामागतां भागवतार्थभूषां सुचारुवेषां ददृशुः सदस्याः ।
व्यतर्कयंश्चापि कथं कुतासौ कास्तीति सर्वेऽपि सुविस्मिताक्षाः ७२।
ततः कुमारा जगदुः कृतार्था कथार्थतो निष्पतिताधुनेयम् ।
एवं गिरः सा ससुता निशम्य जगाद नम्राब्जभुवः कुमारात् ७३।
भक्तिरुवाच-।
भवद्भिरद्यैव कृतास्मि पुष्टा कलौ प्रणष्टापि कथारसेन ।
तिष्ठामि कुत्राहमभीष्टमाभ्यां सहास्पदं मह्यमुपादशध्वम् ७४।
सूत उवाच-
तद्वाक्यमाकर्ण्य विधेः कुमारा विचार्य सम्यक्प्रणिधाय चित्ते ।
उचुश्च भक्तिं भवरोगहर्त्रीं प्रेमैकदात्रीं हरिभक्तिभाजाम् ७५।
कुमारा ऊचुः ।
भक्तेषु गोविंद परायणेषु साधुष्वथो दीनदया परेषु ।
मनो नियम्योत्पथसंप्रवृत्तं कृत्वैकतानं हरिपादपद्मे ७६।
ततो हि दोषाः कलिजा इमे त्वां द्रष्टुं न शक्ताः प्रभवोपि लोके ।
कलौ त्वमेकैव जगद्धिताय भविष्यसे नारद संप्रणीता ७७।
सकलभुवनमध्ये निर्धनाश्चातिधन्या निवसति हृदि येषां श्रीहरेर्भक्तिरेका ।
हरिरपि निजलोकं सत्वरं संविहाय प्रविशति हृदि येषां प्रेमसूत्रापिनद्धः ७८।

इति श्रीपाद्मे महापुराणे पचंपंचाशत्साहस्र्यां संहितायामुत्तरखंडे। श्रीभागवतमाहात्म्ये पंचनवत्यधिकशततमोऽध्यायः १९५।