पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १९४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १९३ पद्मपुराणम्
अध्यायः १९४
वेदव्यासः
अध्यायः १९५ →

सूत उवाच-
एवं संप्रार्थितो विप्रास्तया भक्त्यातिदीनया।
यतश्चाकथयं तद्वै तच्छृणुध्वं दयालवः १।
नारद उवाच-
मा खिदस्त्वं वृथा बाले समाधाय मनो हृदि ।
श्रीकृष्णचरणांभोजं स्मर सौख्यं लभिष्यसि २।
द्रौपदी च परित्राता येन कौरवकश्मलात् ।
पालिता गोपसुंदर्यः स कृष्णः क्वापि नो गतः ३।
त्वं तु भक्तिः प्रिया तस्य सततं प्राणतोऽधिका ।
त्वयाहूतस्तु भगवान्याति नीचगृहेष्वपि ४।
सत्यादि त्रियुगे बोधो विरागो मुक्तिसाधकौ ।
कलौ तु केवला भक्तिर्ब्रह्मसायुज्यकारिणी ५।
इति निश्चित्य विद्रूपी स्वकां गात्त्वां ससर्ज ह ।
परमानंदचिन्मूर्तिः स्वप्रियां प्रीतमानसः ६।
बध्वांजलि त्वया पृष्टः किं करोमीति वै हरिः ।
त्वां तदाज्ञापयत्कृष्णो मद्भक्तान्पोषयेति च ७।
अंगीकृतं त्वया तद्वै प्रसन्नोऽभूद्धरिस्तदा ।
मुक्तिदासीं ददौ तुभ्यं ज्ञानवैराग्य आत्मजौ ८।
भक्तानां पोषणं नित्यं वैकुंठस्था करोषि च ।
भूमौ च भक्तपोषाय छायारूपं समाश्रिता ९।
विमुक्ति ज्ञानवैराग्यैः सह चैवागतात्र हि ।
कृतादिद्वापरांते हि काले मुक्ति मुदास्थिता १०।
कलौ तु संक्षयं प्राप्ता पाषंडामयपीडिता ।
त्वदाज्ञया गता शीघ्रं वैकुंठे पुनरेव सा ।
स्मृतमात्रा त्वयाद्यापि मुक्तिरायाति सत्वरम् ११।
पुत्रीकृत्य त्वयैमौ च स्वपार्श्वे परिरक्षितौ ।
उपेक्षातः कलौ मंदौ वृद्धौ जातौ सुतौ तव १२।
तथापि चिंतां मुंचत्वमुपायं चिंतयाम्यहम् ।
कलिना सदृशः कोऽपि युगो नास्ति वरानने १३।
तस्मिंस्त्वां ख्यापयिष्यामि गेहे गेहे जने जने ।
अन्यधर्मांस्तिरस्कृत्य पुरस्कृत्य महोत्सवान् १४।
यदि प्रवर्त्तये न त्वां तदा दासो हरेर्नहि ।
त्वदन्विताश्च ये जीवा भविष्यंति कलाविह १५।
पापिनोऽपि गमिष्यंति निर्भया हरिमंदिरम् ।
येषां चित्ते भवेद्भक्तिः सर्वदा प्रेमरूपिणी १६।
न ते पश्यंति कीनाशं स्वप्नेऽप्यमलमूर्त्तयः ।
न प्रेतो न पिशाचो वा राक्षसो वासुरोपि च १७।
भक्तियुक्तमनस्कानां स्पर्शने दर्शने प्रभुः ।
न तपोभिर्न वेदैश्च न ज्ञानेनापि कर्मणा १८।
हरिर्हि साध्यते भक्त्या प्रमाणं तत्र गोपिकाः ।
नृणां जन्मसहस्रेण भक्तिः सुकृतिनां भवेत् १९।
कलौ भक्तिः कलौ भक्तिर्भक्त्याकृष्णः पुरः स्थितः ।
भक्तिद्रोहकरा ये च ते सीदंति जगत्त्रये २०।
दुर्वासा दुःखमापन्नः पुरा भक्तिविनिंदकः ।
अलं वृत्तैरलंतीर्थैरलं योगैरलं मखैः २१।
अलं ज्ञानकथालापैर्भक्तिरेकैव मुक्तिदा ।
एवमुक्तं मया सा तु स्वमाहात्म्यं निशम्य वै २२।
सर्वांगहर्षसंयुक्ता मां पुनर्वाक्यमब्रवीत् ।
अहो नारद धन्योऽसि प्रीतिस्ते मयि निश्चला २३।
न कदाचिन्विमुंचामि चित्तं ते मयि संगतम् ।
कृपालुना त्वया साधो मद्बाधा ध्वंसिता क्षणात् २४।
पुत्रयोश्चेतना नास्ति ममेमौ प्रतिबोधय ।
तस्यास्तद्वचनं श्रुत्वा कारुण्येनान्वितो ह्यहम् २५।
तयोः प्रबोधनं कर्तुं प्रवृत्तः पाणिना स्पृशन् ।
मुखं संसृज्य कर्णांते शब्दमुच्चैः समुच्चरन् २६।
ज्ञान प्रबुद्ध्य्तां शीघ्रं वैराग्यप्रतिबुध्यताम् ।
वेदवेदांतघोषैश्च गीता पाठैर्मुहुर्मुहुः २७।
बोध्यमानौ तदा तेन कथंचिद्बोधमागतौ ।
नेत्रैरनवलोकंतौ जृंभंतौ सालसावुभौ २८।
बकवत्पलितौ प्रायः शुष्ककाष्ठसमांगकौ ।
क्षुत्क्षामौ तौ निरीक्ष्यैव पुनः स्वापमुपागतौ २९।
तदा चिंतापरोऽभूवं किं विधेयं मयेति च ।
अहो निद्रा कथं याति वृद्धत्वं चानयोः परम् ३०।
चिंतयन्नित गोविंदं स्मरन्नासं द्विजोत्तमाः ।
व्योमवाणी तदैवाभून्मा ऋषे खिद्यतामिति ३१।
उद्यमस्सफलस्ते तु भविष्यति न संशयः ।
एतदर्थं तु सत्कर्म सुरर्षे त्वं समाचर ३२।
तत्कर्मतेऽभिधास्यंति साधवः साधुभूषणाः ।
सत्कर्मणि कृते तस्मिन्स्वपनं वृद्धतानयोः ३३।
गमिष्यति क्षणाद्भक्तिः सर्वतः प्रसरिष्यति ।
इत्याकाशवचः स्पष्टं निशम्यापि मया द्विजाः ३४।
न ज्ञातं यन्नभोवाण्या गोप्यत्वेन निरूपितं ।
किं तत्कर्म च येनैतौ भवतो ज्ञानसंयुतौ ३५।
क्व भविष्यंति ते संतः कथं वक्ष्यंति कर्म सत् ।
मयात्र किं प्रकर्त्तव्यं यदुक्तं व्योमभाषया ३६।
अथ तौ तत्र संस्थाप्य निर्गतोऽहं बहिर्द्विजाः ।
वृंदारण्यादपृच्छं च यत्र तत्र द्विजोत्तमान् ३७।
वृत्तांतं सर्व एवाथ श्रुत्वा विस्मितमानसाः ।
नैवोत्तरं प्रयच्छंति ह्यनभिज्ञानभोगिरः ३८।
असाध्यं केचन प्रोचुराविज्ञेयमथापरे ।
मूकी बभूवुरन्ये तु चिंतयानाः पुनः पुनः ३९।
वेदवेदांतघोषैश्च गीतापाठैर्मुहुर्मुहुः ।
बोध्यमानं त्रिकं तत्तु नोदतिष्ठदहो विधिः ४०।
योगिना नारदेनापि स्वयं न ज्ञायते तु यत् ।
तत्कथं शक्यते कर्तुमितरैरिह मानुषैः ।
ततश्चिंतातुरश्चाहं बदरीवनमागतः ४१।
तपश्चरामि चात्रैव तदर्थं कृतनिश्चयः ।
तावद्ददर्श पुरतः सनकाद्यान्मुनीश्वरान् ।
कोटिसूर्यसमाभासानुवाच मुनिसत्तमान् ४२।
इदानीं भूरिभागेन भवतां दर्शनं ह्यभूत् ।
तदुपायं महाभागा वदंतु प्रीतमानसाः ४३।
भवंतो योगिनां श्रेष्ठा बुद्धिमंतो बहुश्रुताः ।
कुमारा एवपंचाब्दाः पूर्वेषामपिपूर्वजाः ४४।
सदा वैकुंठनिलया हरिकीर्त्तनतत्पराः ।
लीलामृतकथोन्मत्ता हरिस्मरणतत्पराः ४५।
अतो हि कालदुहिता युष्मान्नैव प्रबाधते ।
येषां भ्रूभंगमात्रेण द्वारपालौ हरेः पुरा ४६।
दैत्यौ भूत्वा त्रिजन्मानि पुनस्तत्स्थानमास्थितौ ।
अशरीरगिरोक्तं यत्किंतत्साधनमुच्यताम् ४७।
अनुष्ठेयं यथा यत्र प्रब्रुवंतु कृपालवः ।
भक्तिज्ञानविरागाणांसुखमुत्पद्यतेयथा ।
ख्यातिर्वः सर्वलोकेषु तथा साधूच्यतां बुधाः ४८।
कुमारा ऊचुः-
मा चिंतां कुरु देवर्षे स्वचित्ते हर्षमावह ।
उपायः सुखासाध्योऽत्र विद्यते विश्वसौख्यदः ४९।
अहो नारद धन्योऽसि विरक्तानां शिरोमणिः ।
श्रीकृष्णप्रेमपात्राणामग्रणीर्वदतां वरः 6.194.५०।
त्वयि चित्रं न देवर्षे भक्तिसाधनतत्परे ।
उचितं कृष्णदासानां भक्तेः संचारणं भुवि ५१।
ऋषिभिर्बहुधा लोके उपायाः सिद्धये कृताः ।
श्रमसाध्याश्च ते सर्वे प्रायः स्वर्गफलप्रदाः ५२।
वैकुंठसाधकः पंथा गुप्तो लोकेषु वर्त्तते ।
तस्योपदेशकः साधुः प्रायो भाग्येन लभ्यते ५३।
यत्ते सत्कर्म निर्दिष्टं व्योमवाचा मुनीश्वर ।
तज्ज्ञेयमिह सर्वज्ञैर्ज्ञानयज्ञः पुरातनैः ५४।
श्रीमद्भागवतालापो ज्ञानयज्ञः शुकोदितः ।
भक्तिज्ञानविरागाणां सुखदः प्रतिभाति नः ५५।
कलिदोषा इमे सर्वे श्रीमद्भागवत ध्वनेः ।
प्रभीताः प्रलयायंते सिंहशब्दाद्वृका इव ५६।
ज्ञानवैराग्यसंयुक्ता भक्तिः प्रेमरसावहा ।
प्रतिगेहं प्रतिजनं सुखक्रीडां करिष्यति ५७।
सूत उवाच-
कुमारोक्तं समाकर्ण्य नारदः प्रीतमानसः ।
पुनः प्रोवाच भगवांस्तदुत्कर्षं विभावयन् ५८।
नारद उवाच-
वेदवेदांतघोषैश्च गीतापाठैः प्रबोधितम् ।
नोदतिष्ठत्त्रिकं तत्तु कलिदोषतिरस्कृतम् ५९।
कथं भागवतालापात्तद्विबोधमिहैष्यति ।
छिंदंतु संशयं ह्येनं भवंतोऽमोघदर्शनाः ६०।
विलंबो नात्र कर्त्तव्यः शरणागतवत्सलाः ।
ततस्ते सनकाद्यास्तु विरक्ता ह्यूर्द्ध्वरेतसः ६१।
सिद्धाः सनातना विप्रा नारदं प्रोचुरादरात् ६२।
कुमारा ऊचुः ।
वेदोपनिषदां साराज्जाता भागवती कथा ।
अत्युत्तमा ततो भाति पृथग्भूता फलोन्नतिः ६३।
आमूलाग्रं रसोस्त्येव रसालस्य यथा फले ।
पृथग्भूतं तु पानेन यथा विश्वमनोहरः ६४।
यथा दुग्धेस्थितं सर्पिर्न च स्वादूपकल्प्यते ।
पृथग्भूतं तु तद्दिव्यं देवानां प्रीतिवर्द्धनम् ६५।
इक्षुष्विवादिमध्यांतं शर्करा व्याप्य तिष्ठति ।
पृथग्भूता तु सा मिष्टा तथा भागवती कथा ६६।
श्रीमद्भागवतं नाम पुराणं रसमेव हि ।
भक्तिज्ञानविरागाणां सौख्यायैव प्रकाशितम् ६७।
कृष्णेन ब्रह्मणे नाभिकंजस्थाय हृदैव हि ।
तच्चतुःश्लोकमखिलं ब्रह्मैव प्रतिभासते ६८।
तुभ्यं च ब्रह्मणा प्रोक्तं तच्चरित्रनिदर्शनम् ।
त्वयापि व्यासदेवाय प्रोक्तं तत्तापहानये ६९।
यदीयस्मरणात्सद्यो निर्विण्णो बादरायणः ।
चकार महदाख्यातुमात्माराम मनोहरम् ७०।
अत्र ते विस्मयः केन येन पृच्छेः पुनः पुनः ।
श्रीमद्भागवतं शास्त्रं क्षमं कृष्णानुकर्षणे ७१।
सूत उवाच-
एतन्निशम्य वचनं समुदाहृतं तु योगीश्वरैः सनकमुख्यतमैरभीष्टम् ।
भक्त्या विधृत्य चरणं च प्रणम्य मूर्ध्ना हृष्टो जगाद जगदाधिनिवर्त्तकांस्तान् ७२।
नारद उवाच-।
संदर्शनं च भवतां विनिहंत्यघौघं श्रेयस्तनोति भवदुःखदवार्दितानाम् ।
निःशेषशेषमुखगीतकथैकपानात्प्रेमप्रकाशनकृते शरणं गतो वः ७३।
पुण्योदयेन बहुजन्मसमर्जितेन सत्संगमो यदि भवेत्कृतिनो जनस्य ।
अज्ञानहेतुकृतमोहमहांधकारो नश्येत्तदा ह्युदयमेति महान्विवेकः ७४।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्रयां संहितायामुत्तरखंडे।
श्रीभागवतमाहात्म्ये चतुर्नवत्यधिकशततमोऽध्यायः १९४।