पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १४९

विकिस्रोतः तः
← अध्यायः १४८ पद्मपुराणम्
अध्यायः १४९
वेदव्यासः
अध्यायः १५० →

महादेव उवाच।
तीर्थादस्मात्परं तीर्थं मालार्कांतरतः स्थितम् ।
चंदनेश्वरमागच्छेदामोदस्थानमुत्तमम् १।
दुःशासनस्य रुधिरं पीत्वा भीमो महाबलः ।
प्रतिज्ञामात्मनः सर्वां पूरयित्वा सुदारुणाम् २।
कराभ्यां रुधिराक्ताभ्यां द्रौपद्याः केशबंधनम् ।
कृत्वा दत्त्वा द्विजातिभ्यो तीर्थयात्रां ततोऽगमत् ३।
साभ्रमत्यास्तटे रम्ये गतो वै भ्रातृभिः सह ।
आनीतः साभ्रमत्यां यः स्वर्गाच्चंदनपादपः ४।
स तु लिंगतया जातः पुण्यतीर्थप्रभावतः ।
तत्र स्नात्वा च पीत्वा च कृत्वा वै पितृतर्पणम् ५।
न नरो निरयं गच्छेद्रुद्रलोकमवाप्नुयात् ।
चंदनेशं ततो दृष्ट्वा विश्वेशं लोकशंकरम् ६।
पूजयेच्च यथाशक्त्या यत्र गत्वा न शोचति ।
यत्र कैवर्तको राजा पूजां कृत्वा ह्यनेकशः ७।
स गतः शिवलोकं तं यत्र गत्वा न शोचति ।
मज्जंति ऋषयो यत्र यत्र देवः सनातनः ८।
साक्षाद्विष्णुः परमात्मा नित्यं तिष्ठति भूतिदः ।
इयं साभ्रमती धन्या धन्यो विश्वेश्वरः प्रभुः ९।
यत्र तीर्थान्यनेकानि जातानि भुवि पार्वति ।
अत्र चामर्दकीपुण्यैः फलैर्नानाविधैः शुभैः १०।
कर्त्तव्यमर्घदानं च विधिना तत्र सुंदरि ११।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे चंदनेश्वरमाहात्म्यं नामैकोनपंचाशदधिकशततमोऽध्यायः १४९।