पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १४८

विकिस्रोतः तः
← अध्यायः १४७ पद्मपुराणम्
अध्यायः १४८
वेदव्यासः
अध्यायः १४९ →

महादेव उवाच।
साभ्रमत्यास्तटे तीर्थं गयातीर्थमनुत्तमम् ।
चित्रांगवदनं नाम मालार्काधिष्ठितं शुभम् १।
कल्पपादपसंतानैर्मंदारैश्चोपशोभितम् ।
चूतनिंबकदंबैश्च काश्मर्यश्वत्थतिंदुकैः २।
तस्मादपहरेत्कुष्ठं योजनस्मृतिविभ्रमात् ।
यस्य संजायते कुष्ठं तस्य मालार्कको हरेत् ३।
या तु वेदोक्तविधिना नारी तत्राभिषिंचति ।
मृतवत्साऽथवा वंध्या पुत्रं प्राप्नोति साचिरात् ४।
संध्यास्नानं जपो होमः स्वाध्यायो देवतार्चनम् ।
कृतं भास्करभक्तेन मालार्के ह्यक्षयं भवेत् ५।
अत्र गत्वा तु देवेशि श्रीरवेर्व्रतमाचरेत् ।
इहलोके सुखं भुक्त्वा रवेर्लोकं हि याति वै ६।
मृतवत्सो हि राजर्षिस्तत्र गत्वाऽकरोत्तपः ।
स राजा प्राप्तवान्पुत्रं श्रीमालार्कप्रसादतः ७।
अत्र गत्वा विशेषण उपवासी जितेंद्रियः ।
मालार्कं पूजयेद्यो वै मुक्तिभागी भवेद्ध्रुवम् ८।
वसिष्ठप्रमुखाविप्रा देवा इंद्रादयः सदा ।
निवसंति सुरश्रेष्ठे मालार्के रविसन्निधौ ९।

इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे मालार्कतीर्थं नाम अष्टचत्वारिंशदधिकशततमोऽध्यायः १४८।