पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २२५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २२४ पद्मपुराणम्
अध्यायः २२५
वेदव्यासः
अध्यायः २२६ →

शंकर उवाच-
ऊर्द्ध्वपुंड्रस्य माहात्म्यं वक्ष्यामि शुभदर्शने
धारणादेव मुच्येत भवबंधाद्द्विजोत्तमः १
ऊर्द्ध्वपुंड्रस्य मध्ये तु विशाले सुमनोहरे
लक्ष्म्या सार्द्धं समासीनो देवदेवो जनार्दनः २
तस्माद्यस्य शरीरे तु ऊर्द्ध्वपुंड्रं धृतो भवेत्
तस्यदेहं भगवतो विमलं मंदिरं शुभम् ३
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः
धारयेदूर्द्ध्वपुंड्रं यो मृदाशुभ्रेण वैष्णवः ४
ऊर्द्ध्वपुंड्रधरो विप्रः सर्वलोकेषु पूजितः
विमानवरमारुह्य याति विष्णोः परं पदम् ५
धारयेदूर्द्ध्वपुंड्रं तु त्रिसंध्यं तु द्विजोत्तमः
सर्वपापविशुद्ध्यर्थमिष्टापूर्तफलाप्तये ६
ऊर्द्ध्वपुंड्रधरं दृष्ट्वा सर्वपापैः प्रमुच्यते
नमस्कृत्वाथवा भक्त्या सर्वदानफलं लभेत् ७
ऊर्द्ध्वपुंड्रधरं विप्रं यः श्राद्धे भोजयिष्यति
आकल्पकोटिपितरस्तस्य तृप्ता न संशयः ८
ऊर्द्ध्वपुंड्रधरो यस्तु कुर्याछ्रांद्धं शुभानने
कल्पकोटिसहस्राणि गयाश्राद्धफलं लभेत् ९
यज्ञदानतपश्चर्या जपहोमादिकं च यत्
ऊर्द्ध्वपुंड्रधरः कुर्यात्तस्य पुण्यमनंतकम् १०
ऊर्द्ध्वपुंड्रविहीनस्तु किंचित्कर्म करोति यः
इष्टापूर्तादिकं सर्वं निष्फलं स्यान्न संशयः ११
यच्छरीरं मनुष्याणामूर्द्ध्वपुंड्र विवर्जितम्
द्रष्टव्यं नैव तत्किंचित्श्मशानसदृशं भवेत् १२
ऊर्द्ध्वपुंड्रविहीनस्तु सन्ध्याकर्मादिकं चरेत्
तत्सर्वं राक्षसैर्नीतं नरकं चावगच्छति १३
ऊर्द्ध्वपुंड्रधरोद्विप्रो मृदाशुभ्रेण वैदिकः
न तिर्यग्धारयेद्विद्वानापद्यपि कदाचन १४
विप्राणामूर्द्ध्वपुंड्रं स्यात्तिलकं तु महीभृतः
पट्टाकारं तु वैश्यानां शूद्राणां वै त्रिपुंड्रकम् १५
ऊर्द्ध्वपुंड्रं मृदा कार्यं कस्तूर्य्यास्तिलकं तथा
पट्टाकारं तु गंधेन भस्मनैव त्रिपुंड्रकम् १६
ऊर्द्ध्वपुंड्रं तु सर्वेषां न निषिद्धं कदाचन
धारयेत्क्षत्रियाद्योऽपि विष्णुभक्तो भवेद्यदि १७
विप्राणां नैव कार्य्यं स्यात्तिर्य्यक्पट्टादिधारणम्
नारायणात्परेशानादन्येषामर्चनं न तु १८
ब्राह्मणः कुलजो विद्वान्भस्मधारी भवेद्यदि
वर्जयेत्तादृशं देवि मद्योच्छिष्टं घटं यथा १९
त्रिपुंड्रं शूद्रकल्पानां शूद्राणां च विधिस्तथा
त्रिपुंड्र धारणाद्विप्रः पतितः स्यान्न संशयः २०
एकांतिनो महाभागाः सर्वभूतहिते रताः
सांतरालं प्रकुर्वीरन्पुंड्रं हरिपदाकृतिम् २१
हरेः पादाकृतिं कुर्यादूर्द्ध्वपुंड्रं विधानतः
मध्यछिद्रेण संयुक्तं तद्धि वै मंदिरं हरेः २२
ऊर्द्ध्वपुंड्रमृजुं सौम्यं सुपार्श्वं सुमनोहरम्
दंडाकारं सुशोभाढ्यं मध्येछिद्रं प्रकल्पयेत् २३
तस्माच्छिद्रान्वितं पुंड्रं दण्डाकारं सुशोभनम्
विप्राणां सततं कार्यं स्त्रीणां च शुभदर्शने २४
ऊर्ध्वपुण्ड्रस्य मध्ये तु विशाले सुमनोहरे
सान्तराले समासीनो हरिरस्ति श्रिया सह २५
निरन्तरालं यः कुर्यादूर्द्ध्वपुंड्रं द्विजाधमः
स हि तत्रस्थितं विष्णुं श्रियं चैव व्यपोहति २६
अच्छिद्रमूर्द्ध्वपुंड्रं तु ये कुर्वंति द्विजाधमाः
तेषां ललाटे सततं शुनःपादो न संशयः २७
तस्माच्छिद्रान्वितं पुंड्रं सहरिद्रं शुभान्वितम्
धारयेद्ब्राह्मणो नित्यं हरिसालोक्यसिद्धये २८
आदाय परया भक्त्या वेङ्कटाद्रौ हृदे मृदम्
धारयेदूर्ध्वपुण्ड्राणि हरिसायुज्यसिद्धये २९
श्रीकृष्णतुलसीमूले मृदमादाय भक्तिमान्
धारयेदूर्द्ध्वपुंड्राणि हरिस्तत्र प्रसीदति ३०
द्वारवत्यां शुभे रम्ये वासुदेवहृदे तथा
तत्रोद्भवां मृदं रम्यामादाय द्विजसत्तमः ३१
धारयेदूर्द्ध्वपुंड्रांणि सर्वकामफलाप्तये
आदाय परया भक्त्या गंगातीरोद्भवां मृदम् ३२
तया धृतोर्द्ध्वपुंड्राणि सर्वयज्ञफलो लभेत्
चंदनं च हरिद्रा च तथा भस्माग्निहोत्रजम् ३३
सर्ववश्यकरं प्रोक्तमूर्द्ध्वपुंड्रस्य धारणात्
यत्र पुण्यं हरिक्षेत्रं तत्र वै मृदमाहरेत् ३४
पर्वताग्रे नदीतीरे बिल्वमूले जलाशये
सिंधुतीरे च वल्मीके हरिक्षेत्रे विशेषतः ३५
विष्णोः स्नानोदकं यत्र प्रवाहयति नित्यशः
पुंड्राणां धारणार्थाय गृह्णीयात्तत्र मृत्तिकाम् ३६
श्रीरङ्गे वेङ्कटाद्रौ च श्रीकूर्मे द्वारके शुभे
प्रयागेनारसिंहाद्रौ वाराहे तुलसीवने ३७
गृहीत्वा मृत्तिकां भक्त्या विष्णुपादजलैः सह
धृत्वा पुंड्राणि चांगेषु विष्णुसायुज्यमाप्नुयात् ३८
यस्मिन्कस्मिन्महाभागा वैष्णवा धारयंति वै
तस्मिन्वै मृत्तिका ग्राह्या ऊर्द्ध्वपुंड्रस्य धारणे ३९
श्यामं शांतिकरं प्रोक्तं रक्तं वश्यकरं तथा
श्रीकरं पीतमित्याहुः श्वेतं मोक्षकरं शुभम् ४०
वर्तुलं तिर्यगछिद्रं ह्रस्वं दीर्घं ततं तनुम्
वक्रं विरूपं बद्धाग्रं छिन्नमूलं पदच्युतम् ४१
अशुभं रूक्षमासक्तं तथानंगुलिकल्पितम्
विगंधमवसह्यं च पुंड्रमाहुरनर्थकम् ४२
आरभ्य नासिकामूलं ललाटं तं लिखेन्मृदा
समारभ्य भ्रुवोर्मध्यमंतरालं प्रकल्पयेत् ४३
अंतरालं द्व्यंगुलं स्यात्पार्श्वावंगुलिमात्रकौ
मृदा शुभ्रेण विलिखेत्पुण्ड्रं ऋजुतरं शुभम् ४४
ललाटे केशवं ध्यायेन्नारायणमथोदरे
वक्षस्थले माधवं च गोविंदं कंठकूबरे ४५
विष्णुं च दक्षिणे कुक्षौ बाहौ च मधुसूदनम्
त्रिविक्रमं कंधरे तु वामनं वामपार्श्वके ४६
श्रीधरं बाहुके वामे हृषीकेशं तु कंधरे
पृष्ठे वै पद्मनाभं तु त्रिके दामोदरं न्यसेत् ४७
तत्प्रक्षालनतोयेन वासुदेवं तु मूर्द्धनि
ललाटे भुजयुग्मे तु पृष्ठयोः कंठकूबरे ४८
धारयेदूर्द्ध्वपुंड्रं तु चतुरंगुलमात्रतः
कुक्षौ तत्पार्श्वयोः प्रोक्तमायतं तु दशांगुलम् ४९
बाह्वोर्वक्षस्थले पुंड्रंमष्टांगुलमुदाहृतम्
एवं द्वादशपुंड्राणि ब्राह्मणः सततं धरेत् ५०
तत्तत्पुण्ड्राणि तन्मूर्तीर्ध्यात्वा मंत्रेण धारयेत्
अंतरालेषु सर्वेषु हरिद्रां धारयेच्छ्रियाम् ५१
चत्वारि भूभृतामाहुः पुंड्राणि द्वे विशां स्मृते
एकपुंड्रं तु नारीणां शूद्राणां च विधीयते ५२
ललाटे हृदि बाह्वोश्च चतुःपुंड्राणि धारयेत्
ललाटे हृदये द्वे तु फालेत्वेकं विधीयते ५३
ऊर्द्ध्वपुंड्रं ललाटे तु सर्वेषां प्रथमं स्मृतम्
ललाटादिक्रमेणैव धारणं तु विधीयते ५४
मूर्तीस्तु वासुदेवाद्याश्चतुःपुंड्रेषु धारयेत्
द्वयोर्गोविंदकृष्णौ तु एकं नारायणं धरेत् ५५
एवं पुंड्रविधिः प्रोक्तः सर्वेषां गिरिजे मया
अश्वत्थपत्रसंकाशो वेणुपत्राकृतिस्तथा ५६
पद्मकुड्मलसंकाशो मोहनं त्रितयं स्मृतम्
महाभागवतः शुद्धः पुंड्रं हरिपदाकृतिम् ५७
दंडाकारं तु वा देवि धारयेदूर्द्ध्वपुंड्रकम्
सुदर्शनेनांकितबाहुमूलास्तथोर्द्ध्वपुंड्रांकित सर्वगात्राः ५८
मालारविंदाक्षधरा विशुद्धा रक्षंति लोकान्दुरितौघसंगात् ५९
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे ऊर्द्ध्वपुंड्रमाहात्म्यंनाम पंचविंशत्यधिकद्विशततमोऽध्यायः २२५