पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २३९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः २३८ पद्मपुराणम्
अध्यायः २३९
वेदव्यासः
अध्यायः २४० →

रुद्र उवाच-
प्रह्लादस्य सुतो जज्ञे विरोचन इतीरितः ।
तस्य पुत्रो महाबार्हुबलिर्वैश्वानरः प्रभुः १।
स तु धर्मविदां श्रेष्ठः सत्यसंधो जितेंद्रियः ।
हरेः प्रियतमो भक्तो नित्यं धर्मरतः शुचिः २।
स जित्वा सकालान्देवान्सेंद्रांश्च समरुद्गणान् ।
त्रींल्लोकान्स्ववशे स्थाप्य राज्यं चक्रे महाबलः ३।
अकृष्टपच्या पृथिवी बहुसस्यफलप्रदा ।
गावः पूर्णदुघाः सर्वाः पादपाः फलपुष्पिताः ४।
स्वधर्म्मनिरताः सर्वे नराः पापविवर्जिताः ।
अर्चयंति हृषीकेशं सततं विगतज्वराः ५।
एवं चकार धर्मेण राज्यं दैत्यपतिर्बली ।
इंद्रादित्रिदशास्तस्य किंकराः समुपस्थिताः ६।
ऐश्वर्यं त्रिषु लोकेषु बुभुजे बलदर्प्पहृत् ।
भ्रष्टराज्यं सुतं दृष्ट्वा तस्यापि हितकाम्यया ७।
कश्यपो भार्यया सार्द्धं तपस्तेपे हरिं प्रति ।
अदित्या सह धर्मात्मा पयोव्रतसमन्वितः ८।
अर्चयामास देवेशं पद्मनाभं जनार्दनम् ।
ततो वर्षसहस्राणि तेन संपूजितो हरिः ९।
तत्रैवाविरभूत्तस्य देव्या सह सनातनः ।
तं दृष्ट्वा पुंडरीकाक्षं शंखचक्रगदाधरम् १०।
इंद्रनीलमणिश्यामं सर्वाभरणभूषितम् ।
स्फुरत्किरीटकेयूरहारकुंडलशोभितम् ११।
कौस्तुभोद्भासितोरस्कं पीतवस्त्रेण वेष्टितम् ।
श्रिया सह समासीनं मंडलेंद्रे महात्मनि १२।
तं दृष्ट्वा जगतामीशं हर्षनिर्भरचेतसा ।
पत्न्या सह नमस्कृत्वा तुष्टाव द्विजसत्तमः १३।
कश्यप उवाच-
नमो नमस्ते लक्ष्मीश सर्वज्ञ जगदीश्वर ।
सर्वात्मन्सर्वदेवेश सृष्टिसंहारकारकः १४।
अनादिनिधनानंतवपुषे विश्वधारिणे ।
नमस्ते वेदवेदांग वपुषे सर्वचक्षुषे १५।
सर्वात्मने नमस्तुभ्यं नमः सूक्ष्मतराय च ।
कल्याणगुणपूर्णाय योगिध्येयात्मने नमः १६।
नमो युवकुमाराय श्रीभूलीलाधिपाय च ।
नित्यमुक्तैकभोगाय परधाम्नि स्थिताय च १७।
चतुरात्मन्नमस्तुभ्यं चतुर्व्यूह नमोस्तु ते ।
पंचावस्थाय ते तुभ्यं नमस्ते पंचमात्मकम् १८।
पंचमात्मकनिष्ठैस्तु योगिभिः पूज्यसे सदा ।
पंचार्थतत्वविदुषां पंचसंस्कारसंस्थितः १९।
पंचापरं स्वरूपं ते विज्ञेयं सततं हरे ।
चतुर्धा परिपूर्णात्मन्नियतं कवयो विदुः २०।
त्वत्प्रसूतिं जगत्सर्वं पुनंति तव किंकराः ।
त्रयीमयाः कर्म्मनिष्ठा ये द्विजा भक्तवत्सलाः २१।
तेषां दये क्षणादेव भवबंधविमुक्तये ।
नमोस्तु त्रिजगद्धात्रे स्वयं धात्रेऽखिलात्मने २२।
धात्रे विधात्रे विश्वाय विश्वरूपाय ते नमः ।
नारायणाय कृष्णाय वासुदेवाय शार्ङ्गिणे ।
विष्णवे जिष्णवे तुभ्यं शुद्धसत्वाय ते नमः २३।
महादेव उवाच-
इत्यादिस्तुतिभिः सम्यक्स्तूयमानो महर्षिणा ।
प्राह गंभीरया वाचा परितुष्टो जनार्दनः २४।
श्रीभगवानुवाच-
संतुष्टोऽहं द्विजश्रेष्ठ त्वया भक्त्या समर्च्चितः ।
वरं वृणीष्व भद्रं ते करोमि तव वांछितम् २५।
महादेव उवाच-
ततः प्राह हृषीकेशं भार्य्यया सह कश्यपः २६।
कश्यप उवाच-
पुत्रत्वं मम देवेश संप्राप्य त्रिदशां हितम् ।
कुरुष्व बलिना देव त्रैलोक्यं निर्जितं बलात् २७।
इंद्रस्यावरजो भूत्वा उपेंद्र इति विश्रुतः ।
येनकेन च मार्गेण बलिं निर्जित्य मायया ।
त्रैलोक्यं मम पुत्राय देहि शक्राय शाश्वतम् २८।
महादेव उवाच-
इत्युक्तस्तेन विप्रेण तथेत्याह जनार्द्दनः ।
संस्तूयमानस्त्रिदशैस्तत्रैवांतरधीयत २९।
एतस्मिन्नेव काले तु कश्यपस्य महात्मनः ।
अदित्यागर्भमागच्छद्भगवान्भूतभावनः ३०।
तस्मिन्काले बलिर्यागं दीर्घसत्रं महातपाः ।
अष्टमहर्षिभिं सार्द्धमारेभे तद्विधानतः ३१।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे वामनप्रादुर्भावोनामैकोनचत्वारिंशदधिकद्विशततमोऽध्यायः २३९।