पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २३८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २३६ पद्मपुराणम्
अध्यायः २३८
वेदव्यासः
अध्यायः २३९ →

रुद्र उवाच-
भ्रातरं निहतं ज्ञात्वा हिरण्यकशिपुस्ततः
तपस्तेपे महादैत्यो मेरोः पार्श्वे च मां प्रति १
दिव्यवर्षसहस्राणि वायुभक्षो महाबलः
जपन्पंचाक्षरं मंत्रं पूजयामास मां शुभे २
ततः प्रहृष्टमनसा तमवोचं महासुरम्
वरं वृणीष्व दैतेय यत्ते मनसि वर्त्तते
ततः प्रोवाच दैतेयो मां प्रसन्नं शुभानने ३
हिरण्यकशिपुरुवाच-
देवासुरमनुष्याणां गंधर्वोरगरक्षसाम्
पशुपक्षिमृगाणां च सिद्धानां वै महात्मनाम् ४
यक्षविद्याधराणां च किन्नराणां तथैव च
सर्वेषामेव रोगाणामायुधानां तथैव च
सर्वेषामृषिमुख्यानामवध्यत्वं प्रयच्छ मे ५
रुद्र उवाच-
एवमस्त्विति तद्रक्षस्त्वब्रुवं प्रियदर्शने
मत्तो महद्वरं प्राप्य स दैतेयो महाबलः ६
जित्वा महेंद्रं देवांश्च स त्रैलोक्येश्वरोऽभवत्
सर्वांश्च यज्ञभागांश्च स्वयमेवाग्रहीद्बलात् ७
त्रातारं नाधिगच्छंति देवतास्तेन निर्जिताः
तस्यैव किंकराः सर्वे गंधर्वा देवदानवाः ८
यक्षाश्चनागाः सिद्धाश्च साध्याश्च वशवर्तिनः
उत्तानपादस्य सुतां कल्याणीं नाम कन्यकाम् ९
उपयेमे विधानेन दैत्यराजो महाबलः
तस्यां जातो महातेजाः प्रह्लादो दैत्यराट्शुभे १०
अनुरक्तो हृषीकेशे गर्भवासेऽपि यो हरौ
सर्वावस्थासु कृत्येषु मनोवाक्कायकर्म्मभिः ११
नान्यं जानाति देवेशात्प्रसन्नात्मा सनातनात्
स कालेऽपि विनीतः सन्गुरुगेहे वसत्सुधीः १२
अधीत्य सर्ववेदांश्च शास्त्राणि विविधानि च
कस्यचित्त्वथ कालस्य गुरुणा सह दैत्यजः १३
पितुः समीपमागत्य ववंदे विनयान्वितः
तं परिष्वज्य बाहुभ्यां तनयं शुभलक्षणम्
अंके निधाय दैत्येंद्रः प्रोवाचेदं सुविस्मितम् १४
हिरण्यकशिपुरुवाच-
प्रह्लाद चिरकालं त्वं गुरुगेहे निवेशितः
यदुक्ता गुरुणा विद्या तन्ममाचक्ष्व सुव्रत १५
रुद्र उवाच-
इति पृष्टः स्वपित्रा वै प्रह्लादो जन्मवैष्णवः
प्राह दैत्येश्वरं प्रीत्या वचनं कलुषापहम् १६
प्रह्लाद उवाच-
यो वै सर्वोपनिषदामर्थः पुरुष ईश्वरः
तं वै सर्वगतं विष्णुं नमस्कृत्वा ब्रवीमि ते १७
रुद्र उवाच-
इति विष्णुस्तुतिं श्रुत्वा दैत्यराड् विस्मयान्वितः
उवाच तं गुरुं रोषात्किं त्वयोक्तं ममात्मजे १८
ममात्मजस्य दुर्बुद्धे हरिसंस्तवमीदृशम्
किमर्थमुक्तवान्जाड्यमकार्य्यं ब्राह्मणोचितम् १९
अश्राव्यं मदमित्रस्य स्तवमेतं ममाग्रतः
बालेनापिकृतंत्वेतत्त्वत्प्रसादाद्दिवजाधम २०
इत्युक्त्वा परितो वीक्ष्य दैत्यराट्क्रोधमूर्च्छितः
उवाच दैत्यमेकं तु बंधयैनं द्विजाधमम् २१
इतिराजवचः श्रुत्वा स बबंध भृगोः सुतम्
बध्यमानं गुरुं दृष्ट्वा प्रह्लादो ब्राह्मणप्रियः
उवाच पितरं तात इदं मे नोक्तवान्गुरुः २२
कृपया देवदेवस्य शिक्षितोस्मि हरेः प्रभो
नान्यो गुरुर्मे भवति स एव प्रेरको हरिः २३
श्रोता मंता तथा वक्ता द्रष्टा सर्वग ईश्वरः
हरिरेवाक्षयः कर्त्ता नियंता सर्वदेहिनाम्
तस्मादनागसो विप्रो मोक्तव्योऽयं गुरुः प्रभो २४
रुद्र उवाच-
इति पुत्रवचः श्रुत्वा हिरण्यकशिपुस्ततः
तं ब्राह्मणं मोचयित्वा स्वसुतं प्राह विस्मयात् २५
किं वत्स त्वं भ्रमस्येवं मिथ्यावाक्यैर्द्विजन्मनः
को विष्णुः किं तु तद्रूपं कुत्रासौ संस्थितो हरिः २६
अहमेवेश्वरो लोके त्रैलोक्याधिपतिर्यतः
मामेवार्च्चय गोविंदं त्यज शत्रुं दुरासदम् २७
अथवा शंकरं देवं रुद्रं लोकगुरुं प्रभुम्
अर्च्चयस्वासुराध्यक्षं सर्वैश्वर्य्यप्रदं शिवम् २८
त्रिपुंड्रधारणं कृत्वा भस्मना दैत्यपूजितम्
पूजयित्वा महादेवं पाशुपत्योक्तमार्गतः २९
रुद्र उवाच-
इति दैत्यपतेर्वाक्यं श्रुत्वा दैत्यपुरोहिताः ३०
पुरोहिता ऊचुः-
एवमेव महाभाग कुरुष्व वचनं पितुः
त्यज शत्रुं कैटभारिं पूजयस्व त्रिलोचनम् ३१
रुद्रात्परतरो देवो नास्ति सर्वप्रदो नॄणाम्
पिता तवापि तस्यैव प्रसादादीश्वरोऽभवत् ३२
रुद्र उवाच-
इति तेषां वचः श्रुत्वा प्रह्लादो जन्मवैष्णवं ३३
प्रह्लाद उवाच-
अहो भगवतः श्रेष्ठा यन्माया मोहितं जगत्
अहो वेदांतविदुषः सर्वलोकेषु पूजिताः ३४
ब्राह्मणा अपि चापल्याद्वदंत्येवं मदान्विताः
नारायणः परं ब्रह्म तत्वं नारायणः परम् ३५
नारायणः परो ध्याता ध्यानं नारयणः परम्
गतिर्विश्वस्य जगतः शाश्वतं शिवमच्युतः ३६
धाता विधाता जगतो वासुदेवः सनातनः
विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति ३७
हिरण्मयवपुर्नित्यःपुंडरीकनिभेक्षणः
श्रीभूलीलापतिः सौम्योनिर्म्मलः शुभविग्रहः ३८
तेनैव सृष्टौ ब्रह्मेशौ सर्गे देवोत्तमौ विभू
तस्यैवाज्ञां पुरस्कृत्य वर्त्तेते ब्रह्मशंकरौ ३९
भीषास्माद्वाति पवनो भीषोदेति दिवाकरः
भीषास्मादग्निश्चंद्रोऽथ मृत्युर्धावति पंचमः ४०
आसीदेको हरिर्दिव्यो देवो नारायणः परः
ब्रह्मा नेंद्रो न चेशानो न च चंद्र दिवाकरौ ४१
न वा द्यावापृथिव्यौ च नक्षत्राणि दिवौकसः
तस्य विष्णोः परं धाम सदा पश्यंति सूरयः ४२
एवं सर्वोपनिषदामर्थं हित्वा द्विजोत्तमाः
रागाल्लोभाद्भयाद्वापि किं ब्रवीथ ममाग्रतः ४३
तं सर्वरक्षकं देवं त्यक्त्वा सर्वेश्वरं हरिम्
कथं पाषंडमाश्रित्य पूजयामि च शंकरम् ४४
लक्ष्मीपतिं देवदेवमनंतं पुरुषोत्तमम्
इंदीवरदलश्यामं पद्मपत्रायतेक्षणम् ४५
श्रीवत्सलक्षितोरस्कं सर्व्वाभरणभूषितम्
सदा कुमारं सर्व्वेशं नित्यानन्दसुखप्रदम् ४६
कृष्णं दध्युर्महात्मानो योगिनः सनकादयः
यमर्चयंति ब्रह्मेश शक्राद्या देवतागणाः ४७
यस्य पत्न्याः कटाक्षार्द्धदृष्ट्या दृष्टा दिवौकसः
ब्रह्मेंद्र रुद्र वरुण यम सोम धनाधिपाः ४८
यन्नामस्मरणादेव पापिनामपि सत्वरम्
मुक्तिर्भवति जंतूनां ब्रह्मादीनां सुदुर्लभा ४९
स एवं रक्षकः श्रीशो देवानामपि सर्वदा
तमेव पूजयिष्यामि लक्ष्म्या संयुतमच्युतम् ५०
प्राप्स्यामि सुसुखेनैव तद्विष्णोः परमं पदम्
रुद्र उवाच-
इति तस्य वचः श्रुत्वा हिरण्यकशिपुस्ततः ५१
क्रोधेन महताविष्टो जज्वालाग्निरिवापरः
परितो वीक्ष्य दैतेयानित्याह क्रोधमूर्छितः ५२
हिरण्यकशिपुरुवाच -
भीषणैः शस्त्रसंघातैः प्रह्लादं पापकारिणम्
ममाज्ञया घातयध्वं शत्रुपूजनतत्परम् ५३
रक्षिता हरिरेवेति रक्षते तेन वात्सलात्
अद्यैव सफलं तस्य पश्येयं हरिरक्षणम् ५४
रुद्र उवाच-
तदोद्यतास्त्रा दैतेया हंतुं दैत्येश्वरात्मजम्
परिवार्य महात्मानं तस्थुर्दैत्येश्वराज्ञया ५५
प्रह्लादोऽपि तथा विष्णुं ध्यात्वा हृदयपंकजे
जपन्नष्टाक्षरं मंत्रं तस्थौ गिरिरिवापरः ५६
तं जघ्नुः परितो वीराः शूलतोमरशक्तिभिः
प्रह्लादस्य वपुस्तत्र हरिसंस्मरणाच्छुभे ५७
विष्णोः प्रभावाद्दुद्धर्षाद्वज्रभूतमभूद्भृशम्
ततः संप्राप्य तद्गात्रं महास्त्राणि सुरद्विषाम् ५८
नीलोत्पलदलानीव पेतुश्चिछन्नाः क्षितौ शुभे
अल्पमप्यस्य तद्गात्रं भेत्तुं दैत्या न च क्षमाः ५९
विस्मितावाङ्मुखास्तस्थुर्दैत्य राजांतिके भटाः
तादृग्विधं महात्मानं दृष्ट्वा पुत्रं महाबलम् ६०
विस्मयं परमं गत्वा दैत्यराट्क्रोधमूर्छितः
आदिदेश ततः सर्वान्दंदशूकान्महाविषान् ६१
वासुकिप्रभृतीन्भीमान्खादयध्वमिति क्रुधा
आदिष्टास्तेन राज्ञाथ ते नागाः सुमहाबलाः ६२
ज्वलितास्या महाभीमास्तं च खादुर्महाबलम्
गरुडध्वजभक्तं तं विदश्य गरलायुधाः ६३
निर्विषाश्च्छिन्नदशना बभूवुरनिलाशनाः
वैनतेयसहस्रेण छिन्नगात्राः सुविह्वलाः ६४
प्रदुद्रुवुर्दिशः सर्वावमंतो रुधिरं भृशम्
तादृग्विधान्महासर्पान्दृष्ट्वा दैत्यपतिस्तदा ६५
आदिदेश ततः क्रुद्धो दिग्गजान्सुमदान्वितान्
निर्दिष्टास्तेन राज्ञाथ दिग्गजाश्च मदोद्धताः ६६
परिवार्याथ तं जघ्नुर्दंतैः पृथुतरैर्भृशम्
अथ दिग्गजदंताश्च छिन्नमूलाः पतन्भुवि ६७
दंतैर्विनाकृता नागा भयार्ता वै प्रदुद्रुवुः
तान्दृष्ट्वाथ महानागान्दैत्येंद्रः कुपितो बली ६८
प्रज्वाल्य च महावह्निं चिक्षेप सुतमात्मनः
जलशायिप्रियं दृष्ट्वा प्रह्लादं हव्यवाहनः ६९
न ददाह च तं धीरं सुशीतः समभूच्छिखी
अदह्यमानं तं बालं दृष्ट्वा राजा सुविस्मितः ७०
प्रादात्तस्मै विषं घोरं सर्वभूतहितं तदा
तस्य विष्णोः प्रभावाच्च विषमस्यामृतं भवेत् ७१
अर्पणात्तस्य देवस्य विषं चामृतमश्नुते
एवमाद्यैर्वधोपायैर्घोररूपैः सुदारुणैः ७२
मोहयित्वात्मजं राजा तस्यावध्यत्वमीक्ष्य च
ततः साम्ना सुतं प्राह दैत्यराड्विस्मयाकुलः ७३
हिरण्यकशिपुरुवाच-
त्वया विष्णोः परत्वं च सम्यगुक्तं ममाग्रतः
व्यापित्वात्सर्वभूतानां विष्णुरित्यभिधीयते ७४
योऽसौ सर्वगतो देवः स एव परमेश्वरः
तस्य सर्वगतत्वं वै प्रत्यक्षं दर्शयस्व मे ७५
ऐश्वर्यशक्तितेजांसि ज्ञानवीर्यबलानि च
परस्य तस्य परमं रूपं गुणविभूतयः ७६
सम्यग्दृष्ट्वा प्रयत्नेन विष्णुं मन्ये दिवौकसाम्
मम प्रतिबलो लोके नास्ति देवेषु कश्चन ७७
ईशानवरदानेन सर्वभूतेष्ववध्यताम्
प्राप्तवान्सर्वभूतानांनदुर्जयत्वं च मानद
ईश्वरत्वं लभेद्विष्णुर्मां जित्वा बलवीर्यतः ७८
रुद्र उवाच-
इति तस्य वचः श्रुत्वा प्रह्लादः प्राह विस्मितः
हरेः प्रभावं दैन्यस्य कथयामास सुव्रतः ७९
प्रह्लाद उवाच-
योऽसौ नारायणः श्रीमान्परमात्मा सनातनः
वसनात्सर्वभूतेषु वासुदेवः स उच्यते ८०
सर्वस्यापि जगद्धाता विष्णुरित्यभिधीयते
न किंचिदस्मादन्यं तु जगत्स्थावर जंगमम् ८१
सर्वत्र चिदचिद्वस्तु रूपं तस्यैव नान्यथा
त्रिपाद्व्याप्तिः परं व्योम्नि पादव्याप्ति कलाद्भुता ८२
योऽसौ चक्रगदापाणिः पीतवासा जनार्दनः
योगिभिर्दृश्यते भक्त्या नाभक्त्या दृश्यते क्वचित् ८३
द्रष्टुं न शक्यो रोषाच्च मत्सराद्वा जनार्दनः
देवतिर्यङ्मनुष्येषु स्थावरेष्वपि जंतुषु
व्याप्य तिष्ठति सर्व्वेषु क्षुद्रेष्वपि महत्सु च ८४
रुद्र उवाच-
इति प्रह्लादवचनं श्रुत्वा दैत्यवरस्तदा
उवाच रोषताम्राक्षो भर्त्सयंश्च सुतं मुहुः ८५
हिरण्यकशिपुरुवाच-
असौ सर्वगतो विष्णुरपि चेत्परमः पुमान्
प्रत्ययं दर्शयस्वाद्य बहुभिः किं च लापितैः ८६
महादेव उवाच-
इत्युक्त्वा सहसा दैत्यः प्रासादस्तंभमात्मनः
ताडयामास हस्तेन प्रह्लादमिदमब्रवीत् ८७
हिरण्यकशिपुरुवाच-
अस्मिन्दर्शय तं विष्णुं यदि सर्वगतो भवेत्
अन्यथा त्वां वधिष्यामि मिथ्यावाक्यप्रलापिनम् ८८
रुद्र उवाच-
इत्युक्त्वा सहसा खङ्गमाकृष्य दितिजेश्वरः
प्रह्लादोरसि चिक्षेप हंतुं खङ्गेन तं रुषा ८९
तस्मिन्क्षणे महाशब्दः स्तंभे संश्रूयते भृशम्
संवर्ताशनिसंरावैः खमिव स्फुटितांतरम् ९०
तेन शब्देन महता दैत्यश्रोत्रविघातिना
सर्वे निपातिता भूमौ छिन्नमूला इव द्रुमाः ९१
बिभ्यंतः संप्लुतं दैत्या मेनिरे वै जगत्त्रयम्
ततः स्तंभे महातेजा निष्क्रांतो वै महाहरिः ९२
चकार स महाघोरं जगत्क्षयनिभं स्वनम्
तेन नादेन महता तारकाः पतिता भुवि ९३
नृसिंहवपुरास्थाय तत्रैवाविरभूद्धरिः
अनेककोटिसूर्य्याग्नि तेजसा स समावृतः ९४
मुखे पंचाननप्रख्यः शरीरे मानुषाकृतिः
दंष्ट्राकरालवदनः स्फुरज्जिह्वाम्बरोद्धतः ९५
ज्वालावलितकेशांतस्तप्तालातेक्षणो विभुः
सहस्रबाहुभिर्दीर्घैः सर्वायुधसमन्वितैः ९६
वृतो मेरुरिवाभाति बहुशाखानगान्वितः
दिव्यमाल्यांबरधरो दिव्याभरणभूषितः ९७
तस्थौ नृकेसरीरूपः संहर्त्तुं सर्वदानवान्
तं दृष्ट्वा घोरसंकाशं नरसिंहं महाबलम् ९८
दग्धाक्षिपक्ष्मो दैत्येंद्रो विह्वलांगः पपात ह
प्रह्लादोऽथ तदा दृष्ट्वा नारसिंहोपमं हरिम् ९९
जयशब्देन देवेशं नमश्चक्रे जनार्दनम्
ददर्श तस्य गात्रेषु नृसिंहस्य महात्मनः १०० 6.238.100
लोकान्समुद्रा न्सद्वीपान्सुरगंधर्वमानुषान्
अजांडानां सहस्रं तु सटाग्रे तस्य दृश्यते १०१
दृश्यंते तस्य नेत्रेषु सोमसूर्य्यादयस्तथा
कर्णयोरश्विनौ देवौ दिशश्च विदिशस्तथा १०२
ललाटे ब्रह्मरुद्रौ च नभो वायुश्च नासिके
इंद्राग्नी तस्य वक्त्रांतेजिह्वायां तु सरस्वती १०३
दंष्ट्रासु सिंहशार्दूलाः शरभाश्च महोरगाः
कंठे च दृश्यते मेरुः स्कंधेष्वपि महाद्रयः १०४
देवतिर्य्यङ्मनुष्याश्च बाहुष्वपि महात्मनः
नाभौ चास्यांतरिक्षं च पादयोः पृथिवीतथा १०५
रोमस्वोषधयः सर्वाः पादपा नखपंक्तिषु
निःश्वासेषु च वेदाश्च साङ्गोपाङ्गसमन्विताः १०६
आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः
सर्वाङ्गेषु प्रदृश्यंते गंधर्वाप्सरसश्च ये १०७
इत्थं विभूतयस्तस्य दृश्यंते परमात्मनः
श्रीवत्सकौस्तुभोरस्कं वनमालाविभूषितम् १०८
शंखचक्रगदाखङ्ग शार्ङ्गाद्यैर्हेतिभिर्युतम्
सर्वोपनिषदामर्थं दृष्ट्वा दैत्येश्वरात्मजः १०९
हर्षाश्रुजलसिक्तांगः प्रणनाम मुहुर्मुहुः
दैत्येंद्रस्तु हरिं दृष्ट्वा क्रोधान्मृत्युवशे स्थितः ११०
योद्धुं खङ्गं समुद्यम्य नृसिंहं तमभिद्रवत्
अथ दैत्यगणाः सर्व्वे लब्धसंज्ञा महाबलाः १११
स्वान्यायुधानि चादाय हरिं जघ्नुस्त्वरान्विताः
पलालकाण्डानि यथा वह्नौ क्षिप्तान्यनेकशः ११२
तथैव भस्मतां यांति महास्त्राणि हरेस्तनौ
तान्यनीकानि दैत्यानां दृष्ट्वा नरहरिस्तदा ११३
सटैर्ददाह च ज्वालामालाविरचित स्फुटैः
नृकेसरि सटोद्भूतवह्निना दानवा भृशम् ११४
निर्भस्मिता गणाः सर्वे निःशेषं तदभूद्बलम्
प्रह्लादं सानुगं हित्वा भस्मिते वीक्ष्य तद्बले ११५
क्रोधाद्दैत्यपतिः खङ्गमाकृष्याभिप्रपद्यत
खङ्गहस्तं तु दैत्येंद्रं जग्राहैकेन बाहुना ११६
पातयामास देवेशो यथा शाखां महानिलः
गृहीत्वा पतितं भूमौ महाकायं नृकेसरी ११७
स्वोत्संगे स्थापयामास ददर्शासौ मुखं हरेः
विष्णुनिंदाकृतंपापंतथावैष्णवदोषजम् ११८
नृसिंहस्पर्शनादेवनिर्भस्मितमभूत्तदा
अथदैत्येश्वरस्याथमहद्गात्रंनृकेसरी ११९
नखेर्विदारयामासतीक्ष्णैर्वज्रनिभैर्घनैः
सनिर्म्मलात्मादैत्येंद्र पःश्यन्साक्षान्मुखं हरेः १२०
नखनिर्भिन्नहृदयः कृतार्थो विजहावसून्
तद्गात्रं शतधा भित्त्वा नखैस्तीक्ष्णैर्महाहरिः १२१
आकृष्यांत्राणि दीर्घाणि कंठे संसक्तवान्प्रियान्
अथ देवगणाः सर्व्वे मुनयश्च तपोधनाः १२२
ब्रह्मरुद्रौ पुरस्कृत्य शनैः स्तोतुं समाययुः
ते प्रसादयितुं भीता ज्वलंतं विश्वतोमुखम् १२३
मातरं जगतां धात्रीं चिंतयामासुरीश्वरीम्
हिरण्यवर्णां हरिणीं सर्व्वोपद्रवनाशिनीम् १२४
विष्णोर्नित्यानवद्यांगीं ध्यात्वा नारायणीं शुभाम्
देवीसूक्तजपैर्भक्त्या नमश्चक्रुः सनातनीम् १२५
तैश्चिंत्यमाना सा देवी तत्रैवाविरभूत्तदा
चतुर्भुजा विशालाक्षी सर्वाभरणभूषिता १२६
दुकूलवस्त्रसहितां दिव्यमालानुलेपनाम्
तां दृष्ट्वा देवदेवस्य प्रियां सर्वे दिवौकसः १२७
ऊचुः प्रांजलयो देवीं प्रसन्नं कुरुते प्रियम्
त्रैलोक्यस्याभयं स्वामी यथा दद्यात्तथा कुरु १२८
रुद्र उवाच-
इत्युक्ता सहसा देवी प्रियं प्राप्य जनार्दनम्
प्रणिपत्य नमस्कृत्य प्रसीदेति उवाच तम् १२९
तां दृष्ट्वा महिषीं स्वस्य प्रियां सर्व्वेश्वरो हरिः
रक्षःशरीरजं क्रोधं तत्याज प्रीतवत्क्षणात् १३०
अंकमादाय तां देवीं समाश्लिष्य दयानिधिः
कृपासुधार्द्रदृष्ट्या वै निरैक्षत सुरान्हरिः १३१
ततो जयजयेत्युच्चैः स्तुवतां नमतां तदा
तद्दयादृष्टिदृष्टानां सानंदः संभ्रमोऽभवत् १३२
ततो देवगणाः सर्वे हर्षनिर्भरमानसाः
ऊचुः प्रांजलयो देवं नमस्कृत्य जगत्पतिम् १३३
देवगणा ऊचुः -
द्रष्टुमत्यद्भुतं तेजो न शक्तास्ते जगत्पते
अत्यद्भुतमिदं रूपं बहुबाहुपदांकितम् १३४
जगत्त्रयसमाक्रांतं तेजस्तीक्ष्णतरं तव
द्रष्टुं स्थातुं न शक्ताः स्मः सर्व्व एव दिवौकसः १३५
महादेव उवाच-
इत्यर्थितस्तु विबुधैस्तेजस्तदतिभीषणम्
उपसंहृत्य देवेशो बभूव सुखदर्शनः १३६
शरत्कोटींदुसंकाशः पुंडरीकनिभेक्षणः
सुधामय सटापुंज विद्युत्कोटिनिभः शुभः १३७
नानारत्नमयैर्दिव्यैः केयूरैः कटकान्वितैः
बाहुभिः कल्पवृक्षस्य शाखौघैरिव सत्फलैः १३८
चतुर्भिः कोमलैर्दिव्यैरन्वितः परमेश्वरः
जपाकुसुमसंकाशैः शोभितः करपंकजैः १३९
शंखचक्रगृहीताभ्यामुद्बाहुभ्यां विराजितः
वरदाभयहस्ताभ्यामितराभ्यां नृकेसरी १४०
श्रीवत्सकौस्तुभोरस्को वनमालाविभूषितः
उद्यद्दिनकाराभ्यां च कुण्डलाभ्यां विराजितः १४१
हारकेयूरकटकैर्भूषणैः समलंकृतः
सव्यांगस्थ श्रियायुक्तो राजते नरकेसरी १४२
लक्ष्मीनृसिंहं तं दृष्ट्वा देवताः समहर्षयः
आनन्दाश्रुजलैः सिक्ता हर्षनिर्भरचेतसः १४३
आनंदसिंधुमग्नास्ते नमश्चक्रुर्निरंतरम्
अर्चयामासुरात्मेशं दिव्यपुष्पसमर्पणैः १४४
रत्नकुंभैः सुधापूर्णैरभिषिच्य सनातनम्
वस्त्रैराभरणैर्गंधैः पुष्पैर्धूपैर्म्मनोरमैः १४५
दिव्यैर्निवेदितैर्दीपैरर्च्चयित्वा नृकेसरिम्
तुष्टुवुः स्तवनैर्दिव्यैर्नमश्चक्रुर्म्मुहुर्म्महुः १४६
ततः प्रसन्नो लक्ष्मीशस्तेषामिष्टान्वरान्ददौ
ततो देवगणैः सार्धं सर्व्वेशो भक्तवत्सलः १४७
प्रह्लादं सर्वदैत्यानां चक्रे राजानमव्ययम्
आश्वास्य भक्तं प्रह्लादमभिषिच्य सुरोत्तमैः १४८
ददौ तस्मै वरानिष्टान्भक्तिं चाव्यभिचारिणीम्
ततो देवगणैः सर्वैः स्तूयमानो नृकेसरी १४९
विकीर्णपुष्पवपुभिस्तत्रैवांतरधीयत
ततः सुरगणाः सर्वे स्वंस्वं स्थानं प्रपेदिरे १५०
पुनश्च यज्ञभागान्स्वान्बुभुजुः प्रीतमानसाः
ततो देवाः सगंधर्वा निरातंकाभवंस्तदा १५१
तस्मिन्हते महादैत्ये सर्व एव प्रहर्षिताः
प्रह्लादस्तु तदा चक्रे राज्यं धर्मेण वैष्णवः १५२
हरेः प्रसादाल्लब्धं तु राज्यं वैष्णवसत्तमः
बहुभिर्यज्ञदानाद्यैरर्चयित्वा नृकेसरिम् १५३
काले हरिपदं प्राप योगिगम्यं सनातनम्
एतत्प्रह्लादचरितं ये तु शृण्वंति नित्यशः १५४
ते सर्वेपापनिर्मुक्ता यास्यंति परमां गतिम्
एतत्ते कथितं देवि नृसिंहं वैभवं हरेः
शेषां च वैभवावस्थां शृणु देवि यथाक्रमम् १५५
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां सहिंतायामुत्तरखंडे उमामहेश्वर
संवादे नृसिंहप्रादुर्भावोनामाष्टत्रिंशदधिकद्विशततमोऽध्यायः २३८