सामग्री पर जाएँ

पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २३८

विकिस्रोतः तः
← अध्यायः २३६ पद्मपुराणम्
अध्यायः २३८
वेदव्यासः
अध्यायः २३९ →

रुद्र उवाच-
भ्रातरं निहतं ज्ञात्वा हिरण्यकशिपुस्ततः ।
तपस्तेपे महादैत्यो मेरोः पार्श्वे च मां प्रति १।
दिव्यवर्षसहस्राणि वायुभक्षो महाबलः ।
जपन्पंचाक्षरं मंत्रं पूजयामास मां शुभे २।
ततः प्रहृष्टमनसा तमवोचं महासुरम् ।
वरं वृणीष्व दैतेय यत्ते मनसि वर्त्तते ।
ततः प्रोवाच दैतेयो मां प्रसन्नं शुभानने ३।
हिरण्यकशिपुरुवाच-
देवासुरमनुष्याणां गंधर्वोरगरक्षसाम् ।
पशुपक्षिमृगाणां च सिद्धानां वै महात्मनाम् ४।
यक्षविद्याधराणां च किन्नराणां तथैव च ।
सर्वेषामेव रोगाणामायुधानां तथैव च ।
सर्वेषामृषिमुख्यानामवध्यत्वं प्रयच्छ मे ५।
रुद्र उवाच-
एवमस्त्विति तद्रक्षस्त्वब्रुवं प्रियदर्शने ।
मत्तो महद्वरं प्राप्य स दैतेयो महाबलः ६।
जित्वा महेंद्रं देवांश्च स त्रैलोक्येश्वरोऽभवत् ।
सर्वांश्च यज्ञभागांश्च स्वयमेवाग्रहीद्बलात् ७।
त्रातारं नाधिगच्छंति देवतास्तेन निर्जिताः ।
तस्यैव किंकराः सर्वे गंधर्वा देवदानवाः ८।
यक्षाश्चनागाः सिद्धाश्च साध्याश्च वशवर्तिनः ।
उत्तानपादस्य सुतां कल्याणीं नाम कन्यकाम् ९।
उपयेमे विधानेन दैत्यराजो महाबलः ।
तस्यां जातो महातेजाः प्रह्लादो दैत्यराट्शुभे १०।
अनुरक्तो हृषीकेशे गर्भवासेऽपि यो हरौ ।
सर्वावस्थासु कृत्येषु मनोवाक्कायकर्म्मभिः ११।
नान्यं जानाति देवेशात्प्रसन्नात्मा सनातनात् ।
स कालेऽपि विनीतः सन्गुरुगेहे वसत्सुधीः १२।
अधीत्य सर्ववेदांश्च शास्त्राणि विविधानि च ।
कस्यचित्त्वथ कालस्य गुरुणा सह दैत्यजः १३।
पितुः समीपमागत्य ववंदे विनयान्वितः ।
तं परिष्वज्य बाहुभ्यां तनयं शुभलक्षणम् ।
अंके निधाय दैत्येंद्रः प्रोवाचेदं सुविस्मितम् १४।
हिरण्यकशिपुरुवाच-
प्रह्लाद चिरकालं त्वं गुरुगेहे निवेशितः ।
यदुक्ता गुरुणा विद्या तन्ममाचक्ष्व सुव्रत १५।
रुद्र उवाच-
इति पृष्टः स्वपित्रा वै प्रह्लादो जन्मवैष्णवः ।
प्राह दैत्येश्वरं प्रीत्या वचनं कलुषापहम् १६।
प्रह्लाद उवाच-
यो वै सर्वोपनिषदामर्थः पुरुष ईश्वरः ।
तं वै सर्वगतं विष्णुं नमस्कृत्वा ब्रवीमि ते १७।
रुद्र उवाच-।
इति विष्णुस्तुतिं श्रुत्वा दैत्यराड् विस्मयान्वितः ।
उवाच तं गुरुं रोषात्किं त्वयोक्तं ममात्मजे १८।
ममात्मजस्य दुर्बुद्धे हरिसंस्तवमीदृशम् ।
किमर्थमुक्तवान्जाड्यमकार्य्यं ब्राह्मणोचितम् १९।
अश्राव्यं मदमित्रस्य स्तवमेतं ममाग्रतः ।
बालेनापिकृतंत्वेतत्त्वत्प्रसादाद्दिवजाधम २०।
इत्युक्त्वा परितो वीक्ष्य दैत्यराट्क्रोधमूर्च्छितः ।
उवाच दैत्यमेकं तु बंधयैनं द्विजाधमम् २१।
इतिराजवचः श्रुत्वा स बबंध भृगोः सुतम् ।
बध्यमानं गुरुं दृष्ट्वा प्रह्लादो ब्राह्मणप्रियः ।
उवाच पितरं तात इदं मे नोक्तवान्गुरुः २२।
कृपया देवदेवस्य शिक्षितोस्मि हरेः प्रभो ।
नान्यो गुरुर्मे भवति स एव प्रेरको हरिः २३।
श्रोता मंता तथा वक्ता द्रष्टा सर्वग ईश्वरः ।
हरिरेवाक्षयः कर्त्ता नियंता सर्वदेहिनाम् ।
तस्मादनागसो विप्रो मोक्तव्योऽयं गुरुः प्रभो २४।
रुद्र उवाच-
इति पुत्रवचः श्रुत्वा हिरण्यकशिपुस्ततः ।
तं ब्राह्मणं मोचयित्वा स्वसुतं प्राह विस्मयात् २५।
किं वत्स त्वं भ्रमस्येवं मिथ्यावाक्यैर्द्विजन्मनः ।
को विष्णुः किं तु तद्रूपं कुत्रासौ संस्थितो हरिः २६।
अहमेवेश्वरो लोके त्रैलोक्याधिपतिर्यतः ।
मामेवार्च्चय गोविंदं त्यज शत्रुं दुरासदम् २७।
अथवा शंकरं देवं रुद्रं लोकगुरुं प्रभुम् ।
अर्च्चयस्वासुराध्यक्षं सर्वैश्वर्य्यप्रदं शिवम् २८।
त्रिपुंड्रधारणं कृत्वा भस्मना दैत्यपूजितम् ।
पूजयित्वा महादेवं पाशुपत्योक्तमार्गतः २९।
रुद्र उवाच-
इति दैत्यपतेर्वाक्यं श्रुत्वा दैत्यपुरोहिताः ३०।
पुरोहिता ऊचुः-
एवमेव महाभाग कुरुष्व वचनं पितुः ।
त्यज शत्रुं कैटभारिं पूजयस्व त्रिलोचनम् ३१।
रुद्रात्परतरो देवो नास्ति सर्वप्रदो नॄणाम् ।
पिता तवापि तस्यैव प्रसादादीश्वरोऽभवत् ३२।
रुद्र उवाच-
इति तेषां वचः श्रुत्वा प्रह्लादो जन्मवैष्णवं ३३।
प्रह्लाद उवाच-
अहो भगवतः श्रेष्ठा यन्माया मोहितं जगत् ।
अहो वेदांतविदुषः सर्वलोकेषु पूजिताः ३४।
ब्राह्मणा अपि चापल्याद्वदंत्येवं मदान्विताः ।
नारायणः परं ब्रह्म तत्वं नारायणः परम् ३५।
नारायणः परो ध्याता ध्यानं नारयणः परम् ।
गतिर्विश्वस्य जगतः शाश्वतं शिवमच्युतः ३६।
धाता विधाता जगतो वासुदेवः सनातनः ।
विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति ३७।
हिरण्मयवपुर्नित्यःपुंडरीकनिभेक्षणः ।
श्रीभूलीलापतिः सौम्योनिर्म्मलः शुभविग्रहः ३८।
तेनैव सृष्टौ ब्रह्मेशौ सर्गे देवोत्तमौ विभू ।
तस्यैवाज्ञां पुरस्कृत्य वर्त्तेते ब्रह्मशंकरौ ३९।
भीषास्माद्वाति पवनो भीषोदेति दिवाकरः ।
भीषास्मादग्निश्चंद्रोऽथ मृत्युर्धावति पंचमः ४०।
आसीदेको हरिर्दिव्यो देवो नारायणः परः ।
ब्रह्मा नेंद्रो न चेशानो न च चंद्र दिवाकरौ ४१।
न वा द्यावापृथिव्यौ च नक्षत्राणि दिवौकसः ।
तस्य विष्णोः परं धाम सदा पश्यंति सूरयः ४२।
एवं सर्वोपनिषदामर्थं हित्वा द्विजोत्तमाः ।
रागाल्लोभाद्भयाद्वापि किं ब्रवीथ ममाग्रतः ४३।
तं सर्वरक्षकं देवं त्यक्त्वा सर्वेश्वरं हरिम् ।
कथं पाषंडमाश्रित्य पूजयामि च शंकरम् ४४।
लक्ष्मीपतिं देवदेवमनंतं पुरुषोत्तमम् ।
इंदीवरदलश्यामं पद्मपत्रायतेक्षणम् ४५।
श्रीवत्सलक्षितोरस्कं सर्व्वाभरणभूषितम् ।
सदा कुमारं सर्व्वेशं नित्यानन्दसुखप्रदम् ४६।
कृष्णं दध्युर्महात्मानो योगिनः सनकादयः ।
यमर्चयंति ब्रह्मेश शक्राद्या देवतागणाः ४७।
यस्य पत्न्याः कटाक्षार्द्धदृष्ट्या दृष्टा दिवौकसः ।
ब्रह्मेंद्र रुद्र वरुण यम सोम धनाधिपाः ४८।
यन्नामस्मरणादेव पापिनामपि सत्वरम् ।
मुक्तिर्भवति जंतूनां ब्रह्मादीनां सुदुर्लभा ४९।
स एवं रक्षकः श्रीशो देवानामपि सर्वदा ।
तमेव पूजयिष्यामि लक्ष्म्या संयुतमच्युतम् ५०।
प्राप्स्यामि सुसुखेनैव तद्विष्णोः परमं पदम् ।
रुद्र उवाच-
इति तस्य वचः श्रुत्वा हिरण्यकशिपुस्ततः ५१।
क्रोधेन महताविष्टो जज्वालाग्निरिवापरः ।
परितो वीक्ष्य दैतेयानित्याह क्रोधमूर्छितः ५२।
हिरण्यकशिपुरुवाच -
भीषणैः शस्त्रसंघातैः प्रह्लादं पापकारिणम् ।
ममाज्ञया घातयध्वं शत्रुपूजनतत्परम् ५३।
रक्षिता हरिरेवेति रक्षते तेन वात्सलात् ।
अद्यैव सफलं तस्य पश्येयं हरिरक्षणम् ५४।
रुद्र उवाच-
तदोद्यतास्त्रा दैतेया हंतुं दैत्येश्वरात्मजम् ।
परिवार्य महात्मानं तस्थुर्दैत्येश्वराज्ञया ५५।
प्रह्लादोऽपि तथा विष्णुं ध्यात्वा हृदयपंकजे ।
जपन्नष्टाक्षरं मंत्रं तस्थौ गिरिरिवापरः ५६।
तं जघ्नुः परितो वीराः शूलतोमरशक्तिभिः ।
प्रह्लादस्य वपुस्तत्र हरिसंस्मरणाच्छुभे ५७।
विष्णोः प्रभावाद्दुद्धर्षाद्वज्रभूतमभूद्भृशम् ।
ततः संप्राप्य तद्गात्रं महास्त्राणि सुरद्विषाम् ५८।
नीलोत्पलदलानीव पेतुश्चिछन्नाः क्षितौ शुभे ।
अल्पमप्यस्य तद्गात्रं भेत्तुं दैत्या न च क्षमाः ५९।
विस्मितावाङ्मुखास्तस्थुर्दैत्य राजांतिके भटाः ।
तादृग्विधं महात्मानं दृष्ट्वा पुत्रं महाबलम् ६०।
विस्मयं परमं गत्वा दैत्यराट्क्रोधमूर्छितः ।
आदिदेश ततः सर्वान्दंदशूकान्महाविषान् ६१।
वासुकिप्रभृतीन्भीमान्खादयध्वमिति क्रुधा ।
आदिष्टास्तेन राज्ञाथ ते नागाः सुमहाबलाः ६२।
ज्वलितास्या महाभीमास्तं च खादुर्महाबलम् ।
गरुडध्वजभक्तं तं विदश्य गरलायुधाः ६३।
निर्विषाश्च्छिन्नदशना बभूवुरनिलाशनाः ।
वैनतेयसहस्रेण छिन्नगात्राः सुविह्वलाः ६४।
प्रदुद्रुवुर्दिशः सर्वावमंतो रुधिरं भृशम् ।
तादृग्विधान्महासर्पान्दृष्ट्वा दैत्यपतिस्तदा ६५।
आदिदेश ततः क्रुद्धो दिग्गजान्सुमदान्वितान् ।
निर्दिष्टास्तेन राज्ञाथ दिग्गजाश्च मदोद्धताः ६६।
परिवार्याथ तं जघ्नुर्दंतैः पृथुतरैर्भृशम् ।
अथ दिग्गजदंताश्च छिन्नमूलाः पतन्भुवि ६७।
दंतैर्विनाकृता नागा भयार्ता वै प्रदुद्रुवुः ।
तान्दृष्ट्वाथ महानागान्दैत्येंद्रः कुपितो बली ६८।
प्रज्वाल्य च महावह्निं चिक्षेप सुतमात्मनः ।
जलशायिप्रियं दृष्ट्वा प्रह्लादं हव्यवाहनः ६९।
न ददाह च तं धीरं सुशीतः समभूच्छिखी ।
अदह्यमानं तं बालं दृष्ट्वा राजा सुविस्मितः ७०।
प्रादात्तस्मै विषं घोरं सर्वभूतहितं तदा ।
तस्य विष्णोः प्रभावाच्च विषमस्यामृतं भवेत् ७१।
अर्पणात्तस्य देवस्य विषं चामृतमश्नुते ।
एवमाद्यैर्वधोपायैर्घोररूपैः सुदारुणैः ७२।
मोहयित्वात्मजं राजा तस्यावध्यत्वमीक्ष्य च ।
ततः साम्ना सुतं प्राह दैत्यराड्विस्मयाकुलः ७३।
हिरण्यकशिपुरुवाच-
त्वया विष्णोः परत्वं च सम्यगुक्तं ममाग्रतः ।
व्यापित्वात्सर्वभूतानां विष्णुरित्यभिधीयते ७४।
योऽसौ सर्वगतो देवः स एव परमेश्वरः ।
तस्य सर्वगतत्वं वै प्रत्यक्षं दर्शयस्व मे ७५।
ऐश्वर्यशक्तितेजांसि ज्ञानवीर्यबलानि च ।
परस्य तस्य परमं रूपं गुणविभूतयः ७६।
सम्यग्दृष्ट्वा प्रयत्नेन विष्णुं मन्ये दिवौकसाम् ।
मम प्रतिबलो लोके नास्ति देवेषु कश्चन ७७।
ईशानवरदानेन सर्वभूतेष्ववध्यताम् ।
प्राप्तवान्सर्वभूतानांनदुर्जयत्वं च मानद ।
ईश्वरत्वं लभेद्विष्णुर्मां जित्वा बलवीर्यतः ७८।
रुद्र उवाच-
इति तस्य वचः श्रुत्वा प्रह्लादः प्राह विस्मितः ।
हरेः प्रभावं दैन्यस्य कथयामास सुव्रतः ७९।
प्रह्लाद उवाच-
योऽसौ नारायणः श्रीमान्परमात्मा सनातनः ।
वसनात्सर्वभूतेषु वासुदेवः स उच्यते ८०।
सर्वस्यापि जगद्धाता विष्णुरित्यभिधीयते ।
न किंचिदस्मादन्यं तु जगत्स्थावर जंगमम् ८१।
सर्वत्र चिदचिद्वस्तु रूपं तस्यैव नान्यथा ।
त्रिपाद्व्याप्तिः परं व्योम्नि पादव्याप्ति कलाद्भुता ८२।
योऽसौ चक्रगदापाणिः पीतवासा जनार्दनः ।
योगिभिर्दृश्यते भक्त्या नाभक्त्या दृश्यते क्वचित् ८३।
द्रष्टुं न शक्यो रोषाच्च मत्सराद्वा जनार्दनः ।
देवतिर्यङ्मनुष्येषु स्थावरेष्वपि जंतुषु ।
व्याप्य तिष्ठति सर्व्वेषु क्षुद्रेष्वपि महत्सु च ८४।
रुद्र उवाच-
इति प्रह्लादवचनं श्रुत्वा दैत्यवरस्तदा ।
उवाच रोषताम्राक्षो भर्त्सयंश्च सुतं मुहुः ८५।
हिरण्यकशिपुरुवाच-
असौ सर्वगतो विष्णुरपि चेत्परमः पुमान् ।
प्रत्ययं दर्शयस्वाद्य बहुभिः किं च लापितैः ८६।
महादेव उवाच-।
इत्युक्त्वा सहसा दैत्यः प्रासादस्तंभमात्मनः ।
ताडयामास हस्तेन प्रह्लादमिदमब्रवीत् ८७।
हिरण्यकशिपुरुवाच-
अस्मिन्दर्शय तं विष्णुं यदि सर्वगतो भवेत् ।
अन्यथा त्वां वधिष्यामि मिथ्यावाक्यप्रलापिनम् ८८।
रुद्र उवाच-
इत्युक्त्वा सहसा खङ्गमाकृष्य दितिजेश्वरः ।
प्रह्लादोरसि चिक्षेप हंतुं खङ्गेन तं रुषा ८९।
तस्मिन्क्षणे महाशब्दः स्तंभे संश्रूयते भृशम् ।
संवर्ताशनिसंरावैः खमिव स्फुटितांतरम् ९०।
तेन शब्देन महता दैत्यश्रोत्रविघातिना ।
सर्वे निपातिता भूमौ छिन्नमूला इव द्रुमाः ९१।
बिभ्यंतः संप्लुतं दैत्या मेनिरे वै जगत्त्रयम् ।
ततः स्तंभे महातेजा निष्क्रांतो वै महाहरिः ९२।
चकार स महाघोरं जगत्क्षयनिभं स्वनम् ।
तेन नादेन महता तारकाः पतिता भुवि ९३।
नृसिंहवपुरास्थाय तत्रैवाविरभूद्धरिः ।
अनेककोटिसूर्य्याग्नि तेजसा स समावृतः ९४।
मुखे पंचाननप्रख्यः शरीरे मानुषाकृतिः ।
दंष्ट्राकरालवदनः स्फुरज्जिह्वाम्बरोद्धतः ९५।
ज्वालावलितकेशांतस्तप्तालातेक्षणो विभुः ।
सहस्रबाहुभिर्दीर्घैः सर्वायुधसमन्वितैः ९६।
वृतो मेरुरिवाभाति बहुशाखानगान्वितः ।
दिव्यमाल्यांबरधरो दिव्याभरणभूषितः ९७।
तस्थौ नृकेसरीरूपः संहर्त्तुं सर्वदानवान् ।
तं दृष्ट्वा घोरसंकाशं नरसिंहं महाबलम् ९८।
दग्धाक्षिपक्ष्मो दैत्येंद्रो विह्वलांगः पपात ह ।
प्रह्लादोऽथ तदा दृष्ट्वा नारसिंहोपमं हरिम् ९९।
जयशब्देन देवेशं नमश्चक्रे जनार्दनम् ।
ददर्श तस्य गात्रेषु नृसिंहस्य महात्मनः १०० 6.238.100।
लोकान्समुद्रा न्सद्वीपान्सुरगंधर्वमानुषान् ।
अजांडानां सहस्रं तु सटाग्रे तस्य दृश्यते १०१।
दृश्यंते तस्य नेत्रेषु सोमसूर्य्यादयस्तथा ।
कर्णयोरश्विनौ देवौ दिशश्च विदिशस्तथा १०२।
ललाटे ब्रह्मरुद्रौ च नभो वायुश्च नासिके ।
इंद्राग्नी तस्य वक्त्रांतेजिह्वायां तु सरस्वती १०३।
दंष्ट्रासु सिंहशार्दूलाः शरभाश्च महोरगाः ।
कंठे च दृश्यते मेरुः स्कंधेष्वपि महाद्रयः १०४।
देवतिर्य्यङ्मनुष्याश्च बाहुष्वपि महात्मनः ।
नाभौ चास्यांतरिक्षं च पादयोः पृथिवीतथा १०५।
रोमस्वोषधयः सर्वाः पादपा नखपंक्तिषु ।
निःश्वासेषु च वेदाश्च साङ्गोपाङ्गसमन्विताः १०६।
आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः ।
सर्वाङ्गेषु प्रदृश्यंते गंधर्वाप्सरसश्च ये १०७।
इत्थं विभूतयस्तस्य दृश्यंते परमात्मनः ।
श्रीवत्सकौस्तुभोरस्कं वनमालाविभूषितम् १०८।
शंखचक्रगदाखङ्ग शार्ङ्गाद्यैर्हेतिभिर्युतम् ।
सर्वोपनिषदामर्थं दृष्ट्वा दैत्येश्वरात्मजः १०९।
हर्षाश्रुजलसिक्तांगः प्रणनाम मुहुर्मुहुः ।
दैत्येंद्रस्तु हरिं दृष्ट्वा क्रोधान्मृत्युवशे स्थितः ११०।
योद्धुं खङ्गं समुद्यम्य नृसिंहं तमभिद्रवत् ।
अथ दैत्यगणाः सर्व्वे लब्धसंज्ञा महाबलाः १११।
स्वान्यायुधानि चादाय हरिं जघ्नुस्त्वरान्विताः ।
पलालकाण्डानि यथा वह्नौ क्षिप्तान्यनेकशः ११२।
तथैव भस्मतां यांति महास्त्राणि हरेस्तनौ ।
तान्यनीकानि दैत्यानां दृष्ट्वा नरहरिस्तदा ११३।
सटैर्ददाह च ज्वालामालाविरचित स्फुटैः ।
नृकेसरि सटोद्भूतवह्निना दानवा भृशम् ११४।
निर्भस्मिता गणाः सर्वे निःशेषं तदभूद्बलम् ।
प्रह्लादं सानुगं हित्वा भस्मिते वीक्ष्य तद्बले ११५।
क्रोधाद्दैत्यपतिः खङ्गमाकृष्याभिप्रपद्यत ।
खङ्गहस्तं तु दैत्येंद्रं जग्राहैकेन बाहुना ११६।
पातयामास देवेशो यथा शाखां महानिलः ।
गृहीत्वा पतितं भूमौ महाकायं नृकेसरी ११७।
स्वोत्संगे स्थापयामास ददर्शासौ मुखं हरेः ।
विष्णुनिंदाकृतंपापंतथावैष्णवदोषजम् ११८।
नृसिंहस्पर्शनादेवनिर्भस्मितमभूत्तदा ।
अथदैत्येश्वरस्याथमहद्गात्रंनृकेसरी ११९।
नखेर्विदारयामासतीक्ष्णैर्वज्रनिभैर्घनैः ।
सनिर्म्मलात्मादैत्येंद्र पःश्यन्साक्षान्मुखं हरेः १२०।
नखनिर्भिन्नहृदयः कृतार्थो विजहावसून् ।
तद्गात्रं शतधा भित्त्वा नखैस्तीक्ष्णैर्महाहरिः १२१।
आकृष्यांत्राणि दीर्घाणि कंठे संसक्तवान्प्रियान् ।
अथ देवगणाः सर्व्वे मुनयश्च तपोधनाः १२२।
ब्रह्मरुद्रौ पुरस्कृत्य शनैः स्तोतुं समाययुः ।
ते प्रसादयितुं भीता ज्वलंतं विश्वतोमुखम् १२३।
मातरं जगतां धात्रीं चिंतयामासुरीश्वरीम् ।
हिरण्यवर्णां हरिणीं सर्व्वोपद्रवनाशिनीम् १२४।
विष्णोर्नित्यानवद्यांगीं ध्यात्वा नारायणीं शुभाम् ।
देवीसूक्तजपैर्भक्त्या नमश्चक्रुः सनातनीम् १२५।
तैश्चिंत्यमाना सा देवी तत्रैवाविरभूत्तदा ।
चतुर्भुजा विशालाक्षी सर्वाभरणभूषिता १२६।
दुकूलवस्त्रसहितां दिव्यमालानुलेपनाम् ।
तां दृष्ट्वा देवदेवस्य प्रियां सर्वे दिवौकसः १२७।
ऊचुः प्रांजलयो देवीं प्रसन्नं कुरुते प्रियम् ।
त्रैलोक्यस्याभयं स्वामी यथा दद्यात्तथा कुरु १२८।
रुद्र उवाच-
इत्युक्ता सहसा देवी प्रियं प्राप्य जनार्दनम् ।
प्रणिपत्य नमस्कृत्य प्रसीदेति उवाच तम् १२९।
तां दृष्ट्वा महिषीं स्वस्य प्रियां सर्व्वेश्वरो हरिः ।
रक्षःशरीरजं क्रोधं तत्याज प्रीतवत्क्षणात् १३०।
अंकमादाय तां देवीं समाश्लिष्य दयानिधिः ।
कृपासुधार्द्रदृष्ट्या वै निरैक्षत सुरान्हरिः १३१।
ततो जयजयेत्युच्चैः स्तुवतां नमतां तदा ।
तद्दयादृष्टिदृष्टानां सानंदः संभ्रमोऽभवत् १३२।
ततो देवगणाः सर्वे हर्षनिर्भरमानसाः ।
ऊचुः प्रांजलयो देवं नमस्कृत्य जगत्पतिम् १३३।
देवगणा ऊचुः -
द्रष्टुमत्यद्भुतं तेजो न शक्तास्ते जगत्पते ।
अत्यद्भुतमिदं रूपं बहुबाहुपदांकितम् १३४।
जगत्त्रयसमाक्रांतं तेजस्तीक्ष्णतरं तव ।
द्रष्टुं स्थातुं न शक्ताः स्मः सर्व्व एव दिवौकसः १३५।
महादेव उवाच-।
इत्यर्थितस्तु विबुधैस्तेजस्तदतिभीषणम् ।
उपसंहृत्य देवेशो बभूव सुखदर्शनः १३६।
शरत्कोटींदुसंकाशः पुंडरीकनिभेक्षणः ।
सुधामय सटापुंज विद्युत्कोटिनिभः शुभः १३७।
नानारत्नमयैर्दिव्यैः केयूरैः कटकान्वितैः ।
बाहुभिः कल्पवृक्षस्य शाखौघैरिव सत्फलैः १३८।
चतुर्भिः कोमलैर्दिव्यैरन्वितः परमेश्वरः ।
जपाकुसुमसंकाशैः शोभितः करपंकजैः १३९।
शंखचक्रगृहीताभ्यामुद्बाहुभ्यां विराजितः ।
वरदाभयहस्ताभ्यामितराभ्यां नृकेसरी १४०।
श्रीवत्सकौस्तुभोरस्को वनमालाविभूषितः ।
उद्यद्दिनकाराभ्यां च कुण्डलाभ्यां विराजितः १४१।
हारकेयूरकटकैर्भूषणैः समलंकृतः ।
सव्यांगस्थ श्रियायुक्तो राजते नरकेसरी १४२।
लक्ष्मीनृसिंहं तं दृष्ट्वा देवताः समहर्षयः ।
आनन्दाश्रुजलैः सिक्ता हर्षनिर्भरचेतसः १४३।
आनंदसिंधुमग्नास्ते नमश्चक्रुर्निरंतरम् ।
अर्चयामासुरात्मेशं दिव्यपुष्पसमर्पणैः १४४।
रत्नकुंभैः सुधापूर्णैरभिषिच्य सनातनम् ।
वस्त्रैराभरणैर्गंधैः पुष्पैर्धूपैर्म्मनोरमैः १४५।
दिव्यैर्निवेदितैर्दीपैरर्च्चयित्वा नृकेसरिम् ।
तुष्टुवुः स्तवनैर्दिव्यैर्नमश्चक्रुर्म्मुहुर्म्महुः १४६।
ततः प्रसन्नो लक्ष्मीशस्तेषामिष्टान्वरान्ददौ ।
ततो देवगणैः सार्धं सर्व्वेशो भक्तवत्सलः १४७।
प्रह्लादं सर्वदैत्यानां चक्रे राजानमव्ययम् ।
आश्वास्य भक्तं प्रह्लादमभिषिच्य सुरोत्तमैः १४८।
ददौ तस्मै वरानिष्टान्भक्तिं चाव्यभिचारिणीम् ।
ततो देवगणैः सर्वैः स्तूयमानो नृकेसरी १४९।
विकीर्णपुष्पवपुभिस्तत्रैवांतरधीयत ।
ततः सुरगणाः सर्वे स्वंस्वं स्थानं प्रपेदिरे १५०।
पुनश्च यज्ञभागान्स्वान्बुभुजुः प्रीतमानसाः ।
ततो देवाः सगंधर्वा निरातंकाभवंस्तदा १५१।
तस्मिन्हते महादैत्ये सर्व एव प्रहर्षिताः ।
प्रह्लादस्तु तदा चक्रे राज्यं धर्मेण वैष्णवः १५२।
हरेः प्रसादाल्लब्धं तु राज्यं वैष्णवसत्तमः ।
बहुभिर्यज्ञदानाद्यैरर्चयित्वा नृकेसरिम् १५३।
काले हरिपदं प्राप योगिगम्यं सनातनम् ।
एतत्प्रह्लादचरितं ये तु शृण्वंति नित्यशः १५४।
ते सर्वेपापनिर्मुक्ता यास्यंति परमां गतिम् ।
एतत्ते कथितं देवि नृसिंहं वैभवं हरेः ।
शेषां च वैभवावस्थां शृणु देवि यथाक्रमम् १५५।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां सहिंतायामुत्तरखंडे उमामहेश्वरसंवादे नृसिंहप्रादुर्भावोनामाष्टत्रिंशदधिकद्विशततमोऽध्यायः २३८।