पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १९२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १९१ पद्मपुराणम्
अध्यायः १९२
वेदव्यासः
अध्यायः १९३ →

पावर्त्युवाच-
उक्तं सप्तदशाध्यायगौरवं भवता शिव ।
स त्वमष्टादशाध्यायमहिमानमुदीरय १।
ईश्वर उवाच-।
आकर्णय चिदानंद निष्पादि निगमोत्तरम् ।
पुण्यमष्टादशाध्यायमाहात्म्यं गिरिनंदिनि २।
समस्तशास्त्रसर्वस्वं श्रोत्रप्राप्तं रसायनम् ।
संसारयातनाजालविदारणपरायणम् ३।
परं रहस्यं सिद्धानामविद्योन्मूलनक्षमम् ।
चैतन्यं कैटभारातेरग्रगण्यं परं पदम् ४।
विवेकवल्लरीमूलं कामक्रोधमलापहम् ।
पुरंदरादिगीर्वाणचित्तविश्रामकारकम् ५।
सनकादिमहायोगिमनोरंजनकारणम् ।
पाठमात्रपराभूतकालकिंकरगर्जितम् ६।
अष्टोत्तरशतव्याधिमूलोन्मूलनकारकम् ।
नातः परतरं किंचिद्रहस्यं हंसगामिनि ७।
उपतापत्रयहरं महापातकनाशनम् ।
यथाकालेष्वहं नित्यो यथा पशुषु कामधुक् ८।
यथा व्यासो मुनींद्रेषु व्यासेषु ब्रह्मवित्तमः ।
यथा दिवौकसां शक्रो गुरुः शक्राद्यथा वरः ९।
यथा रसानां पीयूषमुत्तमं विश्वविश्रुतम् ।
तथा गिरीणां कैलासो यथा चेंद्रो दिवौकसाम् १०।
तीर्थानां पुष्करं तीर्थं यथा पुष्पेषु पंकजम् ।
पतिव्रतासु नारीषु यथा लोकेष्वरुंधती ११।
यथा मखेष्वश्वमेधो यथोद्यानेषु नंदनम् ।
यथारुद्रेषु सर्वेषु वीरभद्रो ममानुगः १२।
यथा दानेषु भूदानं यथा सिंधुषु गौतमी ।
यथा लोके हरिक्षेत्रं प्रशस्तं धर्मकर्मसु १३।
तथैवाष्टादशाध्यायमाहात्म्यं भुवनोत्तरम् ।
तत्राख्यानमिदं पुण्यं भक्त्याकर्णय पार्वति १४।
यथाकर्णनमात्रेण जंतुः पापैः प्रमुच्यते ।
अस्ति मेरुगिरेः शृंगे पुरी रम्यामरावती १५।
पुरा मम विनोदाय निर्मिता विश्वकर्मणा ।
निरंतरं गुणयुता कोटिगीर्वाणसेविता १६।
तेजःपुंजवती साक्षाद्ब्रह्मविद्येव विश्रुता ।
चिंतामणिशिलाबद्धाः प्रासादा यत्र कामदाः १७।
जयंति मेरुशिखरे चतुर्मुखपुरावधि ।
यत्र कल्पद्रुमच्छाया सुखासीना पुलोमजा १८।
शृणोति श्यामला गीर्भिर्गीतं गंधर्वयोषिताम् ।
यत्रास्ते सबलारातिर्देवैश्च दलितायुषाम् १९।
दैत्यानां रक्तकल्लोलैः स्वर्धुनी शोणतां गता ।
पुरातनसुधास्वादु स्मारं स्मारं दिवौकसः २०।
धयंति यत्र क्षुत्क्षामा कलां प्रत्यहमैंदवीम् ।
तस्यां कैवल्यकल्पायामासीत्पूर्वं शतक्रतुः २१।
शची समन्वितः श्रीमान्सर्वगीर्वाणसेवितः ।
स कदाचित्सुखासीनो विष्णुदूतैरधिश्रितम् २२।
सहस्रनेत्रमायांतमपश्यत्पुरुषं परम् ।
ततस्तदीय तेजोभिरभिभूतः पुरंदरः २३।
मणिसिंहासनात्तूर्णं पतितः स्थानमंडपे ।
सिंहासनात्प्रयातस्य ततस्तस्य हरेर्भटाः २४।
गीर्वाणगणसाम्राज्य पट्टबंधं वितेनिरे ।
अथ तस्याभिषिक्तस्य महेंद्रस्य पुलोमजा २५।
वामांकमारुरोहाशु दिव्यदुंदुंभिनिःस्वनैः ।
अथ त्रिदिवसंगीत गीर्वाणाः प्रमदान्विताः २६।
सुरा नीराजयामासुर्दिव्यरत्नैः सुरस्त्रियः ।
ततो वै ऋषयो वेदैराशीर्वादास्तदा ददुः २७।
रंभाद्या ननृतुस्तस्य पुरस्तादप्सरोगणाः ।
गंधर्वा ललितालापाञ्जगुर्मंगलकौतुकम् २८।
एवं नूतनमिंद्रं तु जुष्टं बहुभिरुत्सवैः ।
विना शतक्रतुं दृष्ट्वा शक्रो विस्मयमाययौ २९।
न मया विहिता मार्गे तडागा न विनिर्मिताः ।
न रोपिता महावृक्षाः पांथविश्रांतिकारकः ३०।
न कदाचिदहो दृष्टो देवस्त्रिपुरभैरवः ।
निधिवासे स्थिता देवी पूजिता न मदालसा ३१।
मेघंकरस्थितः शार्ङ्गधरो नैव निरीक्षितः ।
न कृतं विरजे स्नानं नैवं काशीं पुरीं गतः ३२।
न देववाटिकावासी दृष्टो नरहरिः स्वयम् ।
एरंडविष्णुर्हेरंबो न जातु परिशीलितः ३३।
रेणुकानेक्षिता जातु माता पुरनिवासिनी ।
न भक्त्या पूजिता देवी दाना पुरनिवासिनी ३४।
न भक्त्या त्रिपुरे दृष्टस्त्रिलिंगस्त्र्यंबकः स्वयम् ।
न शार्दूलतडागस्थो वीक्षितः सोमनाथकः ३५।
रेवापुरस्थितो देवो घुसृणेशो न वीक्षितः ।
नागदंतपुरे ख्यातो नागनाथो न वेक्षितः ३६।
पर्णग्रामस्थितो दृष्टो न महानमृतेश्वरः ।
न तुंगभद्रा तीरस्थो दृष्टो हरिहरः स्वयम् ३७।
न वेंकटाद्रिनिलयः श्रीनिवासः सुलक्षितः ।
कावेरी कर्णिकातीरे श्रीरंगो नैव वीक्षितः ३८।
दीनास्त्वनाथाः क्रोशंतः कारागारान्न मोचिताः ।
अन्नदानेन दौर्भिक्षे प्राणिनो नैव पूजिताः ३९।
रात्रौ रात्रौ कृता क्वापिनिर्जले नोदकप्रभा ४०।
न गौतम्यां कृतं स्नानं न दृष्टो हरिणेश्वरः ।
कृष्णवेण्यां च न कृतं स्नानं कन्यागते गुरौ ४१।
दत्तं नो भूखंडमपि कवयो नैव पूजिताः ।
न तीर्थेषु कृतं सत्रं न ग्रामेषु कृता मखाः ४२।
पुष्करिण्यो न विहिता मध्ये मार्गं बहूदकाः ।
न प्रासादाः कृताः क्वापि ब्रह्मविष्णुपिनाकिनाम् ४३।
न जातुचिद्भयाक्रांता रक्षिताः शरणागताः ।
कथमेकेन पुण्येन देवदत्तमिहार्जितम् ४४।
इति चिंताकुलो भूत्वा हरिं प्रष्टुं पुरंदरः ।
ययौ सरभसंखिन्नः क्षीरकूपारगह्वरम् ४५।
तत्र प्रविश्य गोविंदं कृतनिद्रं नवैस्तवैः ।
अकस्मान्निजसाम्राज्यभ्रंशदुःखमुवाच ह ४६।
इंद्र उवाच-।
रमाकांत भवत्प्रीत्यै कृतं क्रतुशतं पुरा ।
तेन पुण्येन संप्राप्तं मया पौरंदरं पदम् ४७।
इदानीं नूतनः कोऽपि जातो दिवि पुरंदरः ।
न तेन धर्मो विहितो न तेन क्रतवः कृताः ४८।
मम सिंहासनं दिव्यं कथमाक्रांतमच्युत ४९।
महादेव उवाच-।
इत्येवं वदतस्तस्य श्रुत्वा वाचं रमापतिः ।
उन्मीलितस्मिताक्षो सावुवाच मधुरं वचः 6.192.५०।
श्रीभगवानुवाच-।
किं दानैरल्पफलदैः किं तपोभिः किमध्वरैः ।
वर्त्तमानः क्षितितले सत्वं प्रीणितवान्पुरा ५१।
इन्द्र उवाच-।
भगवन्कर्मणा केन स त्वां प्रीणितवान्द्विजः ।
यत्प्रीत्या भगवान्प्रादात्तस्मै पौरंदरं पदम् ५२।
श्रीभगवानुवाच ।
जपत्यष्टादशाध्याये गीतानां श्लोकपंचकम् ।
यत्पुण्येन च संप्राप्तं तव साम्राज्यमुत्तमम् ५३।
सर्वपुण्यशिरोरत्न भूतेन त्वं स्थिरो भव ।
इति विष्णोर्वचः श्रुत्वा ज्ञातोपायं पुरंदरः ५४।
विप्रवेषधरो भूत्वा गतो गोदावरीतटम् ।
तत्रापश्यत्पुरं पुण्यं कालिकाग्राममुत्तमम् ५५।
यत्र कालेश्वरो देवो वर्त्तते कालमर्दनः ।
तत्र गोदावरी तीरे स्थितं परमधार्मिकम् ५६।
अपश्यत्करुणावंतं ब्राह्मणं वेदपारगम् ।
नित्यमष्टादशाध्यायं जपंतं दांतचेतसम् ५७।
ततस्तच्चरणद्वंद्वे लुठित्वा परया मुदा ।
सत्वमष्टादशाध्यायमपठत्तेन शिक्षितम् ५८।
अथ पुण्येन तेनाऽसौ विष्णोः सायुज्यमाययौ ।
हित्वा पुरंदरादीनां देवानां पदमल्पकम् ५९।
ज्ञात्वातीव मुदायुक्तो वैकुंठमगमत्पुरम् ।
अतएव परं तत्वं मुनीनामिदमुत्तमम् ६०।
दिव्यमष्टादशाध्यायमाहात्म्यं कथितं मया ।
यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ६१।
इत्येवं गीतामाहात्म्यं कथितं पापनाशनम् ।
पुण्यं पवित्रमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् ६२।
यः शृणोति महाभागे श्रद्धया संयुतः पुमान् ।
सर्वयज्ञफलं प्राप्य विष्णोः सायुज्यमाप्नुयात् ६३।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखंडे सतीश्वरसंवादे गीतामाहात्म्ये द्विनवत्यधिक शततमोऽध्यायः १९२।


भगवद्गीतायाः अष्टादशोध्यायः[सम्पाद्यताम्]